Haindavam Logo - Lord Ganesha

हैंदवम्

📍
Font Size:

दत्तात्रेय सहस्रनाम स्तोत्रम्

मुनयः ऊचुः निखिलागमतत्त्वज्ञ ब्रह्मध्यानपरायण वदास्माकं मुक्त्युपायं सूत सर्वोपकारकम् 1 सर्वदेवेषु को देवः सद्यो मोक्षप्रदो भवेत् को मनुर्वा भवेत्तस्य सद्यः प्रीतिकरो ध्रुवम् 2 सूत उवाच निगमागमतत्त्वज्ञो ह्यवधूतश्चिदम्बरः भक्तवात्सल्यप्रवणो दत्त एव हि केवलः 3 सदा प्रसन्नवदनो भक्तचिन्तैकतत्परः तस्य नामान्यनन्तानि वर्तन्तेऽथाप्यदः परम् 4 दत्तस्य नामसाहस्रं तस्य प्रीतिविवर्धनम् यस्त्विदं पठते नित्यं दत्तात्रेयैकमानसः 5 मुच्यते सर्वपापेभ्यः सद्यो नात्र संशयः अन्ते तद्धाम सम्याति पुनरावृत्तिदुर्लभम् 6 अस्य श्रीमद्दत्तात्रेयसहस्रनामस्तोत्रमन्त्रस्य अवधूत ऋषिः, अनुष्टुप् छन्दः, दिगम्बरो देवता, ओं बीजं, ह्रीं शक्तिः, क्रौं कीलकं, श्रीदत्तात्रेयप्रीत्यर्थे जपे विनियोगः अथ ध्यानम् दिगम्बरं भस्मविलेपिताङ्गं बोधात्मकं मुक्तिकरं प्रसन्नम् निर्मानसं श्यामतनुं भजेऽहं दत्तात्रेयं ब्रह्मसमाधियुक्तम् अथ स्तोत्रम् दत्तात्रेयो महायोगी योगेशश्चामरप्रभुः मुनिर्दिगम्बरो बालो मायामुक्तो मदापहः 1 अवधूतो महानाथः शङ्करोऽमरवल्लभः महादेवश्चादिदेवः पुराणप्रभुरीश्वरः 2 सत्त्वकृत्सत्त्वभृद्भावः सत्त्वात्मा सत्त्वसागरः सत्त्ववित्सत्त्वसाक्षी सत्त्वसाध्योऽमराधिपः 3 भूतकृद्भूतभृच्चैव भूतात्मा भूतसम्भवः भूतभावो भवो भूतवित्तथा भूतकारणः 4 भूतसाक्षी प्रभूतिश्च भूतानां परमा गतिः भूतसङ्गविहीनात्मा भूतात्मा भूतशङ्करः 5 भूतनाथो महानाथ आदिनाथो महेश्वरः सर्वभूतनिवासात्मा भूतसन्तापनाशनः 6 सर्वात्मा सर्वभृत्सर्वः सर्वज्ञः सर्वनिर्णयः सर्वसाक्षी बृहद्भानुः सर्ववित् सर्वमङ्गलः 7 शान्तः सत्यः समः पूर्णो एकाकी कमलापतिः रामो रामप्रियश्चैव विरामो रामकारणः 8 शुद्धात्मा पावनोऽनन्तः प्रतीतः परमार्थभृत् हंससाक्षी विभुश्चैव प्रभुः प्रलय इत्यपि 9 सिद्धात्मा परमात्मा सिद्धानां परमा गतिः सिद्धिसिद्धस्तथा साध्यः साधनो ह्युत्तमस्तथा 10 सुलक्षणः सुमेधावी विद्यावान्विगतान्तरः विज्वरश्च महाबाहुर्बहुलानन्दवर्धनः 11 अव्यक्तपुरुषः प्राज्ञः परज्ञः परमार्थदृक् परापरविनिर्मुक्तो युक्तस्तत्त्वप्रकाशवान् 12 दयावान् भगवान् भावी भावात्मा भावकारणः भवसन्तापनाशश्च पुष्पवान् पण्डितो बुधः 13 प्रत्यक्षवस्तुर्विश्वात्मा प्रत्यग्ब्रह्म सनातनः प्रमाणविगतश्चैव प्रत्याहारनियोजकः 14 प्रणवः प्रणवातीतः प्रमुखः प्रलयात्मकः मृत्युञ्जयो विविक्तात्मा शङ्करात्मा परो वपुः 15 