Haindavam Logo - Lord Ganesha
Haindavam
📍
Font Size:

काल भैरव सहस्रनामावलिः

ओं भं भैरवाय नमः । ओं भं भूतनाथाय नमः । ओं भं भूतात्मने नमः । ओं भं भूतभावनाय नमः । ओं भं भूतवासाय नमः । ओं भं भूतदूताय नमः । ओं भं भूरिशाय नमः । ओं भं भूरिदक्षिणाय नमः । ओं भं भूताध्यक्षाय नमः । ओं भं भूतपतये नमः । ओं भं भूधराय नमः । ओं भं भूधरात्मजाय नमः । ओं भं भूपतये नमः । ओं भं भास्कराय नमः । ओं भं भीरवे नमः । ओं भं भीमाय नमः । ओं भं भूमये नमः । ओं भं विभूतिदाय नमः । ओं भं भूताय नमः । ओं भं भूकम्पनाय नमः । 20 ओं भं भूमिनाम्ने नमः । ओं भं भूताभिभावकाय नमः । ओं भं भगनेत्राय नमः । ओं भं भवाय नमः । ओं भं भोक्त्रे नमः । ओं भं भूदेवाय नमः । ओं भं भगवते नमः । ओं भं रथिने नमः । ओं भं भ्राजिष्णवे नमः । ओं भं भोजनाय नमः । ओं भं भोक्त्रे नमः । ओं भं भिक्षाभुजे नमः । ओं भं भोजनप्रियाय नमः । ओं भं भूतिमयाय नमः । ओं भं भृङ्गिरिटिने नमः । ओं भं भक्तसाधितविग्रहाय नमः । ओं भं भूतचारिणे नमः । ओं भं निशाचारिणे नमः । ओं भं प्रेतचारिणे नमः । ओं भं भयानकाय नमः । 40 ओं भं भवात्मने नमः । ओं भं भूर्भुवोलक्ष्म्यै नमः । ओं भं भूतिमते नमः । ओं भं भवविक्रमाय नमः । ओं भं पद्मगर्भाय नमः । ओं भं महागर्भाय नमः । ओं भं विश्वगर्भाय नमः । ओं भं भुवे नमः । ओं भं अभुवे नमः । ओं भं भूतत्वाय नमः । ओं भं भुवनाधीशाय नमः । ओं भं भूतिकृते नमः । ओं भं भ्रान्तिनाशनाय नमः । ओं भं भूतिभूषितसर्वाङ्गाय नमः । ओं भं भूशयाय नमः । ओं भं भूतवाहनाय नमः । ओं भं क्षेत्रज्ञाय नमः । ओं भं भुवनाधीशाय नमः । ओं भं भूतिदाय नमः । ओं भं भूतिमते नमः । 60 ओं भं प्रभवे नमः । ओं भं क्षेत्रज्ञाय नमः । ओं भं क्षेत्रपालाय नमः । ओं भं क्षेत्रविघ्ननिवारणाय नमः । ओं भं क्षान्ताय नमः । ओं भं क्षुद्राय नमः । ओं भं क्षेत्रपाय नमः । ओं भं क्षुद्रघ्नाय नमः । ओं भं क्षत्रपाय नमः । ओं भं क्षमिणे नमः । ओं भं क्षोभणाय नमः । ओं भं मारणाय नमः । ओं भं स्तम्भनाय नमः । ओं भं मोहनाय नमः । ओं भं नमनाय नमः । ओं भं वशिने नमः । ओं भं क्षपणाय नमः । ओं भं क्षान्तिदाय नमः । ओं भं क्षामाय नमः । ओं भं क्षमिणे नमः । 80 ओं भं क्षेत्रधराय नमः । ओं भं क्षराय नमः । ओं भं कङ्कालाय नमः । ओं भं कालशमनाय नमः । ओं भं कलाकाष्ठायै नमः । ओं भं कलानिधये नमः । ओं भं कालाय नमः । ओं भं करालाय नमः । ओं भं कङ्कालिने नमः । ओं भं कमनीयाय नमः । ओं भं कलानिधये नमः । ओं भं कालाय नमः । ओं भं कालाकृतये नमः । ओं भं वायवे नमः । ओं भं कपर्दिने नमः । ओं भं कामशासनाय नमः । ओं भं कुबेरबन्धवे नमः । ओं भं कामात्मने नमः । ओं भं कर्णिकारप्रियाय नमः । ओं भं कपये नमः । 