Haindavam Logo - Lord Ganesha
Haindavam
📍
Font Size:

वराह स्तुतिः - वराह पुराणे

ब्रह्मादय ऊचुः –
जय देव महापोत्रिन् जय भूमिधराच्युत ।
हिरण्याक्षमहारक्षोविदारणविचक्षण ॥ 1 ॥
त्वमनादिरनन्तश्च त्वत्तः परतरो न हि ।
त्वमेव सृष्टिकालेऽपि विधिर्भूत्वा चतुर्मुखः ॥ 2 ॥
सृजस्येतज्जगत्सर्वं पासि विष्णुः समन्ततः ।
कालाग्निरुद्ररूपी च कल्पान्ते सर्वजन्तुषु ॥ 3 ॥
अन्तर्यामी भवान् देव सर्वकर्ता त्वमेव हि ।
निष्कृष्टं ब्रह्मणो रूपं न जानन्ति सुरास्तव ॥ 4 ॥
प्रसीद भगवन् विष्णो भूमिं स्थापय पूर्ववत् ।
सर्वप्राणिनिवासार्थमस्तुवन् विबुधव्रजाः ॥ 5 ॥
इति श्रीवरहपुराणे वेङ्कटाचलमाहात्म्ये देवकृत श्री वराह स्तुतिः ।

Recite with devotion and pure heart

Regular practice brings spiritual benefits