परमस्तनुविज्ञेयः परमात्मनि संस्थितः प्रबोधकलनाधारः प्रभावप्रवरोत्तमः 16 चिदम्बरश्चिद्विलासश्चिदाकाशश्चिदुत्तमः चित्तचैतन्यचित्तात्मा देवानां परमा गतिः 17 अचेत्यश्चेतनाधारश्चेतनाचित्तविक्रमः चित्तात्मा चेतनारूपो लसत्पङ्कजलोचनः 18 परं ब्रह्म परं ज्योतिः परं धाम परन्तपः परं सूत्रं परं तन्त्रं पवित्रः परमोहवान् 19 क्षेत्रज्ञः क्षेत्रगः क्षेत्रः क्षेत्राधारः पुरञ्जनः क्षेत्रशून्यो लोकसाक्षी क्षेत्रवान् बहुनायकः 20 योगेन्द्रो योगपूज्यश्च योग्य आत्मविदां शुचिः योगमायाधरः स्थाणुरचलः कमलापतिः 21 योगेशो योगनिर्माता योगज्ञानप्रकाशनः योगपालो लोकपालः संसारतमनाशनः 22 गुह्यो गुह्यतमो गुप्तो मुक्तो युक्तः सनातनः गहनो गगनाकारो गम्भीरो गणनायकः 23 गोविन्दो गोपतिर्गोप्ता गोभागो भावसंस्थितः गोसाक्षी गोतमारिश्च गान्धारो गगनाकृतिः 24 योगयुक्तो भोगयुक्तः शङ्कामुक्तसमाधिमान् सहजः सकलेशानः कार्तवीर्यवरप्रदः 25 सरजो विरजो पुंसो पावनः पापनाशनः परावरविनिर्मुक्तः परं‍ज्योतिः पुरातनः 26 नानाज्योतिरनेकात्मा स्वयं‍ज्योतिः सदाशिवः दिव्यज्योतिर्मयश्चैव सत्यविज्ञानभास्करः 27 नित्यशुद्धः परः पूर्णः प्रकाशः प्रकटोद्भवः प्रमादविगतश्चैव परेशः परविक्रमः 28 योगी योगो योगपश्च योगाभ्यासप्रकाशनः योक्ता मोक्ता विधाता त्राता पाता निरायुधः 29 नित्यमुक्तो नित्ययुक्तः सत्यः सत्यपराक्रमः सत्त्वशुद्धिकरः सत्त्वस्तथा सत्त्वभृतां गतिः 30 श्रीधरः श्रीवपुः श्रीमान् श्रीनिवासोऽमरार्चितः श्रीनिधिः श्रीपतिः श्रेष्ठः श्रेयस्कश्चरमाश्रयः 31 त्यागी त्यागार्थसम्पन्नस्त्यागात्मा त्यागविग्रहः त्यागलक्षणसिद्धात्मा त्यागज्ञस्त्यागकारणः 32 भोगो भोक्ता तथा भोग्यो भोगसाधनकारणः भोगी भोगार्थसम्पन्नो भोगज्ञानप्रकाशनः 33 केवलः केशवः कृष्णः कंवासाः कमलालयः कमलासनपूज्यश्च हरिरज्ञानखण्डनः 34 महात्मा महदादिश्च महेशोत्तमवन्दितः मनोबुद्धिविहीनात्मा मानात्मा मानवाधिपः 35 भुवनेशो विभूतिश्च धृतिर्मेधा स्मृतिर्दया दुःखदावानलो बुद्धः प्रबुद्धः परमेश्वरः 36 कामहा क्रोधहा चैव दम्भदर्पमदापहः अज्ञानतिमिरारिश्च भवारिर्भुवनेश्वरः 37 रूपकृद्रूपभृद्रूपी रूपात्मा रूपकारणः रूपज्ञो रूपसाक्षी नामरूपो गुणान्तकः 38 अप्रमेयः प्रमेयश्च प्रमाणं प्रणवाश्रयः प्रमाणरहितोऽचिन्त्यश्चेतनाविगतोऽजरः 39 अक्षरोऽक्षरमुक्तश्च विज्वरो ज्वरनाशनः विशिष्टो वित्तशास्त्री दृष्टो दृष्टान्तवर्जितः 40 गुणेशो गुणकायश्च गुणात्मा गुणभावनः अनन्तगुणसम्पन्नो गुणगर्भो गुणाधिपः 41 गणेशो गुणनाथश्च गुणात्मा