100 ओं भं कामदेवाय नमः । ओं भं कामपालाय नमः । ओं भं कामिने नमः । ओं भं कान्ताय नमः । ओं भं कृतागमाय नमः । ओं भं कल्याणप्रकृतये नमः । ओं भं कल्पाय नमः । ओं भं कल्पादये नमः । ओं भं कमलेक्षणाय नमः । ओं भं कमण्डलुधराय नमः । ओं भं केतवे नमः । ओं भं कालयोगिने नमः । ओं भं अकल्मषाय नमः । ओं भं करणाय नमः । ओं भं कारणाय नमः । ओं भं कर्त्रे नमः । ओं भं कैलासपतये नमः । ओं भं ईश्वराय नमः । ओं भं कामभुवे नमः । ओं भं कामदाय नमः । 120 ओं भं अचिन्त्याय नमः । ओं भं किरीटिने नमः । ओं भं कौशिकाय नमः । ओं भं कपिलाय नमः । ओं भं कुशलाय नमः । ओं भं कर्त्रे नमः । ओं भं कुमाराय नमः । ओं भं कपटाय नमः । ओं भं क्षमाय नमः । ओं भं कलाद्यदृशे नमः । ओं भं कलाधाराय नमः । ओं भं कपालकण्ठाय नमः । ओं भं कपालभृते नमः । ओं भं कैलासशिखरावासाय नमः । ओं भं कुबेराय नमः । ओं भं कीर्तिभूषणाय नमः । ओं भं कालज्ञानिने नमः । ओं भं कलावासाय नमः । ओं भं कोपिताय नमः । ओं भं कान्तविग्रहाय नमः । 140 ओं भं कवचिने नमः । ओं भं कण्टकिने नमः । ओं भं कार्यकोविदविक्रमाय नमः । ओं भं कालभक्षाय नमः । ओं भं कलं कारिणे नमः । ओं भं किङ्किणीकृतवासुकये नमः । ओं भं गणेश्वराय नमः । ओं भं गौरीशाय नमः । ओं भं गिरीशाय नमः । ओं भं गिरिबाधकाय नमः । ओं भं गिरिधन्वने नमः । ओं भं गुहाय नमः । ओं भं गोप्त्रे नमः । ओं भं गुणराशाये नमः । ओं भं गुणाकराय नमः । ओं भं गम्भीराय नमः । ओं भं गहनाय नमः । ओं भं गोप्त्रे नमः । ओं भं गायत्रीवल्लभाय नमः । ओं भं गतये नमः । 160 ओं भं ग्रीष्माय नमः । ओं भं गृहपतये नमः । ओं भं गुप्ताय नमः । ओं भं गेयाय नमः । ओं भं गव्यपतये नमः । ओं भं अगाय नमः । ओं भं गणवाहाय नमः । ओं भं गुणग्राहिणे नमः । ओं भं गणनाय नमः । ओं भं गुणराशिमते नमः । ओं भं अग्रगामिने नमः । ओं भं ईश्वराय नमः । ओं भं अरोगिणे नमः । ओं भं खट्वाङ्गिने नमः । ओं भं गगनालयाय नमः । ओं भं अमोघाय नमः । ओं भं अमोघ फलदाय नमः । ओं भं घण्टाराय नमः । ओं भं घटकप्रियाय नमः । ओं भं चन्द्रापीडाय नमः । 