श्रीदेव्युवाच –
भगवन् ब्रूहि तत् स्तोत्रं सर्वकामप्रसाधनं ।
यस्य श्रवणमात्रेण नान्यच्छ्रोतव्यमिष्यते ॥ 1 ॥
यदि मेऽनुग्रहः कार्यः प्रीतिश्चापि ममोपरि ।
तदिदं कथय ब्रह्मन् विमलं यन्महीतले ॥ 2 ॥
ईश्वर उवाच –
शृणु देवि प्रवक्ष्यामि सर्वकामप्रसाधनं ।
हृदयं भुवनेश्वर्याः स्तोत्रमस्ति यशोदयम् ॥ 3 ॥
ओं अस्य श्रीभुवनेश्ववरीहृदयस्तोत्रमन्त्रस्य शक्तिः ऋषिः – गायत्री छन्दः – श्रीभुवनेश्वरी देवता – हकारो बीजं – ईकारश्शक्तिः – रेफः कीलकं – सकल मनोवाञ्छितसिद्ध्यर्थे जपे विनियोगः ॥
करन्यासः –
ओं ह्रीं अङ्गुष्ठाभ्यां नमः ।
ओं श्रीं तर्जनीभ्यां नमः ।
ओं ऐं मध्यमाभ्यां नमः ।
ओं ह्रीं अनामिकाभ्यां नमः ।
ओं श्रीं कनिष्ठिकाभ्यां नमः ।
ओं ऐं करतलकरपृष्ठाभ्यां नमः ।
अङ्गन्यासः –
ओं ह्रीं हृदयाय नमः ।
ओं श्रीं शिरसे स्वाहा ।
ओं ऐं शिखायै वषट् ।
ओं ह्रीं कवचाय हुं ।
ओं श्रीं नेत्रत्रयाय वौषट् ।
ओं ऐं अस्त्राय फट् ।
ध्यानम् –
ध्यायेद्ब्रह्मादिकानां कृतजनिजननीं योगिनीं योगयोनिं
देवानां जीवनायोज्ज्वलितजयपरज्योतिरुग्राङ्गधात्रीं ।
शङ्खं चक्रं च बाणं धनुरपि दधतीं दोश्चतुष्काम्बुजातौ
मायामाद्यां विशिष्टां भव भव भुवनां भूभवा भारभूमिम् ॥ 4 ॥
यदाज्ञया यो जगदाद्यशेषं
सृजत्यजः श्रीपतिरौरसं वा ।
बिभर्ति संहन्ति भवस्तदन्ते
भजामहे श्रीभुवनेश्वरीं ताम् ॥ 5 ॥
जगज्जनानन्दकरीं जयाख्यां
यशस्विनीं यन्त्रसुयज्ञयोनिम् ।
जितामितामित्रकृतप्रपञ्चां
भजामहे श्रीभुवनेश्वरीं ताम् ॥ 6 ॥
हरौ प्रसुप्ते भुवनत्रयान्ते-
प्यनारतन्नाभिजपद्मजन्मा ।
विधिस्ततोऽन्धे विदधार यत्पदं
भजामहे श्रीभुवनेश्वरीं ताम् ॥ 7 ॥
न विद्यते क्वापि तु जन्म यस्या
न वा स्थितिः सान्ततिकीह यस्याः ।
न वा निरोधेऽखिलकर्म यस्या
भजामहे श्रीभुवनेश्वरीं ताम् ॥ 8 ॥
कटाक्षमोक्षाचरणोग्रवित्ता
निवेशितार्णा करुणार्द्रचित्ता ।
सुभक्तयेराति समीप्सितं या
भजामहे श्रीभुवनेश्वरीं ताम् ॥ 9 ॥
यतो जगज्जन्म बभूव योने-
स्तदेव मध्ये प्रतिपाति यां वा ।
तदत्ति यान्तेऽखिलमुग्रकालि
भजामहे श्रीभुवनेश्वरीं ताम् ॥ 10 ॥
सुषुप्तिकाले जनमध्ययन्त्या
यया जनः स्वप्नमवैति किञ्चित् ।
प्रबुध्यते जाग्रति जीव एष
भजामहे श्रीभुवनेश्वरीं ताम् ॥ 11 ॥
दयास्फुरत्कोरकटाक्षलाभा-
न्नकेत्र यस्याः प्रभवन्ति सिद्धाः ।
कवित्वमीशित्वमपि स्वतन्त्रा
भजामहे श्रीभुवनेश्वरीं ताम् ॥ 12 ॥
लसन्मुखाम्भोरुहमुत्स्फुरन्तं
हृदि प्रणिध्याय दिशि स्फुरन्तः ।
यस्याः कृपार्द्रं प्रविकासयन्ति
भजामहे श्रीभुवनेश्वरीं ताम् ॥ 13 ॥
यदानुरागानुगतालिचित्रा-
श्चिरन्तनप्रेमपरिप्लुताङ्गाः ।
सुनिर्भयास्सन्ति प्रमुद्य यस्याः
भजामहे श्रीभुवनेश्वरीं ताम् ॥ 14 ॥
हरिर्विरञ्चिर्हर ईशितारः
पुरोऽवतिष्ठन्ति परंनताङ्गाः ।
यस्यास्समिच्छन्ति सदानुकूल्यं
भजामहे श्रीभुवनेश्वरीं ताम् ॥ 15 ॥
मनुं यदीयं हरमग्निसंस्थं
ततश्च वामश्रुतिचन्द्रसक्तम् ।
जपन्ति ये स्युस्सुरवन्दितास्ते
भजामहे श्रीभुवनेश्वरीं ताम् ॥ 16 ॥
प्रसीदतु प्रेमरसार्द्रचित्ता
सदा हि सा श्रीभुवनेश्वरी मे ।
कृपाकटाक्षेण कुबेरकल्पा
भवन्ति यस्याः पदभक्तिभाजः ॥ 17 ॥
मुदा सुपाठ्यं भुवनेश्वरीयं
सदा सतां स्तोत्रमिदं सुसेव्यम् ।
सुखप्रदं स्यात्कलिकल्मषघ्नं
सुशृण्वतां सम्पठतां प्रशस्यम् ॥ 18 ॥
एतत्तु हृदयं स्तोत्रं पठेद्यस्तु समाहितः ।
भवेत्तस्येष्टदा देवी प्रसन्ना भुवनेश्वरी ॥ 19 ॥
ददाति धनमायुष्यं पुण्यं पुण्यमतिं तथा ।
नैष्ठिकीं देवभक्तिं च गुरुभक्तिं विशेषतः ॥ 20 ॥
पूर्णिमायां चतुर्दश्यां कुजवारे विशेषतः ।
पठनीयमिदं स्तोत्रं देवसद्मनि यत्नतः ॥ 21 ॥
यत्रकुत्रापि पाठेन स्तोत्रस्यास्य फलं भवेत् ।
सर्वस्थानेषु देवेश्याः पूतदेहः सदा पठेत् ॥ 22 ॥
इति नीलसरस्वतीतन्त्रे श्री भुवनेश्वरीपटले श्रीदेवीश्वरसंवादे
श्रीभुवनेश्वरी हृदयस्तोत्रं सम्पूर्णम् ॥