गणभावनः गणबन्धुर्विवेकात्मा गुणयुक्तः पराक्रमी 42 अतर्क्यः क्रतुरग्निश्च कृतज्ञः सफलाश्रयः यज्ञश्च यज्ञफलदो यज्ञ इज्योऽमरोत्तमः 43 हिरण्यगर्भः श्रीगर्भः खगर्भः कुणपेश्वरः मायागर्भो लोकगर्भः स्वयम्भूर्भुवनान्तकः 44 निष्पापो निबिडो नन्दी बोधी बोधसमाश्रयः बोधात्मा बोधनात्मा भेदवैतण्डखण्डनः 45 स्वाभाव्यो भावनिर्मुक्तो व्यक्तोऽव्यक्तसमाश्रयः नित्यतृप्तो निराभासो निर्वाणः शरणः सुहृत् 46 गुह्येशो गुणगम्भीरो गुणदोषनिवारणः गुणसङ्गविहीनश्च योगारेर्दर्पनाशनः 47 आनन्दः परमानन्दः स्वानन्दसुखवर्धनः सत्यानन्दश्चिदानन्दः सर्वानन्दपरायणः 48 सद्रूपः सहजः सत्यः स्वानन्दः सुमनोहरः सर्वः सर्वान्तरश्चैव पूर्वात्पूर्वतरस्तथा 49 खमयः खपरः खादिः खं‍ब्रह्म खतनुः खगः खवासाः खविहीनश्च खनिधिः खपराश्रयः 50 अनन्तश्चादिरूपश्च सूर्यमण्डलमध्यगः अमोघः परमामोघः परोक्षः परदः कविः 51 विश्वचक्षुर्विश्वसाक्षी विश्वबाहुर्धनेश्वरः धनञ्जयो महातेजास्तेजिष्ठस्तैजसः सुखी 52 ज्योतिर्ज्योतिर्मयो जेता ज्योतिषां ज्योतिरात्मकः ज्योतिषामपि ज्योतिश्च जनको जनमोहनः 53 जितेन्द्रियो जितक्रोधो जितात्मा जितमानसः जितसङ्गो जितप्राणो जितसंसारवासनः 54 निर्वासनो निरालम्बो निर्योगक्षेमवर्जितः निरीहो निरहङ्कारो निराशीर्निरुपाधिकः 55 नित्यबोधो विविक्तात्मा विशुद्धोत्तमगौरवः विद्यार्थी परमार्थी श्रद्धार्थी साधनात्मकः 56 प्रत्याहारी निराहारी सर्वाहारपरायणः नित्यशुद्धो निराकाङ्क्षी पारायणपरायणः 57 अणोरणुतरः सूक्ष्मः स्थूलः स्थूलतरस्तथा एकस्तथाऽनेकरूपो विश्वरूपः सनातनः 58 नैकरूपो विरूपात्मा नैकबोधमयस्तथा नैकनाममयश्चैव नैकविद्याविवर्धनः 59 एकश्चैकान्तिकश्चैव नानाभावविवर्जितः एकाक्षरस्तथा बीजः पूर्णबिम्बः सनातनः 60 मन्त्रवीर्यो मन्त्रबीजः शास्त्रवीर्यो जगत्पतिः नानावीर्यधरश्चैव शक्रेशः पृथिवीपतिः 61 प्राणेशः प्राणदः प्राणः प्राणायामपरायणः प्राणपञ्चकनिर्मुक्तः कोशपञ्चकवर्जितः 62 निश्चलो निष्कलोऽसङ्गो निष्प्रपञ्चो निरामयः निराधारो निराकारो निर्विकारो निरञ्जनः 63 निष्प्रतीतो निराभासो निरासक्तो निराकुलः निष्ठासर्वगतश्चैव निरारम्भो निराश्रयः 64 निरन्तरः सर्वगोप्ता शान्तो दान्तो महामुनिः [सत्त्व] निःशब्दः सुकृतः स्वस्थः सत्यवादी सुरेश्वरः 65 ज्ञानदो ज्ञानविज्ञानी ज्ञानात्माऽऽनन्दपूरितः ज्ञानयज्ञविदां दक्षो ज्ञानाग्निर्ज्वलनो बुधः 66 दयावान् भवरोगारिश्चिकित्साचरमागतिः चन्द्रमण्डलमध्यस्थश्चन्द्रकोटिसुशीतलः 67 यन्त्रकृत्परमो यन्त्री यन्त्रारूढापराजितः