180 ओं भं चन्द्रमौलये नमः । ओं भं चित्रवेषाय नमः । ओं भं चिरन्तनाय नमः । ओं भं चित्तेशयाय नमः । ओं भं चित्रबाहवे नमः । ओं भं अचलाय नमः । ओं भं छिन्नसंशयाय नमः । ओं भं चतुर्वेदाय नमः । ओं भं चतुर्बाहवे नमः । ओं भं चतुराय नमः । ओं भं चतुरप्रियाय नमः । ओं भं चामुण्डाजनकाय नमः । ओं भं चण्डाय नमः । ओं भं चलाय नमः । ओं भं क्षणसञ्चलाय नमः । ओं भं अचिन्त्यमहिम्ने नमः । ओं भं अचिन्त्याय नमः । ओं भं चराचरचरित्रगाय नमः । ओं भं चन्द्रसञ्जीवनाय नमः । ओं भं चित्राय नमः । 200 ओं भं उमाचार्याय नमः । ओं भं चतुर्मुखाय नमः । ओं भं ओजस्तेजोद्युतिधराय नमः । ओं भं जितकामाय नमः । ओं भं जनप्रियाय नमः । ओं भं अजातशत्रवे नमः । ओं भं ओजस्विने नमः । ओं भं जितकालाय नमः । ओं भं जगद्धिताय नमः । ओं भं जमदग्नये नमः । ओं भं जलनिधये नमः । ओं भं जटिलाय नमः । ओं भं जीवितेश्वराय नमः । ओं भं जननाय नमः । ओं भं जनजन्मादये नमः । ओं भं अर्जुनाय नमः । ओं भं जन्मविज्ञप्याय नमः । ओं भं जन्माधिपाय नमः । ओं भं जटिने नमः । ओं भं जन्मजरामृत्युभयापहाय नमः । 220 ओं भं जीवितान्तकराय नमः । ओं भं ज्येष्ठाय नमः । ओं भं जगन्नाथाय नमः । ओं भं जनेश्वराय नमः । ओं भं त्रिवर्गसाधनाय नमः । ओं भं तार्क्ष्याय नमः । ओं भं तद्गुणाय नमः । ओं भं तन्तुवर्धनाय नमः । ओं भं तपस्विने नमः । ओं भं तारकाय नमः । ओं भं ताराय नमः । ओं भं तीव्राय नमः । ओं भं स्वात्मनिसंस्थिताय नमः । ओं भं तपनाय नमः । ओं भं तापनाय नमः । ओं भं तुष्टाय नमः । ओं भं श्वानयोनये नमः । ओं भं अतन्द्रिताय नमः । ओं भं उत्तमाङ्गाय नमः । ओं भं तिमिरघ्ने नमः । 240 ओं भं व्रतिने नमः । ओं भं वेदाय नमः । ओं भं तनूनपाते नमः । ओं भं अन्तर्हिताय नमः । ओं भं तमिस्राय नमः । ओं भं तेजसे नमः । ओं भं तेजोमयाय नमः । ओं भं स्तन्ये नमः । ओं भं तरुणाय नमः । ओं भं अर्धकराय नमः । ओं भं तिग्माय नमः । ओं भं तत्त्वाय नमः । ओं भं तत्त्वगृहेचराय नमः । ओं भं तेजोराशये नमः । ओं भं शत्रुबाणाय नमः । ओं भं अतिथये नमः । ओं भं अतिथिप्रियाय नमः । ओं भं आत्मयोगशयाय नमः । ओं भं व्यानाय नमः । ओं भं तीर्थदेवमयाय नमः । 260 ओं भं शिवाय नमः । ओं भं स्थानदाय नमः । ओं भं तपनाय नमः । ओं भं स्थाणवे नमः । ओं भं स्थविष्ठाय नमः । ओं भं स्थविराय नमः । ओं भं त्रिलोकेशाय नमः । ओं भं त्रिलोकात्मने नमः । ओं भं त्रिशूलिने नमः । ओं भं त्रिदिशाधिपाय नमः । ओं भं त्रिलोचनाय नमः । ओं भं त्रयीवेद्याय नमः । ओं भं त्रिर्वचः स्थाय नमः । ओं भं त्रिवर्गदाय नमः । ओं भं दूराय नमः । ओं भं वादस्थानघ्नाय नमः । ओं भं दुर्दशाय नमः । ओं भं दुस्सहोदयाय नमः । ओं भं पराय नमः । ओं भं देवाय नमः । 