कुलाचला यस्य महीं द्विजेभ्यः
प्रयच्छतः सीमदृषत्त्वमापुः ।
बभूवुरुत्सर्गजलं समुद्राः
स रैणुकेयः श्रियमातनोतु ॥ 1 ॥
नाशिष्यः किमभूद्भवः किमभवन्नापुत्रिणी रेणुका
नाभूद्विश्वमकार्मुकं किमिति वः प्रीणातु रामत्रपा ।
विप्राणां प्रतिमन्दिरं मणिगणोन्मिश्राणि दण्डाहते-
-र्नाब्धीनां स मया यमोऽपि महिषेणाम्भांसि नोद्वाहितः ॥ 2 ॥
पायाद्वो जमदग्निवंशतिलको वीरव्रतालङ्कृतो
रामो नाम मुनीश्वरो नृपवधे भास्वत्कुठारायुधः ।
येनाशेषहताहिताङ्गरुधिरैः सन्तर्पिताः पूर्वजाः
भक्त्या चाश्वमखे समुद्रवसना भूर्हन्तकारीकृता ॥ 3 ॥
द्वारे कल्पतरुं गृहे सुरगवीं चिन्तामणीनङ्गदे
पीयूषं सरसीषु विप्रवदने विद्याश्चतस्रो दश ।
एवं कर्तुमयं तपस्यति भृगोर्वंशावतंसो मुनिः
पायाद्वोऽखिलराजकक्षयकरो भूदेवभूषामणिः ॥ 4 ॥
इति श्री परशुराम स्तुतिः ।