Haindavam Logo - Lord Ganesha
Haindavam
📍
Font Size:

वराह अष्टोत्तर शत नामावलिः

ओं श्रीवराहाय नमः । ओं महीनाथाय नमः । ओं पूर्णानन्दाय नमः । ओं जगत्पतये नमः । ओं निर्गुणाय नमः । ओं निष्कलाय नमः । ओं अनन्ताय नमः । ओं दण्डकान्तकृते नमः । ओं अव्ययाय नमः । ओं हिरण्याक्षान्तकृते नमः । 10 ओं देवाय नमः । ओं पूर्णषाड्गुण्यविग्रहाय नमः । ओं लयोदधिविहारिणे नमः । ओं सर्वप्राणिहितेरताय नमः । ओं अनन्तरूपाय नमः । ओं अनन्तश्रिये नमः । ओं जितमन्यवे नमः । ओं भयापहाय नमः । ओं वेदान्तवेद्याय नमः । ओं वेदिने नमः । 20 ओं वेदगर्भाय नमः । ओं सनातनाय नमः । ओं सहस्राक्षाय नमः । ओं पुण्यगन्धाय नमः । ओं कल्पकृते नमः । ओं क्षितिभृते नमः । ओं हरये नमः । ओं पद्मनाभाय नमः । ओं सुराध्यक्षाय नमः । ओं हेमाङ्गाय नमः । 30 ओं दक्षिणामुखाय नमः । ओं महाकोलाय नमः । ओं महाबाहवे नमः । ओं सर्वदेवनमस्कृताय नमः । ओं हृषीकेशाय नमः । ओं प्रसन्नात्मने नमः । ओं सर्वभक्तभयापहाय नमः । ओं यज्ञभृते नमः । ओं यज्ञकृते नमः । ओं साक्षिणे नमः । 40 ओं यज्ञाङ्गाय नमः । ओं यज्ञवाहनाय नमः । ओं हव्यभुजे नमः । ओं हव्यदेवाय नमः । ओं सदाव्यक्ताय नमः । ओं कृपाकराय नमः । ओं देवभूमिगुरवे नमः । ओं कान्ताय नमः । ओं धर्मगुह्याय नमः । ओं वृषाकपये नमः । 50 ओं स्रवत्तुण्डाय नमः । ओं वक्रदंष्ट्राय नमः । ओं नीलकेशाय नमः । ओं महाबलाय नमः । ओं पूतात्मने नमः । ओं वेदनेत्रे नमः । ओं वेदहर्तृशिरोहराय नमः । ओं वेदान्तविदे नमः । ओं वेदगुह्याय नमः । ओं सर्ववेदप्रवर्तकाय नमः । 60 ओं गभीराक्षाय नमः । ओं त्रिधाम्ने नमः । ओं गभीरात्मने नमः । ओं अमरेश्वराय नमः । ओं आनन्दवनगाय नमः । ओं दिव्याय नमः । ओं ब्रह्मनासासमुद्भवाय नमः । ओं सिन्धुतीरनिवासिने नमः । ओं क्षेमकृते नमः । ओं सात्त्वतां पतये नमः । 70 ओं इन्द्रत्रात्रे नमः । ओं जगत्त्रात्रे नमः । ओं इन्द्रदोर्दण्डगर्वघ्ने नमः । ओं भक्तवश्याय नमः । ओं सदोद्युक्ताय नमः । ओं निजानन्दाय नमः । ओं रमापतये नमः । ओं श्रुतिप्रियाय नमः । ओं शुभाङ्गाय नमः । ओं पुण्यश्रवणकीर्तनाय नमः । 80 ओं सत्यकृते नमः । ओं सत्यसङ्कल्पाय नमः । ओं सत्यवाचे नमः । ओं सत्यविक्रमाय नमः । ओं सत्येनिगूढाय नमः । ओं सत्यात्मने नमः । ओं कालातीताय नमः । ओं गुणाधिकाय नमः । ओं परस्मै ज्योतिषे नमः । ओं परस्मै धाम्ने नमः । 90 ओं परमाय पुरुषाय नमः । ओं पराय नमः । ओं कल्याणकृते नमः । ओं कवये नमः । ओं कर्त्रे नमः । ओं कर्मसाक्षिणे नमः । ओं जितेन्द्रियाय नमः । ओं कर्मकृते नमः । ओं कर्मकाण्डस्य सम्प्रदायप्रवर्तकाय नमः । ओं सर्वान्तकाय नमः । 100 ओं सर्वगाय नमः । ओं सर्वदाय नमः । ओं सर्वभक्षकाय नमः । ओं सर्वलोकपतये नमः । ओं श्रीमते श्रीमुष्णेशाय नमः । ओं शुभेक्षणाय नमः । ओं सर्वदेवप्रियाय नमः । ओं साक्षिणे नमः । 108 इति श्रीवराहाष्टोत्तरशतनामावली ॥

Recite with devotion and pure heart

Regular practice brings spiritual benefits