हैंदवम्
हैं
హై
हैंदवम्
ஹி
હિં
English
हिंदी
മലയാളം
తెలుగు
தமிழ்
ಕನ್ನಡ
📍
𖦏
Auto Detect Location
Font Size:
a
a
a
भुवनेश्वरी स्तोत्रम्
अथानन्दमयीं
साक्षाच्छब्दब्रह्मस्वरूपिणीम्
।
ईडे
सकलसम्पत्त्यै
जगत्कारणमम्बिकाम्
॥
1
॥
आद्यामशेषजननीमरविन्दयोने-
-र्विष्णोः
शिवस्य
च
वपुः
प्रतिपादयित्रीम्
।
सृष्टिस्थितिक्षयकरीं
जगतां
त्रयाणां
स्तुत्वा
गिरं
विमलयाप्यहमम्बिके
त्वाम्
॥
2
॥
पृथ्व्या
जलेन
शिखिना
मरुताम्बरेण
होत्रेन्दुना
दिनकरेण
च
मूर्तिभाजः
।
देवस्य
मन्मथरिपोरपि
शक्तिमत्ता-
-हेतुस्त्वमेव
खलु
पर्वतराजपुत्रि
॥
3
॥
त्रिस्रोतसः
सकलदेवसमर्चिताया
वैशिष्ट्यकारणमवैमि
तदेव
मातः
।
त्वत्पादपङ्कजपरागपवित्रितासु
शम्भोर्जटासु
सततं
परिवर्तनं
यत्
॥
4
॥
आनन्दयेत्कुमुदिनीमधिपः
कलानां
नान्यामिनः
कमलिनीमथ
नेतरां
वा
।
एकत्र
मोदनविधौ
परमे
क
ईष्टे
त्वं
तु
प्रपञ्चमभिनन्दयसि
स्वदृष्ट्या
॥
5
॥
आद्याप्यशेषजगतां
नवयौवनासि
शैलाधिराजतनयाप्यतिकोमलासि
।
त्रय्याः
प्रसूरपि
तथा
न
समीक्षितासि
ध्येयासि
गौरि
मनसो
न
पथि
स्थितासि
॥
6
॥
आसाद्य
जन्म
मनुजेषु
चिराद्दुरापं
तत्रापि
पाटवमवाप्य
निजेन्द्रियाणाम्
।
नाभ्यर्चयन्ति
जगतां
जनयित्रि
ये
त्वां
निःश्रेणिकाग्रमधिरुह्य
पुनः
पतन्ति
॥
7
॥
कर्पूरचूर्णहिमवारिविलोडितेन
ये
चन्दनेन
कुसुमैश्च
सुजातगन्धैः
।
आराधयन्ति
हि
भवानि
समुत्सुकास्त्वां
ते
खल्वखण्डभुवनाधिभुवः
प्रथन्ते
॥
8
॥
आविश्य
मध्यपदवीं
प्रथमे
सरोजे
सुप्ता
हि
राजसदृशी
विरचय्यविश्वम्
।
विद्युल्लतावलयविभ्रममुद्वहन्ती
पद्मानि
पञ्च
विदलय्य
समश्नुवाना
॥
9
॥
तन्निर्गतामृतरसैः
परिषिक्तगात्र-
-मार्गेण
तेन
विलयं
पुनरप्यवाप्ता
।
येषां
हृदि
स्फुरसि
जातु
न
ते
भवेयु-
-र्मातर्महेश्वरकुटुम्बिनि
गर्भभाजः
॥
10
॥
आलम्बिकुण्डलभरामभिरामवक्त्रा-
-मापीवरस्तनतटीं
तनुवृत्तमध्याम्
।
चिन्ताक्षसूत्रकलशालिखिताढ्यहस्ता-
-मावर्तयामि
मनसा
तव
गौरि
मूर्तिम्
॥
11
॥
आस्थाय
योगमविजित्य
च
वैरिषट्क-
-माबद्ध्यचेन्द्रियगणं
मनसि
प्रसन्ने
।
पाशाङ्कुशाभयवराढ्यकरां
सुवक्त्रा-
-मालोकयन्ति
भुवनेश्वरि
योगिनस्त्वाम्
॥
12
॥
उत्तप्तहाटकनिभा
करिभिश्चतुर्भि-
-रावर्तितामृतघटैरभिषिच्यमाना
।
हस्तद्वयेन
नलिने
रुचिरे
वहन्ती
पद्मापि
साभयवरा
भवसि
त्वमेव
॥
13
॥
अष्टाभिरुग्रविविधायुधवाहिनीभि-