280 ओं भं देवदेवाय नमः । ओं भं दुन्दुभये नमः । ओं भं दुन्दुभिप्रियाय नमः । ओं भं दृढायुधधारिणे नमः । ओं भं धनदाय नमः । ओं भं दक्षाय नमः । ओं भं दुःस्वप्ननाशनाय नमः । ओं भं दुर्नेयाय नमः । ओं भं दुर्गमाय नमः । ओं भं दुर्गाय नमः । ओं भं दुरावासाय नमः । ओं भं दुरासदाय नमः । ओं भं दमाय नमः । ओं भं दमयित्रे नमः । ओं भं दान्ताय नमः । ओं भं दात्रे नमः । ओं भं दानाय नमः । ओं भं दयाकराय नमः । ओं भं दुर्वाससे नमः । ओं भं द्विजाय नमः । 300 ओं भं देवकायाय नमः । ओं भं दुर्णिक्ताय नमः । ओं भं दुर्भगोदयाय नमः । ओं भं देहिने नमः । ओं भं दाहाय नमः । ओं भं दानवारये नमः । ओं भं देवेन्द्राय नमः । ओं भं अरिमर्दनाय नमः । ओं भं देवासुरगुरवे नमः । ओं भं देवाय नमः । ओं भं देवासुरनमस्कृताय नमः । ओं भं देवासुरेश्वराय नमः । ओं भं दिव्याय नमः । ओं भं देवासुर महेश्वराय नमः । ओं भं सर्वदेवमयाय नमः । ओं भं दण्डाय नमः । ओं भं नक्षत्राय नमः । ओं भं अक्षराय नमः । ओं भं नक्षत्रमालिकाकेशाय नमः । ओं भं नागहाराय नमः । 320 ओं भं पिनाकधृते नमः । ओं भं व्ययनिर्वहणाय नमः । ओं भं न्यायिने नमः । ओं भं नभसे नमः । ओं भं न्यायाय नमः । ओं भं निरञ्जनाय नमः । ओं भं नीरावणाय नमः । ओं भं अतिविज्ञानाय नमः । ओं भं नरसिंहनिपातनाय नमः । ओं भं नन्दिने नमः । ओं भं नन्दीश्वराय नमः । ओं भं नग्नाय नमः । ओं भं नग्नव्रतधराय नमः । ओं भं नराय नमः । ओं भं निर्ममाय नमः । ओं भं निरहङ्काराय नमः । ओं भं निर्मोहाय नमः । ओं भं निरुपद्रवाय नमः । ओं भं निष्कण्टकाय नमः । ओं भं कृतानन्दाय नमः । 340 ओं भं निर्ध्यातव्याय नमः । ओं भं जनार्दनाय नमः । ओं भं अनघाय नमः । ओं भं निष्कलाय नमः । ओं भं निष्ठाय नमः । ओं भं नीलकायाय नमः । ओं भं निरामयाय नमः । ओं भं अनिरुद्धाय नमः । ओं भं अनाद्यन्ताय नमः । ओं भं नैकात्मने नमः । ओं भं नैककर्मकृते नमः । ओं भं नगरेतसे नमः । ओं भं नखिने नमः । ओं भं नन्दिने नमः । ओं भं आनन्दवनवर्धनाय नमः । ओं भं योगाय नमः । ओं भं विरागिणे नमः । ओं भं वैरागिणे नमः । ओं भं त्यागिने नमः । ओं भं गौरीवराङ्गनाय नमः । 360 ओं भं कम्बुकण्ठाय नमः । ओं भं गृहस्थाय नमः । ओं भं उग्राय नमः । ओं भं चण्डाय नमः । ओं भं अखण्डभृते नमः । ओं भं अन्तकाय नमः । ओं भं ताण्डवाडम्बररुचये नमः । ओं भं रुरुमण्डलमण्डिताय नमः । ओं भं परमेश्वराय नमः । ओं भं पशुपतये नमः । ओं भं पिनाकिने नमः । ओं भं पुरशासनाय नमः । ओं भं पुरात्सूताय नमः । ओं भं देवकीराय नमः । ओं भं परमेष्ठिने नमः । ओं भं परायणाय नमः । ओं भं पञ्चविंशतितत्वस्थाय नमः । ओं भं पञ्चजन्तवे नमः । ओं भं प्रभञ्जनाय नमः । ओं भं मस्करिणे नमः । 