श्रीपार्वत्युवाच ।
धूमावत्यर्चनं शम्भो श्रुतं विस्तरतो मया ।
कवचं श्रोतुमिच्छामि तस्या देव वदस्व मे ॥ 1 ॥
श्रीभैरव उवाच ।
शृणु देवि परं गुह्यं न प्रकाश्यं कलौ युगे ।
कवचं श्रीधूमावत्याः शत्रुनिग्रहकारकम् ॥ 2 ॥
ब्रह्माद्या देवि सततं यद्वशादरिघातिनः ।
योगिनो भवच्छत्रुघ्ना यस्या ध्यानप्रभावतः ॥ 3 ॥
ओं अस्य श्रीधूमावतीकवचस्य पिप्पलाद ऋषिः अनुष्टुप् छन्दः श्रीधूमावती देवता धूं बीजं स्वाहा शक्तिः धूमावती कीलकं शत्रुहनने पाठे विनियोगः ।
कवचम् ।
ओं धूं बीजं मे शिरः पातु धूं ललाटं सदाऽवतु ।
धूमा नेत्रयुगं पातु वती कर्णौ सदाऽवतु ॥ 4 ॥
दीर्घा तूदरमध्ये तु नाभिं मे मलिनाम्बरा ।
शूर्पहस्ता पातु गुह्यं रूक्षा रक्षतु जानुनी ॥ 5 ॥
मुखं मे पातु भीमाख्या स्वाहा रक्षतु नासिकाम् ।
सर्वविद्याऽवतु कण्ठं विवर्णा बाहुयुग्मकम् ॥ 6 ॥
चञ्चला हृदयं पातु धृष्टा पार्श्वे सदाऽवतु ।
धूमहस्ता सदा पातु पादौ पातु भयावहा ॥ 7 ॥
प्रवृद्धरोमा तु भृशं कुटिला कुटिलेक्षणा ।
क्षृत्पिपासार्दिता देवी भयदा कलहप्रिया ॥ 8 ॥
सर्वाङ्गं पातु मे देवी सर्वशत्रुविनाशिनी ।
इति ते कथितं पुण्यं कवचं भुवि दुर्लभम् ॥ 9 ॥
न प्रकाश्यं न प्रकाश्यं न प्रकाश्यं कलौ युगे ।
पठनीयं महादेवि त्रिसन्ध्यं ध्यानतत्परैः ।
दुष्टाभिचारो देवेशि तद्गात्रं नैव संस्पृशेत् ॥ 10 ॥
इति भैरवीभैरवसंवादे धूमावती कवचं सम्पूर्णम् ।