यन्त्रविद्यन्त्रवासश्च यन्त्राधारो धराधरः 68 तत्त्वज्ञस्तत्त्वभूतात्मा महत्तत्त्वप्रकाशनः तत्त्वसङ्ख्यानयोगज्ञः साङ्ख्यशास्त्रप्रवर्तकः 69 अनन्तविक्रमो देवो माधवश्च धनेश्वरः साधुः साधुवरिष्ठात्मा सावधानोऽमरोत्तमः 70 निःसङ्कल्पो निराधारो दुर्धरो ह्यात्मवित्पतिः आरोग्यसुखदश्चैव प्रवरो वासवस्तथा 71 परेशः परमोदारः प्रत्यक्चैतन्यदुर्गमः दुराधर्षो दुरावासो दूरत्वपरिनाशनः 72 वेदविद्वेदकृद्वेदो वेदात्मा विमलाशयः विविक्तसेवी संसारश्रमनाशनस्तथा 73 ब्रह्मयोनिर्बृहद्योनिर्विश्वयोनिर्विदेहवान् विशालाक्षो विश्वनाथो हाटकाङ्गदभूषणः 74 अबाध्यो जगदाराध्यो जगदार्जवपालनः जनवान् धनवान् धर्मी धर्मगो धर्मवर्धनः 75 अमृतः शाश्वतः साध्यः सिद्धिदः सुमनोहरः खलुब्रह्मखलुस्थानो मुनीनां परमा गतिः 76 उपद्रष्टा तथा श्रेष्ठः शुचिभूतो ह्यनामयः वेदसिद्धान्तवेद्यश्च मानसाह्लादवर्धनः 77 देहादन्यो गुणादन्यो लोकादन्यो विवेकवित् दुष्टस्वप्नहरश्चैव गुरुर्गुरुवरोत्तमः 78 कर्मी कर्मविनिर्मुक्तः संन्यासी साधकेश्वरः सर्वभावविहीनश्च तृष्णासङ्गनिवारकः 79 त्यागी त्यागवपुस्त्यागस्त्यागदानविवर्जितः त्यागकारणत्यागात्मा सद्गुरुः सुखदायकः 80 दक्षो दक्षादिवन्द्यश्च ज्ञानवादप्रवर्तकः शब्दब्रह्ममयात्मा शब्दब्रह्मप्रकाशवान् 81 ग्रसिष्णुः प्रभविष्णुश्च सहिष्णुर्विगतान्तरः विद्वत्तमो महावन्द्यो विशालोत्तमवाङ्मुनिः 82 ब्रह्मविद्ब्रह्मभावश्च ब्रह्मर्षिर्ब्राह्मणप्रियः ब्रह्म ब्रह्मप्रकाशात्मा ब्रह्मविद्याप्रकाशनः 83 अत्रिवंशप्रभूतात्मा तापसोत्तमवन्दितः आत्मवासी विधेयात्मा ह्यत्रिवंशविवर्धनः 84 प्रवर्तनो निवृत्तात्मा प्रलयोदकसन्निभः नारायणो महागर्भो भार्गवप्रियकृत्तमः 85 सङ्कल्पदुःखदलनः संसारतमनाशनः त्रिविक्रमस्त्रिधाकारस्त्रिमूर्तिस्त्रिगुणात्मकः 86 भेदत्रयहरश्चैव तापत्रयनिवारकः दोषत्रयविभेदी संशयार्णवखण्डनः 87 असंशयस्त्वसम्मूढो ह्यवादी राजवन्दितः राजयोगी महायोगी स्वभावगलितस्तथा 88 पुण्यश्लोकः पवित्राङ्घ्रिर्ध्यानयोगपरायणः ध्यानस्थो ध्यानगम्यश्च विधेयात्मा पुरातनः 89 अविज्ञेयो ह्यन्तरात्मा मुख्यबिम्बसनातनः जीवसञ्जीवनो जीवश्चिद्विलासश्चिदाश्रयः 90 महेन्द्रोऽमरमान्यश्च योगेन्द्रो योगवित्तमः योगधर्मस्तथा योगस्तत्त्वस्तत्त्वविनिश्चयः 91 नैकबाहुरनन्तात्मा नैकनामपराक्रमः नैकाक्षी नैकपादश्च नाथनाथोत्तमोत्तमः 92 सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् सहस्ररूपदृक् चैव सहस्रारमयोद्धवः 93 त्रिपादपुरुषश्चैव त्रिपादूर्ध्वस्तथैव