-र्दोर्वल्लरीभिरधिरुह्य
मृगाधिराजम्
।
दूर्वादलद्युतिरमार्त्यविपक्षपक्षान्
न्यक्कुर्वती
त्वमसि
देवि
भवानि
दुर्गा
॥
14
॥
आविर्निदाघजलशीकरशोभिवक्त्रां
गुञ्जाफलेन
परिकल्पितहारयष्टिम्
।
पीतांशुकामसितकान्तिमनङ्गतन्द्रा-
-माद्यां
पुलिन्दतरुणीमसकृत्स्मरामि
॥
15
॥
हंसैर्गतिक्वणितनूपुरदूरदृष्टे
मूर्तैरिवार्थवचनैरनुगम्यमानौ
।
पद्माविवोर्ध्वमुखरूढसुजातनालौ
श्रीकण्ठपत्नि
शिरसा
विदधे
तवाङ्घ्री
॥
16
॥
द्वाभ्यां
समीक्षितुमतृप्तिमतेव
दृग्भ्या-
-मुत्पाट्य
भालनयनं
वृषकेतनेन
।
सान्द्रानुरागतरलेन
निरीक्ष्यमाणे
जङ्घे
शुभे
अपि
भवानि
तवानतोऽस्मि
॥
17
॥
ऊरू
स्मरामि
जितहस्तिकरावलेपौ
स्थौल्येन
मार्दवतया
परिभूतरम्भौ
।
श्रेणीभरस्य
सहनौ
परिकल्प्य
दत्तौ
स्तम्भाविवाङ्गवयसा
तव
मध्यमेन
॥
18
॥
श्रोण्यौ
स्तनौ
च
युगपत्प्रथयिष्यतोच्चै-
-र्बाल्यात्परेण
वयसा
परिहृष्टसारौ
।
रोमावलीविलसितेन
विभाव्य
मूर्तिं
मध्यं
तव
स्फुरतु
मे
हृदयस्य
मध्ये
॥
19
॥
सख्यः
स्मरस्य
हरनेत्रहुताशशान्त्यै
लावण्यवारिभरितं
नवयौवनेन
।
आपाद्य
दत्तमिव
पल्लवमप्रविष्टं
नाभिं
कदापि
तव
देवि
न
विस्मरेयम्
॥
20
॥
ईशेऽपि
गेहपिशुनं
भसितं
दधाने
काश्मीरकर्दममनुस्तनपङ्कजे
ते
।
स्नातोत्थितस्य
करिणः
क्षणलक्ष्यफेनौ
सिन्दूरितौ
स्मरयतः
समदस्य
कुम्भौ
॥
21
॥
कण्ठातिरिक्तगलदुज्ज्वलकान्तिधारा-
-शोभौ
भुजौ
निजरिपोर्मकरध्वजेन
।
कण्ठग्रहाय
रचितौ
किल
दीर्घपाशौ
मातर्मम
स्मृतिपथं
न
विलङ्घयेताम्
॥
22
॥
नात्यायतं
रचितकम्बुविलासचौर्यं
भूषाभरेण
विविधेन
विराजमानम्
।
कण्ठं
मनोहरगुणं
गिरिराजकन्ये
सञ्चिन्त्य
तृप्तिमुपयामि
कदापि
नाहम्
॥
23
॥
अत्यायताक्षमभिजातललाटपट्टं
मन्दस्मितेन
दरफुल्लकपोलरेखम्
।
बिम्बाधरं
वदनमुन्नतदीर्घनासं
यस्ते
स्मरत्यसकृदम्ब
स
एव
जातः
॥
24
॥
आविस्तुषारकरलेखमनल्पगन्ध-
-पुष्पोपरिभ्रमदलिव्रजनिर्विशेषम्
।
यश्चेतसा
कलयते
तव
केशपाशं
तस्य
स्वयं
गलति
देवि
पुराणपाशः
॥
25
॥
श्रुतिसुचरितपाकं
श्रीमता
स्तोत्रमेत-
-त्पठति
य
इह
मर्त्यो
नित्यमार्द्रान्तरात्मा
।
स
भवति
पदमुच्चैः
सम्पदां
पादनम्र-
-क्षितिपमुकुटलक्ष्मीलक्षणानां
चिराय
॥
26
॥
इति
श्री
रुद्रयामले
तन्त्रे
श्रीभुवनेश्वरी
स्तोत्रम्
॥
Recite with devotion and pure heart
Regular practice brings spiritual benefits