हैंदवम्
हैं
హై
हैंदवम्
ஹி
હિં
English
हिंदी
മലയാളം
తెలుగు
தமிழ்
ಕನ್ನಡ
📍
𖦏
Auto Detect Location
Font Size:
a
a
a
छिन्नमस्ता कवचम्
देव्युवाच
।
कथिताश्छिन्नमस्ताया
या
या
विद्याः
सुगोपिताः
।
त्वया
नाथेन
जीवेश
श्रुताश्चाधिगता
मया
॥
1
॥
इदानीं
श्रोतुमिच्छामि
कवचं
पूर्वसूचितम्
।
त्रैलोक्यविजयं
नाम
कृपया
कथ्यतां
प्रभो
॥
2
॥
भैरव
उवाच
।
शृणु
वक्ष्यामि
देवेशि
सर्वदेवनमस्कृते
।
त्रैलोक्यविजयं
नाम
कवचं
सर्वमोहनम्
॥
3
॥
सर्वविद्यामयं
साक्षात्सुरात्सुरजयप्रदम्
।
धारणात्पठनादीशस्त्रैलोक्यविजयी
विभुः
॥
4
॥
ब्रह्मा
नारायणो
रुद्रो
धारणात्पठनाद्यतः
।
कर्ता
पाता
च
संहर्ता
भुवनानां
सुरेश्वरि
॥
5
॥
न
देयं
परशिष्येभ्योऽभक्तेभ्योऽपि
विशेषतः
।
देयं
शिष्याय
भक्ताय
प्राणेभ्योऽप्यधिकाय
च
॥
6
॥
देव्याश्च
च्छिन्नमस्तायाः
कवचस्य
च
भैरवः
।
ऋषिस्तु
स्याद्विराट्
छन्दो
देवता
च्छिन्नमस्तका
॥
7
॥
त्रैलोक्यविजये
मुक्तौ
विनियोगः
प्रकीर्तितः
।
हुङ्कारो
मे
शिरः
पातु
छिन्नमस्ता
बलप्रदा
॥
8
॥
ह्रां
ह्रूं
ऐं
त्र्यक्षरी
पातु
भालं
वक्त्रं
दिगम्बरा
।
श्रीं
ह्रीं
ह्रूं
ऐं
दृशौ
पातु
मुण्डं
कर्त्रिधरापि
सा
॥
9
॥
सा
विद्या
प्रणवाद्यन्ता
श्रुतियुग्मं
सदाऽवतु
।
वज्रवैरोचनीये
हुं
फट्
स्वाहा
च
ध्रुवादिका
॥
10
॥
घ्राणं
पातु
च्छिन्नमस्ता
मुण्डकर्त्रिविधारिणी
।
श्रीमायाकूर्चवाग्बीजैर्वज्रवैरोचनीय
हूम्
॥
11
॥
हूं
फट्
स्वाहा
महाविद्या
षोडशी
ब्रह्मरूपिणी
।
स्वपार्श्वे
वर्णिनी
चासृग्धारां
पाययती
मुदा
॥
12
॥
वदनं
सर्वदा
पातु
च्छिन्नमस्ता
स्वशक्तिका
।
मुण्डकर्त्रिधरा
रक्ता
साधकाभीष्टदायिनी
॥
13
॥
वर्णिनी
डाकिनीयुक्ता
सापि
मामभितोऽवतु
।
रामाद्या
पातु
जिह्वां
च
लज्जाद्या
पातु
कण्ठकम्
॥
14
॥
कूर्चाद्या
हृदयं
पातु
वागाद्या
स्तनयुग्मकम्
।
रमया
पुटिता
विद्या
पार्श्वौ
पातु
सुरेश्वरी
॥
15
॥
मायया
पुटिता
पातु
नाभिदेशे
दिगम्बरा
।
कूर्चेण
पुटिता
देवी
पृष्ठदेशे
सदाऽवतु
॥
16
॥
वाग्बीजपुटिता
चैषा
मध्यं
पातु
सशक्तिका
।
ईश्वरी
कूर्चवाग्बीजैर्वज्रवैरोचनीय
हूम्
॥
17
॥
हूं
फट्
स्वाहा
महाविद्या
कोटिसूर्यसमप्रभा
।
छिन्नमस्ता
सदा
