Haindavam Logo - Lord Ganesha
Haindavam
📍
Font Size:

धूमावती हृदयम्

ओं अस्य श्री धूमावतीहृदयस्तोत्र महामन्त्रस्य-पिप्पलादऋषिः- अनुष्टुप्छन्दः- श्री धूमावती देवता- धूं बीजं- ह्रीं शक्तिः- क्लीं कीलकं -सर्वशत्रु संहारार्थे जपे विनियोगः
करन्यासः –
ओं धां अङ्गुष्ठाभ्यां नमः ।
ओं धीं तर्जनीभ्यां नमः ।
ओं धूं मध्यमाभ्य़ां नमः ।
ओं धैं अनामिकाभ्यां नमः ।
ओं धौं कनिष्ठकाभ्य़ां नमः ।
ओं धः करतलकरपृष्ठाभ्यां नमः ।
अङ्गन्यासः –
ओं धां हृदयाय नमः ।
ओं धीं शिरसे स्वाहा ।
ओं धूं शिखायै वषट् ।
ओं धैं कवचाय हुं ।
ओं धौं नेत्रत्रयाय वौषट् ।
ओं धः अस्त्राय फट् ।
ध्यानम् ।
धूम्राभां धूम्रवस्त्रां प्रकटितदशनां मुक्तबालाम्बराढ्यां ।
काकाङ्कस्यन्दनस्थां धवलकरयुगां शूर्पहस्तातिरूक्षाम् ।
कङ्काङ्क्षुत्क्षान्त देहं मुहुरति कुटिलां वारिदाभां विचित्रां ।
ध्यायेद्धूमावतीं कुटिलितनयनां भीतिदां भीषणास्याम् ॥ 1 ॥
कल्पादौ या कालिकाद्याऽचीकलन्मधुकैटभौ ।
कल्पान्ते त्रिजगत्सर्वं भजे धूमावतीमहम् ॥ 2 ॥
गुणागारा गम्यगुणा या गुणागुणवर्धिनी ।
गीतावेदार्थतत्त्वज्ञैः भजे धूमावतीमहम् ॥ 3 ॥
खट्वाङ्गधारिणी खर्वखण्डिनी खलरक्षसां ।
धारिणी खेटकस्यापि भजे धूमावतीमहम् ॥ 4 ॥
घूर्ण घूर्णकराघोरा घूर्णिताक्षी घनस्वना ।
घातिनी घातकानां या भजे धूमावतीमहम् ॥ 5 ॥
चर्वन्तीमस्तिखण्डानां चण्डमुण्डविदारिणीं ।
चण्डाट्टहासिनीं देवीं भजे धूमावतीमहम् ॥ 6 ॥
छिन्नग्रीवां क्षताञ्छन्नां छिन्नमस्तास्वरूपिणीं ।
छेदिनीं दुष्टसङ्घानां भजे धूमावतीमहम् ॥ 7 ॥
जाताया याचितादेवैरसुराणां विघातिनीं ।
जल्पन्तीं बहुगर्जन्तीं भजेतां धूम्ररूपिणीम् ॥ 8 ॥
झङ्कारकारिणीं झुञ्झा झञ्झमाझमवादिनीं ।
झटित्याकर्षिणीं देवीं भजे धूमावतीमहम् ॥ 9 ॥
हेतिपटङ्कारसम्युक्तान् धनुष्टङ्कारकारिणीं ।
घोराघनघटाटोपां वन्दे धूमावतीमहम् ॥ 10 ॥
ठण्ठण्ठण्ठं मनुप्रीतां ठःठःमन्त्रस्वरूपिणीं ।
ठमकाह्वगतिप्रीतां भजे धूमावतीमहम् ॥ 11 ॥
डमरू डिण्डिमारावां डाकिनीगणमण्डितां ।
डाकिनीभोगसन्तुष्टां भजे धूमावतीमहम् ॥ 12 ॥
ढक्कानादेनसन्तुष्टां ढक्कावादनसिद्धिदां ।
ढक्कावादचलच्चित्तां भजे धूमावतीमहम् ॥ 13 ॥
तत्ववार्ता प्रियप्राणां भवपाथोधितारिणीं ।
तारस्वरूपिणीं तारां भजे धूमावतीमहम् ॥ 14 ॥