त्र्यम्बकश्च महावीर्यो योगवीर्यविशारदः 94 विजयी विनयी जेता वीतरागी विराजितः रुद्रो रौद्रो महाभीमः प्राज्ञमुख्यः सदाशुचिः 95 अन्तर्ज्योतिरनन्तात्मा प्रत्यगात्मा निरन्तरः अरूपश्चात्मरूपश्च सर्वभावविनिर्वृतः 96 अन्तःशून्यो बहिःशून्यः शून्यात्मा शून्यभावनः अन्तःपूर्णो बहिःपूर्णः पूर्णात्मा पूर्णभावनः 97 अन्तस्त्यागी बहिस्त्यागी त्यागात्मा सर्वयोगवान् अन्तर्योगी बहिर्योगी सर्वयोगपरायणः 98 अन्तर्भोगी बहिर्भोगी सर्वभोगविदुत्तमः अन्तर्निष्ठो बहिर्निष्ठः सर्वनिष्ठामयस्तथा 99 बाह्यान्तरविमुक्तश्च बाह्यान्तरविवर्जितः शान्तः शुद्धो विशुद्धश्च निर्वाणः प्रकृतेः परः 100 अकालः कालनेमी कालकालो जनेश्वरः कालात्मा कालकर्ता कालज्ञः कालनाशनः 101 कैवल्यपददाता कैवल्यसुखदायकः कैवल्यकलनाधारो निर्भरो हर्षवर्धनः 102 हृदयस्थो हृषीकेशो गोविन्दो गर्भवर्जितः सकलागमपूज्यश्च निगमो निगमाश्रयः 103 पराशक्तिः पराकीर्तिः परावृत्तिर्निधिस्मृतिः परविद्या पराक्षान्तिर्विभक्तिर्युक्तसद्गतिः 104 स्वप्रकाशः प्रकाशात्मा परसंवेदनात्मकः स्वसेव्यः स्वविदां स्वात्मा स्वसंवेद्योऽनघः क्षमी 105 स्वानुसन्धानशीलात्मा स्वानुसन्धानगोचरः स्वानुसन्धानशून्यात्मा स्वानुसन्धानकाश्रयः 106 स्वबोधदर्पणोऽभङ्गः कन्दर्पकुलनाशनः ब्रह्मचारी ब्रह्मवेत्ता ब्राह्मणो ब्रह्मवित्तमः 107 तत्त्वबोधः सुधावर्षः पावनः पापपावकः ब्रह्मसूत्रविधेयात्मा ब्रह्मसूत्रार्थनिर्णयः 108 आत्यन्तिको महाकल्पः सङ्कल्पावर्तनाशनः आधिव्याधिहरश्चैव संशयार्णवशोषकः 109 तत्त्वात्मज्ञानसन्देशो महानुभवभावितः आत्मानुभवसम्पन्नः स्वानुभावसुखाश्रयः 110 अचिन्त्यश्च बृहद्भानुः प्रमदोत्कर्षनाशनः अनिकेत प्रशान्तात्मा शून्यावासो जगद्वपुः 111 चिद्गतिश्चिन्मयश्चक्री मायाचक्रप्रवर्तकः सर्ववर्णविदारम्भी सर्वारम्भपरायणः 112 पुराणः प्रवरो दाता सुन्दरः कनकाङ्गदी अनसूयात्मजो दत्तः सर्वज्ञः सर्वकामदः 113 कामजित् कामपालश्च कामी कामप्रदागमः कामवान् कामपोषश्च सर्वकामनिवर्तकः 114 सर्वकर्मफलोत्पत्तिः सर्वकामफलप्रदः सर्वकर्मफलैः पूज्यः सर्वकर्मफलाश्रयः 115 विश्वकर्मा कृतात्मा कृतज्ञः सर्वसाक्षिकः सर्वारम्भपरित्यागी जडोन्मत्तपिशाचवान् 116 भिक्षुर्भैक्षाकरश्चैव भैक्षाहारी निराश्रमी अकूलश्चानुकूलश्च विकलो ह्यकलस्तथा 117 जटिलो वनचारी दण्डी मुण्डी गण्डवान् देहधर्मविहीनात्मा ह्येकाकी सङ्गवर्जितः 118 आश्रम्यनाश्रमारम्भोऽनाचारी कर्मवर्जितः असन्देही सन्देही किञ्चिन्न किञ्चनः 119 नृदेही देहशून्यश्च नाभावी