Haindavam Logo - Lord Ganesha
Haindavam
📍
Font Size:

गङ्गा स्तवः

सूत उवाच –
शृणुध्वं मुनयः सर्वे गङ्गास्तवमनुत्तमम् ।
शोकमोहहरं पुंसामृषिभिः परिकीर्तितम् ॥ 1 ॥
ऋषय ऊचुः –
इयं सुरतरङ्गिणी भवनवारिधेस्तारिणी
स्तुता हरिपदाम्बुजादुपगता जगत्संसदः ।
सुमेरुशिखरामरप्रियजलामलक्षालिनी
प्रसन्नवदना शुभा भवभयस्य विद्राविणी ॥ 2 ॥
भगीरथरथानुगा सुरकरीन्द्रदर्पापहा
महेशमुकुटप्रभा गिरिशिरःपताका सिता ।
सुरासुरनरोरगैरजभवाच्युतैः संस्तुता
विमुक्तिफलशालिनी कलुषनाशिनी राजते ॥ 3 ॥
पितामहकमण्डलुप्रभवमुक्तिबीजा लता
श्रुतिस्मृतिगणस्तुतद्विजकुलालवालावृता ।
सुमेरुशिखराभिदा निपतिता त्रिलोकावृता
सुधर्मफलशालिनी सुखपलाशिनी राजते ॥ 4 ॥
चरद्विहगमालिनी सगरवंशमुक्तिप्रदा
मुनीन्द्रवरनन्दिनी दिवि मता च मन्दाकिनी ।
सदा दुरितनाशिनी विमलवारिसन्दर्शन-
प्रणामगुणकीर्तनादिषु जगत्सु संराजते ॥ 5 ॥
महाभिषसुताङ्गना हिमगिरीशकूटस्तना
सफेनजलहासिनी सितमरालसञ्चारिणी ।
चलल्लहरिसत्करा वरसरोजमालाधरा
रसोल्लसितगामिनी जलधिकामिनी राजते ॥ 6 ॥
क्वचिन्मुनिगणैः स्तुता क्वचिदनन्तसम्पूजिता
क्वचित्कलकलस्वना क्वचिदधीरयादोगणा ।
क्वचिद्रविकरोज्ज्वला क्वचिदुदग्रपाताकुला
क्वचिज्जनविगाहिता जयति भीष्ममाता सती ॥ 7 ॥
स एव कुशली जनः प्रणमतीह भागीरथीं
स एव तपसां निधिर्जपति जाह्नवीमादरात् ।
स एव पुरुषोत्तमः स्मरति साधु मन्दाकिनीं
स एव विजयी प्रभुः सुरतरङ्गिणीं सेवते ॥ 8 ॥
तवामलजलाचितं खगसृगालमीनक्षतं
चलल्लहरिलोलितं रुचिरतीरजम्भालितम् ।
कदा निजवपुर्मुदा सुरनरोरगैः संस्तुतोऽप्यहं
त्रिपथगामिनि प्रियमतीव पश्याम्यहो ॥ 9 ॥
त्वत्तीरे वसतिं तवामलजलस्नानं तव प्रेक्षणं
त्वन्नामस्मरणं तवोदयकथासंलापनं पावनम् ।
गङ्गे मे तव सेवनैकनिपुणोऽप्यानन्दितश्चादृतः
स्तुत्वा चोद्गतपातको भुवि कदा शान्तश्चरिष्याम्यहम् ॥ 10 ॥
इत्येतदृषिभिः प्रोक्तं गङ्गास्तवनमुत्तमम् ।
स्वर्ग्यं यशस्यमायुष्यं पठनाच्छ्रवणादपि ॥ 11 ॥
सर्वपापहरं पुंसां बलमायुर्विवर्धनम् ।
प्रातर्मध्याह्नसायाह्ने गङ्गासान्निध्यता भवेत् ॥ 12 ॥
इत्येतद्भार्गवाख्यानं शुकदेवान्मया श्रुतम् ।
पठितं श्रावितं चात्र पुण्यं धन्यं यशस्करम् ॥ 13 ॥
अवतारं महाविष्णोः कल्केः परममद्भुतम् ।
पठतां शृण्वतां भक्त्या सर्वाशुभविनाशनम् ॥ 14 ॥
इति श्री कल्किपुराणे गङ्गा स्तवः ॥

Recite with devotion and pure heart

Regular practice brings spiritual benefits