थान्थीन्थून्थेमन्त्ररूपां थैन्थोथन्थःस्वरूपिणीं ।
थकारवर्णसर्वस्वां भजे धूमावतीमहम् ॥ 15 ॥
दुर्गास्वरूपिणीदेवीं दुष्टदानवदारिणीं ।
देवदैत्यकृतध्वंसां वन्दे धूमावतीमहम् ॥ 16 ॥
ध्वान्ताकारान्धकध्वंसां मुक्तधम्मिल्लधारिणीं ।
धूमधाराप्रभां धीरां भजे धूमावतीमहम् ॥ 17 ॥
नर्तकीनटनप्रीतां नाट्यकर्मविवर्धिनीं ।
नारसिंहीं नराराध्यां न्ओंइ धूमावतीमहम् ॥ 18 ॥
पार्वतीपतिसम्पूज्यां पर्वतोपरिवासिनीं ।
पद्मारूपां पद्मपूज्यां न्ओंइ धूमावतीमहम् ॥ 19 ॥
फूत्कारसहितश्वासां फट्‍मन्त्रफलदायिनीं ।
फेत्कारिगणसंसेव्यां सेवे धूमावतीमहम् ॥ 20 ॥
बलिपूज्यां बलाराध्यां बगलारूपिणीं वरां ।
ब्रह्मादिवन्दितां विद्यां वन्दे धूमावतीमहम् ॥ 21 ॥
भव्यरूपां भवाराध्यां भुवनेशीस्वरूपिणीं ।
भक्तभव्यप्रदां देवीं भजे धूमावतीमहम् ॥ 22 ॥
मायां मधुमतीं मान्यां मकरध्वजमानितां ।
मत्स्यमांसमदास्वादां मन्ये धूमावतीमहम् ॥ 23 ॥
योगयज्ञप्रसन्नास्यां योगिनीपरिसेवितां ।
यशोदां यज्ञफलदां यजेद्धूमावतीमहम् ॥ 24 ॥
रामाराध्यपदद्वन्द्वां रावणध्वंसकारिणीं ।
रमेशरमणीपूज्यामहं धूमावतीं श्रये ॥ 25 ॥
लक्षलीलाकलालक्ष्यां लोकवन्द्यपदाम्बुजां ।
लम्बितां बीजकोशाढ्यां वन्दे धूमावतीमहम् ॥ 26 ॥
बकपूज्यपदांभोजां बकध्यानपरायणां ।
बालान्तीकारिसन्ध्येयां वन्दे धूमावतीमहम् ॥ 27 ॥
शङ्करीं शङ्करप्राणां सङ्कटध्वंसकारिणीं ।
शत्रुसंहारिणीं शुद्धां श्रये धूमावतीमहम् ॥ 28 ॥
षडाननारिसंहन्त्रीं षोडशीरूपधारिणीं ।
षड्रसास्वादिनीं स्ओंयां नेवे धूमावतीमहम् ॥ 29 ॥
सुरसेवितपादाब्जां सुरसौख्यप्रदायिनीं ।
सुन्दरीगणसंसेव्यां सेवे धूमावतीमहम् ॥ 30 ॥
हेरम्बजननीं योग्यां हास्यलास्यविहारिणीं ।
हारिणीं शत्रुसङ्घानां सेवे धूमावतीमहम् ॥ 31 ॥
क्षीरोदतीरसंवासां क्षीरपानप्रहर्षितां ।
क्षणदेशेज्यपादाब्जां सेवे धूमावतीमहम् ॥ 32 ॥
चतुस्त्रिम्शद्वर्णकानां प्रतिवर्णादिनामभिः ।
कृतं तु हृदयस्तोत्रं धूमावत्यास्सुसिद्धिदम् ॥ 33 ॥
य इदं पठति स्तोत्रं पवित्रं पापनाशनं ।
स प्राप्नोति परां सिद्धं धूमावत्याः प्रसादतः ॥ 34 ॥
पठन्नेकाग्रचित्तोयो यद्यदिच्छति मानवः ।
तत्सर्वं समवाप्नोति सत्यं सत्यं वदाम्यहम् ॥ 35 ॥
इति धूमावतीहृदयम् ।

Recite with devotion and pure heart

Regular practice brings spiritual benefits