Haindavam Logo - Lord Ganesha
Haindavam
📍
Font Size:

बलराम स्तोत्रम्

जय राम सदाराम सच्चिदानन्दविग्रह ।
अविद्यापङ्कगलितनिर्मलाकार ते नमः ॥ 1 ॥
जयाऽखिलजगद्भारधारण श्रमवर्जित ।
तापत्रयविकर्षाय हलं कलयते सदा ॥ 2 ॥
प्रपन्नदीनत्राणाय बलरामाय ते नमः ।
त्वमेवेश पराशेषकलुषक्षालनप्रभुः ॥ 3 ॥
प्रपन्नकरुणासिन्धो भक्तप्रिय नमोऽस्तु ते ।
चराचरफणाग्रेण धृता येन वसुन्धरा ॥ 4 ॥
मामुद्धरास्मद्दुष्पाराद्भवाम्भोधेरपारतः ।
परापराणां परमं परमेश नमोऽस्तु ते ॥ 5 ॥
इमं स्तवं यः पठति बलरामाधिदैवतम् ।
बलिष्ठः सर्वकार्येषु गरिष्ठः सोऽभिजायते ॥ 6 ॥
इति श्री बलराम स्तोत्रम् ।

Recite with devotion and pure heart

Regular practice brings spiritual benefits