Haindavam Logo - Lord Ganesha

हैंदवम्

📍
Font Size:

छिन्नमस्ता अष्टोत्तर शत नामावलिः

ओं छिन्नमस्तायै नमः ओं महाविद्यायै नमः ओं महाभीमायै नमः ओं महोदर्यै नमः ओं चण्डेश्वर्यै नमः ओं चण्डमात्रे नमः ओं चण्डमुण्डप्रभञ्जिन्यै नमः ओं महाचण्डायै नमः ओं चण्डरूपायै नमः ओं चण्डिकायै नमः 10 ओं चण्डखण्डिन्यै नमः ओं क्रोधिन्यै नमः ओं क्रोधजनन्यै नमः ओं क्रोधरूपायै नमः ओं कुह्वे नमः ओं कलायै नमः ओं कोपातुरायै नमः ओं कोपयुतायै नमः ओं कोपसंहारकारिण्यै नमः ओं वज्रवैरोचन्यै नमः 20 ओं वज्रायै नमः ओं वज्रकल्पायै नमः ओं डाकिन्यै नमः ओं डाकिनीकर्मनिरतायै नमः ओं डाकिनीकर्मपूजितायै नमः ओं डाकिनीसङ्गनिरतायै नमः ओं डाकिनीप्रेमपूरितायै नमः ओं खट्वाङ्गधारिण्यै नमः ओं खर्वायै नमः ओं खड्गखर्परधारिण्यै नमः 30 ओं प्रेतासनायै नमः ओं प्रेतयुतायै नमः ओं प्रेतसङ्गविहारिण्यै नमः ओं छिन्नमुण्डधरायै नमः ओं छिन्नचण्डविद्यायै नमः ओं चित्रिण्यै नमः ओं घोररूपायै नमः ओं घोरदृष्ट्यै नमः ओं घोररावायै नमः ओं घनोदर्यै नमः 40 ओं योगिन्यै नमः ओं योगनिरतायै नमः ओं जपयज्ञपरायणायै नमः ओं योनिचक्रमय्यै नमः ओं योनये नमः ओं योनिचक्रप्रवर्तिन्यै नमः ओं योनिमुद्रायै नमः ओं योनिगम्यायै नमः ओं योनियन्त्रनिवासिन्यै नमः ओं यन्त्ररूपायै नमः 50 ओं यन्त्रमय्यै नमः ओं यन्त्रेश्यै नमः ओं यन्त्रपूजितायै नमः ओं कीर्त्यायै नमः ओं कपर्दिन्यै नमः ओं काल्यै नमः ओं कङ्काल्यै नमः ओं कलकारिण्यै नमः ओं आरक्तायै नमः ओं रक्तनयनायै नमः 60 ओं रक्तपानपरायणायै नमः ओं भवान्यै नमः ओं भूतिदायै नमः ओं भूत्यै नमः ओं भूतिदात्र्यै नमः ओं भैरव्यै नमः ओं भैरवाचारनिरतायै नमः ओं भूतभैरवसेवितायै नमः ओं भीमायै नमः ओं भीमेश्वर्यै नमः 70 ओं देव्यै नमः ओं भीमनादपरायणायै नमः ओं भवाराध्यायै नमः ओं भवनुतायै नमः ओं भवसागरतारिण्यै नमः ओं भद्रकाल्यै नमः ओं भद्रतनवे नमः ओं भद्ररूपायै नमः ओं भद्रिकायै नमः ओं भद्ररूपायै नमः 80 ओं महाभद्रायै नमः ओं सुभद्रायै नमः ओं भद्रपालिन्यै नमः ओं सुभव्यायै नमः ओं भव्यवदनायै नमः ओं सुमुख्यै नमः ओं सिद्धसेवितायै नमः ओं सिद्धिदायै नमः ओं सिद्धिनिवहायै नमः ओं सिद्धायै नमः 90 ओं सिद्धनिषेवितायै नमः ओं शुभदायै नमः ओं शुभगायै नमः ओं शुद्धायै नमः ओं शुद्धसत्त्वायै नमः ओं शुभावहायै नमः ओं श्रेष्ठायै नमः ओं दृष्टिमयीदेव्यै नमः ओं दृष्टिसंहारकारिण्यै नमः ओं शर्वाण्यै नमः 100 ओं सर्वगायै नमः ओं सर्वायै नमः ओं सर्वमङ्गलकारिण्यै नमः ओं शिवायै नमः ओं शान्तायै नमः ओं शान्तिरूपायै नमः ओं मृडान्यै नमः ओं मदनातुरायै नमः 108

Recite with devotion and pure heart

Regular practice brings spiritual benefits