भावनिर्गतः नाब्रह्मा परब्रह्म स्वयमेव निराकुलः 120 अनघश्चागुरुश्चैव नाथनाथोत्तमो गुरुः द्विभुजः प्राकृतश्चैव जनकश्च पितामहः 121 अनात्मा नानात्मा नीतिर्नीतिमतां वरः सहजः सदृशः सिद्धश्चैकश्चिन्मात्र एव 122 कर्तापि कर्ता भोक्ता भोगविवर्जितः तुरीयस्तुरीयातीतः स्वच्छः सर्वमयस्तथा 123 सर्वाधिष्ठानरूपश्च सर्वध्येयविवर्जितः सर्वलोकनिवासात्मा सकलोत्तमवन्दितः 124 देहभृद्देहकृच्चैव देहात्मा देहभावनः देही देहविभक्तश्च देहभावप्रकाशनः 125 लयस्थो लयविच्चैव लयाभावश्च बोधवान् लयातीतो लयस्यान्तो लयभावनिवारणः 126 विमुखः प्रमुखश्चैव प्रत्यङ्मुखवदाचरी विश्वभुग्विश्वधृग्विश्वो विश्वक्षेमकरस्तथा 127 अविक्षिप्तोऽप्रमादी परर्धिः परमार्थदृक् स्वानुभावविहीनश्च स्वानुभावप्रकाशनः 128 निरिन्द्रियश्च निर्बुद्धिर्निराभासो निराकृतः निरहङ्काररूपात्मा निर्वपुः सकलाश्रयः 129 शोकदुःखहरश्चैव भोगमोक्षफलप्रदः सुप्रसन्नस्तथा सूक्ष्मः शब्दब्रह्मार्थसङ्ग्रहः 130 आगमापायशून्यश्च स्थानदश्च सताङ्गतिः अकृतः सुकृतश्चैव कृतकर्मा विनिर्वृतः 131 भेदत्रयहरश्चैव देहत्रयविनिर्गतः सर्वकाममयश्चैव सर्वकामनिवर्तकः 132 सिद्धेश्वरोऽजरः पञ्चबाणदर्पहुताशनः चतुरक्षरबीजात्मा स्वभूश्चित्कीर्तिभूषणः 133 अगाधबुद्धिरक्षुब्धश्चन्द्रसूर्याग्निलोचनः यमदंष्ट्रोऽतिसंहर्ता परमानन्दसागरः 134 लीलाविश्वम्भरो भानुर्भैरवो भीमलोचनः ब्रह्मचर्माम्बरः कालस्त्वचलश्चलनान्तकः 135 आदिदेवो जगद्योनिर्वासवारिविमर्दनः विकर्मकर्मकर्मज्ञो अनन्यगमकोऽगमः 136 अबद्धकर्मशून्यश्च कामरागकुलक्षयः योगान्धकारमथनः पद्मजन्मादिवन्दितः 137 भक्तकामोऽग्रजश्चक्री भावनिर्भावभावकः भेदान्तको महानग्र्यो निगूहो गोचरान्तकः 138 कालाग्निशमनः शङ्खचक्रपद्मगदाधरः दीप्तो दीनपतिः शास्ता स्वच्छन्दो मुक्तिदायकः 139 व्योमधर्माम्बरो भेत्ता भस्मधारी धराधरः धर्मगुप्तोऽन्वयात्मा व्यतिरेकार्थनिर्णयः 140 एकानेकगुणाभासाभासनिर्भासवर्जितः भावाभावस्वभावात्मा भावाभावविभाववित् 141 योगिहृदयविश्रामोऽनन्तविद्याविवर्धनः विघ्नान्तकस्त्रिकालज्ञस्तत्त्वात्मा ज्ञानसागरः 142 इतीदं दत्तसाहस्रं सायं प्रातः पठेत्तु यः इहामुत्र लभते निर्वाणं परमं सुखम् 143 गुरुवारे दत्तभक्तो भक्तिभावसमन्वितः पठेत् सदैव यो ह्येतत् लभेच्चिन्तितं ध्रुवम् 144 इति श्रीमद्दत्तात्रेयपुराणे श्री दत्तात्रेय सहस्रनाम स्तोत्रम् इतर श्री दत्तात्रेय स्तोत्राणि पश्यतु

Recite with devotion and pure heart

Regular practice brings spiritual benefits