Haindavam Logo - Lord Ganesha
Haindavam
📍
Font Size:

वराह स्तुतिः - पद्म पुराणे

देवा ऊचुः ।
नमो यज्ञवराहाय नमस्ते शतबाहवे ।
नमस्ते देवदेवाय नमस्ते विश्वरूपिणे ॥ 1 ॥
नमः स्थितिस्वरूपाय सर्वयज्ञस्वरूपिणे ।
कलाकाष्ठानिमेषाय नमस्ते कालरूपिणे ॥ 2 ॥
भूतात्मने नमस्तुभ्यं ऋग्वेदवपुषे तथा ।
सुरात्मने नमस्तुभ्यं सामवेदाय ते नमः ॥ 3 ॥
ओङ्काराय नमस्तुभ्यं यजुर्वेदस्वरूपिणे ।
ऋचःस्वरूपिणे चैव चतुर्वेदमयाय च ॥ 4 ॥
नमस्ते वेदवेदाङ्ग साङ्गोपाङ्गाय ते नमः ।
गोविन्दाय नमस्तुभ्यमनादिनिधनाय च ॥ 5 ॥
नमस्ते वेदविदुषे विशिष्टैकस्वरूपिणे ।
श्रीभूलीलाधिपतये जगत्पित्रे नमो नमः ॥ 6 ॥
इति श्रीपद्मपुराणे उत्तरखण्डे सप्तत्रिंशदधिकद्विशततमोऽध्याये देवकृत श्री वराह स्तुतिः ।

Recite with devotion and pure heart

Regular practice brings spiritual benefits