पायादूरुयुग्मं
सशक्तिका
॥
18
॥
ह्रीं
ह्रूं
वर्णिनी
जानुं
श्रीं
ह्रीं
च
डाकिनी
पदम्
।
सर्वविद्यास्थिता
नित्या
सर्वाङ्गं
मे
सदाऽवतु
॥
19
॥
प्राच्यां
पायादेकलिङ्गा
योगिनी
पावकेऽवतु
।
डाकिनी
दक्षिणे
पातु
श्रीमहाभैरवी
च
माम्
॥
20
॥
नैरृत्यां
सततं
पातु
भैरवी
पश्चिमेऽवतु
।
इन्द्राक्षी
पातु
वायव्येऽसिताङ्गी
पातु
चोत्तरे
॥
21
॥
संहारिणी
सदा
पातु
शिवकोणे
सकर्त्रिका
।
इत्यष्टशक्तयः
पान्तु
दिग्विदिक्षु
सकर्त्रिकाः
॥
22
॥
क्रीं
क्रीं
क्रीं
पातु
सा
पूर्वं
ह्रीं
ह्रीं
मां
पातु
पावके
।
ह्रूं
ह्रूं
मां
दक्षिणे
पातु
दक्षिणे
कालिकावतु
॥
23
॥
क्रीं
क्रीं
क्रीं
चैव
नैरृत्यां
ह्रीं
ह्रीं
च
पश्चिमेऽवतु
।
हूं
हूं
पातु
मरुत्कोणे
स्वाहा
पातु
सदोत्तरे
॥
24
॥
महाकाली
खड्गहस्ता
रक्षःकोणे
सदावतु
।
तारो
माया
वधूः
कूर्चं
फट्
कारोऽयं
महामनुः
॥
25
॥
खड्गकर्त्रिधरा
तारा
चोर्ध्वदेशं
सदाऽवतु
।
ह्रीं
स्त्रीं
हूं
फट्
च
पाताले
मां
पातु
चैकजटा
सती
।
तारा
तु
सहिता
खेऽव्यान्महानीलसरस्वती
॥
26
॥
इति
ते
कथितं
देव्याः
कवचं
मन्त्रविग्रहम्
।
यद्धृत्वा
पठनाद्भीमः
क्रोधाख्यो
भैरवः
स्मृतः
॥
27
॥
सुरासुर
मुनीन्द्राणां
कर्ता
हर्ता
भवेत्स्वयम्
।
यस्याज्ञया
मधुमती
याति
सा
साधकालयम्
॥
28
॥
भूतिन्याद्याश्च
डाकिन्यो
यक्षिण्याद्याश्च
खेचराः
।
आज्ञां
गृह्णन्ति
तास्तस्य
कवचस्य
प्रसादतः
॥
29
॥
एतदेव
परं
ब्रह्म
कवचं
मन्मुखोदितम्
।
देवीमभ्यर्च
गन्धाद्यैर्मूले
नैव
पठेत्सकृत्
॥
30
॥
संवत्सरकृतायास्तु
पूजायाः
फलमाप्नुयात्
।
भूर्जे
विलिखितं
चैतद्गुटिकां
काञ्चनस्थिताम्
॥
31
॥
धारयेद्दक्षिणे
बाहौ
कण्ठे
वा
यदि
वान्यतः
।
सर्वैश्वर्ययुतो
भूत्वा
त्रैलोक्यं
वशमानयेत्
॥
32
॥
तस्य
गेहे
वसेल्लक्ष्मीर्वाणी
च
वदनाम्बुजे
।
ब्रह्मास्त्रादीनि
शस्त्राणि
तद्गात्रे
यान्ति
सौम्यताम्
॥
33
॥
इदं
कवचमज्ञात्वा
यो
भजेच्छिन्नमस्तकाम्
।
सोऽपि
शस्त्रप्रहारेण
मृत्युमाप्नोति
सत्वरम्
॥
34
॥
इति
श्री
भैरवतन्त्रे
भैरवभैरवीसंवादे
त्रैलोक्यविजयं
नाम
छिन्नमस्ताकवचं
सम्पूर्णम्
।
Recite with devotion and pure heart
Regular practice brings spiritual benefits