380 ओं भं परब्रह्मणे नमः । ओं भं पारिजाताय नमः । ओं भं परात्पराय नमः । ओं भं प्रतिष्ठिताय नमः । ओं भं प्रमाणज्ञाय नमः । ओं भं प्रमाणाय नमः । ओं भं परमार्थदाय नमः । ओं भं पञ्चब्रह्मणे नमः । ओं भं सत्पतये नमः । ओं भं परमात्मने नमः । ओं भं परायणाय नमः । ओं भं पिनाकपाणये नमः । ओं भं प्रांशवे नमः । ओं भं प्रत्ययाय नमः । ओं भं परवीरघ्ने नमः । ओं भं प्रभाकराय नमः । ओं भं प्रत्यक्षाय नमः । ओं भं प्रणवाय नमः । ओं भं पुरञ्जयाय नमः । ओं भं पवित्रपाणये नमः । 400 ओं भं पापारये नमः । ओं भं प्रत्ययाचिर्षे नमः । ओं भं अपां निधये नमः । ओं भं पुलस्त्याय नमः । ओं भं पुलहाय नमः । ओं भं अगस्त्याय नमः । ओं भं पुरुहूताय नमः । ओं भं पुरुष्टुताय नमः । ओं भं पद्माकराय नमः । ओं भं परस्मैज्योतिषे नमः । ओं भं परापरफलप्रदाय नमः । ओं भं परावरज्ञाय नमः । ओं भं परदाय नमः । ओं भं परशत्रवे नमः । ओं भं परस्मैपदाय नमः । ओं भं पूर्णाय नमः । ओं भं पूरयित्रे नमः । ओं भं पुण्याय नमः । ओं भं पुण्यश्रवणकीर्तनाय नमः । ओं भं पुरन्दराय नमः । 420 ओं भं पुण्यकीर्तये नमः । ओं भं प्रमादिने नमः । ओं भं पापनाशनाय नमः । ओं भं परशीलाय नमः । ओं भं परगुणाय नमः । ओं भं प्रादुरागाय नमः । ओं भं पुरन्दराय नमः । ओं भं परार्थव्यक्तये नमः । ओं भं प्रभवाय नमः । ओं भं पुरुषाय नमः । ओं भं पुरुजाय नमः । ओं भं पित्रे नमः । ओं भं पिङ्गलाय नमः । ओं भं पावनाय नमः । ओं भं प्लक्षाय नमः । ओं भं अतलाय नमः । ओं भं पूषदन्तघ्ने नमः । ओं भं परमार्थगुरवे नमः । ओं भं प्रीतये नमः । ओं भं प्रीतमते नमः । 440 ओं भं पुरातनाय नमः । ओं भं पराशराय नमः । ओं भं पद्मगर्भाय नमः । ओं भं पराय नमः । ओं भं परपुरञ्जयाय नमः । ओं भं उपप्लवाय नमः । ओं भं उभयकराय नमः । ओं भं परमार्थैकपण्डिताय नमः । ओं भं महेश्वराय नमः । ओं भं महादेवाय नमः । ओं भं मुद्गलाय नमः । ओं भं मधुराय नमः । ओं भं मृदवे नमः । ओं भं मत्ताशयाय नमः । ओं भं महायोगिने नमः । ओं भं महाकर्मणे नमः । ओं भं महौषधाय नमः । ओं भं महर्षये नमः । ओं भं कपिलाचार्याय नमः । ओं भं मृगधाम्ने नमः । 