Haindavam Logo - Lord Ganesha
Haindavam
📍
Font Size:

दत्त नक्षत्रमालिका

गोदावर्या महानद्या उत्तरे सिंहपर्वते ।
सुपुण्ये माहुरपुरे सर्वतीर्थसमन्विते ॥ 1 ॥
जज्ञेऽत्रेरनसूयायां प्रदोषे बुधवासरे ।
मार्गशीर्ष्यां महायोगी दत्तात्रेयो दिगम्बरः ॥ 2 ॥
मालां कुण्डीं च डमरुं शूलं शङ्खं सुदर्शनम् ।
दधानः षड्भुजैस्त्र्यात्मा योगमार्गप्रवर्तकः ॥ 3 ॥
भस्मोद्धूलितसर्वाङ्गो जटाजूटविराजितः ।
रुद्राक्षभूषिततनुः शाम्भवीमुद्रया युतः ॥ 4 ॥
भक्तानुग्रहकृन्नित्यं पापतापार्तिभञ्जनः ।
बालोन्मत्तपिशाचाभः स्मर्तृगामी दयानिधिः ॥ 5 ॥
यस्यास्ति माहुरे निद्रा निवासः सिंहपर्वते ।
प्रातः स्नानं च गङ्गायां ध्यानम् गन्धर्वपत्तने ॥ 6 ॥
कुरुक्षेत्रे चाचमनं धूतपापेश्वरे तथा ।
विभूतिधारणं प्रातःसन्ध्या च करहाटके ॥ 7 ॥
कोलापुरेऽस्य भिक्षा च पाञ्चालेऽपि च भोजनम् ।
दिनगो विठ्ठलपुरे तुङ्गापानं दिने दिने ॥ 8 ॥ [तिलको]
पुराणश्रवणं यस्य नरनारायणाश्रमे ।
विश्रामो सरदे सायंसन्ध्या पश्चिमसागरे ॥ 9 ॥ [रैवते]
कार्तवीर्यार्जुनायादाद्योगर्धिमुभयीं प्रभुः ।
स्वात्मतत्त्वं च यदवे बहुगुर्वाप्तमुत्तमम् ॥ 10 ॥
आन्वीक्षिकीमलर्काय प्रह्लादाय तगीयते । [च धीमते]
आयूराजाय च वरान् साध्येभ्यो मोक्षसाधनम् ॥ 11 ॥
मन्त्रांश्च विष्णुदत्ताय सोमकान्ताय कर्म च ।
स एवाविरभूद्भूयः पूर्वार्णवसमीपतः ॥ 12 ॥
भाद्रे मासि सिते पक्षे चतुर्थ्यां राजविप्रतः ।
सुमत्यां प्राक्सिन्धुतीरे रम्ये पीठापुरे वरे ॥ 13 ॥
य आचारव्यवहृतिप्रायश्चित्तोपदेशकृत् ।
निजाग्रजावन्धपङ्गू विलोक्य प्रव्रजन् सुधीः ॥ 14 ॥
मातापित्रोर्मुदे दृष्टिं गतिं ताभ्यामुपानयत् ।
महीं प्रदक्षिणीकृत्य गोकर्णे त्र्यब्दमावसन् ॥ 15 ॥
ततः कृष्णातटं प्राप्य मर्तुकामां सपुत्रकाम् ।
निवर्त्य ब्राह्मणीं मन्दं प्रदोषं व्रतमादिशत् ॥ 16 ॥
तत्पुत्रं विबुधं कृत्वा तस्या जन्मान्तरे प्रभुः ।
पुत्रो भूत्वा नरहरिनामको देश उत्तरे ॥ 17 ॥
काञ्चने नगरेऽप्यम्बामानयद्विपदो विभुः ।
मासि पौषे सिते पक्षे द्वितीयायां शनेर्दिने ॥ 18 ॥
जातमात्रोऽपि चोङ्कारं पपाठाथापि मूकवत् ।
सप्ताब्दान् लीलया स्थित्वा नानाकौतुककृत् प्रभुः ॥ 19 ॥
उपनीतोऽपठद्वेदान् सप्तमे वत्सरे स्वयम् ।
आश्वास्य जननीं पुत्रद्वयदानेन बोधतः ॥ 20 ॥
काशीं गत्वाऽष्टाङ्गयोगाभ्यासी कृष्णसरस्वतीम् ।
कृत्वा गुरुं यतिर्भूत्वा वेदार्थान् सम्प्रकाश्य च ॥ 21 ॥
लुप्तसन्न्यासिधर्मं च तेने तुर्याश्रमं भुवि ।
मेरुं प्रदक्षिणीकृत्य शिष्यान् कृत्वाऽपि भूरिशः ॥ 22 ॥
पितृभ्यां दर्शनं दत्वा द्विजं शूलरुजार्दितम् ।
कृत्वाऽनामयमाश्वास्य सायन् देवं महामतिम् ॥ 23 ॥
अब्दं स्थित्वा वैद्यनाथक्षेत्रे कृष्णातटे ततः ।
भिल्लवाट्यां चतुर्मासान् विभुर्गत्वा ततोऽग्रतः ॥ 24 ॥
नृसिंहवाटिकाक्षेत्रे द्वादशाब्दान् वसन् सुधीः ।
तत्र स्थित्वाऽपि गन्धर्वपुरमेत्यावसन् मठे ॥ 25 ॥
जीवयित्वा मृतान् दुग्ध्वा वन्ध्यां च महिषीं हरिः ।
विश्वरूपं दर्शयित्वा यतये विश्वनाटकः ॥ 26 ॥
बह्वीरमानुषीर्लीलाः कृत्वा गुप्तोऽपि तत्र च ।
य आस्ते भगवान् दत्तः सोऽस्मान् रक्षतु सर्वदा ॥ 27 ॥
या सप्तविंशतिश्लोकैः कृता नक्षत्रमालिका ।
तद्भक्तेभ्योऽर्पिता भक्ताभिन्नश्रीदत्ततुष्टये ॥ 28 ॥
द्वादश्यामाश्विने कृष्णे श्रीपादस्योत्सवो महान् ।
माघे कृष्णे प्रतिपदि नरसिंहप्रभोस्तथा ॥ 29 ॥
इति श्री वासुदेवानन्दसरस्वतीविरचिता नक्षत्र मालिका सम्पूर्णा ।

Recite with devotion and pure heart

Regular practice brings spiritual benefits