Haindavam Logo - Lord Ganesha
Haindavam
📍
Font Size:

दत्त नवरत्न मालिका

वित्ततर्षरहितैर्मनुजानां
सत्तमैरनिशसेव्यपदाब्जम् ।
चित्तशुद्धिमभिलिप्सुरहं द्राक्
दत्तदेवमनिशं कलयामि ॥ 1 ॥
कार्तवीर्यगुरुमत्रितनूजं
पादनम्रशिर आहितहस्तम् ।
श्रीदमुख्यहरिदीश्वरपूज्यं
दत्तदेवमनिशं कलयामि ॥ 2 ॥
नाकनायकसमर्चितपादं
पाकचन्द्रधर मौल्यवतारम् ।
कोकबन्धुसमवेक्ष्यमहस्कं
दत्तदेवमनिशं कलयामि ॥ 3 ॥
मूकपङ्गु बधिरादिमलोकान्
लोकतस्तदितरान्विदधानम् ।
एकवस्तुपरिबोधयितारं
दत्तदेवमनिशं कलयामि ॥ 4 ॥
योगदानत इहैव हरन्तं
रोगमाशु नमतां भवसञ्ज्ञम् ।
रागमोहमुख वैरिनिवृत्त्यै
दत्तदेवमनिशं कलयामि ॥ 5 ॥
जामदग्न्यमुनये त्रिपुरायाः
ज्ञानखण्डमवबोधितवन्तम् ।
जामिताविदलनं नतपङ्क्तेः
दत्तदेवमनिशं कलयामि ॥ 6 ॥
तारकं भवमहाजलराशेः
पूरकं पदनतेप्सितराशेः ।
वारकं कलिमुखोत्थभयानां
दत्तदेवमनिशं कलयामि ॥ 7 ॥
सत्यवित्सुखनिरन्तरसक्तं
स्वान्तमानतजनं विदधानम् ।
श्रान्तलोकततितोषणचन्द्रं
दत्तदेवमनिशं कलयामि ॥ 8 ॥
रक्षणाय जगतो धृतदेहं
शिक्षणाय च दुरध्वगतानाम् ।
ऋक्षराजपरिभाविनिटालं
दत्तदेवमनिशं कलयामि ॥ 9 ॥
नवरत्नमालिकेयं
ग्रथिता भक्तेन केनचिद्यतिना ।
गुरुवरचरणाब्जयुगे
तन्मोदायार्पिता चिरं जीयात् ॥ 10 ॥
इति श्री जगद्गुरु श्री चन्द्रशेखरभारतीस्वामिपादैः विरचिता श्री दत्त नवरत्न मालिका ।

Recite with devotion and pure heart

Regular practice brings spiritual benefits