460 ओं भं महालयाय नमः । ओं भं महानिधये नमः । ओं भं महाभूतये नमः । ओं भं महानीतये नमः । ओं भं महामतये नमः । ओं भं महाग्रहाय नमः । ओं भं महागन्त्रे नमः । ओं भं महाभूताय नमः । ओं भं अमृताय नमः । ओं भं यमाय नमः । ओं भं अमृतांशवे नमः । ओं भं अमृतवपुषे नमः । ओं भं मरीचये नमः । ओं भं मोहजालघ्ने नमः । ओं भं महातपसे नमः । ओं भं महाकायाय नमः । ओं भं मृगबाणार्पणाय नमः । ओं भं खलाय नमः । ओं भं महाबलाय नमः । ओं भं महीपाताय नमः । 480 ओं भं महायोगिने नमः । ओं भं महामनसे नमः । ओं भं महामायाय नमः । ओं भं महाशान्ताय नमः । ओं भं मतये नमः । ओं भं नादाय नमः । ओं भं महोत्सवाय नमः । ओं भं मात्सर्यविदे नमः । ओं भं महावीर्याय नमः । ओं भं महाशक्तये नमः । ओं भं महाद्युतये नमः । ओं भं उन्मत्तकीर्तिकृते नमः । ओं भं मत्ताय नमः । ओं भं मघवते नमः । ओं भं अमिताय नमः । ओं भं मतये नमः । ओं भं महाभोगाय नमः । ओं भं अमृताय नमः । ओं भं मन्त्राय नमः । ओं भं मङ्गलाय नमः । 500 ओं भं मङ्गलप्रियाय नमः । ओं भं अमोघदण्डाय नमः । ओं भं मध्यस्थाय नमः । ओं भं महेशाय नमः । ओं भं अमोघविक्रमाय नमः । ओं भं अमेयाय नमः । ओं भं अरिष्टमथनाय नमः । ओं भं मुकुन्दाय नमः । ओं भं सर्वपापघ्ने नमः । ओं भं मातामहाय नमः । ओं भं मातरिश्वने नमः । ओं भं मणिपूराय नमः । ओं भं महाशयाय नमः । ओं भं मदघ्ने नमः । ओं भं महागर्भाय नमः । ओं भं महाकल्पाय नमः । ओं भं महाधनुषे नमः । ओं भं मनसे नमः । ओं भं मनोमयाय नमः । ओं भं मानिने नमः । 520 ओं भं मेरुपद्याय नमः । ओं भं मृडाय नमः । ओं भं मनवे नमः । ओं भं महाशोभाय नमः । ओं भं महाज्ञानिने नमः । ओं भं महाकालाय नमः । ओं भं कलिप्रियाय नमः । ओं भं महावटवे नमः । ओं भं महात्यागिने नमः । ओं भं महाकोशाय नमः । ओं भं महागतये नमः । ओं भं शिखण्डिने नमः । ओं भं कवचिने नमः । ओं भं शूलिने नमः । ओं भं जटिने नमः । ओं भं मुण्डिने नमः । ओं भं कुण्डलिने नमः । ओं भं मेघमालिने नमः । ओं भं चक्रखड्गिने नमः । ओं भं मालिने नमः । 540 ओं भं मायाय नमः । ओं भं महामणये नमः । ओं भं महेष्वासाय नमः । ओं भं महानन्दाय नमः । ओं भं महाचाराय नमः । ओं भं महाभुजाय नमः । ओं भं मखकर्त्रे नमः । ओं भं मखध्वंसिने नमः । ओं भं मधुराय नमः । ओं भं मघवत्प्रियाय नमः । ओं भं ब्रह्मसृष्टये नमः । ओं भं ब्रह्मवीर्याय नमः । ओं भं बाणहस्ताय नमः । ओं भं अचलाय नमः । ओं भं बलिने नमः । ओं भं कीररूपाय नमः । ओं भं चलाय नमः । ओं भं उन्मादिने नमः । ओं भं ब्रह्मण्याय नमः । ओं भं ब्रह्मवर्चसाय नमः । 560 ओं भं बहुरूपाय नमः । ओं भं बहुमयाय नमः । ओं भं ब्रह्मविष्णुशिवात्मकाय नमः । ओं भं ब्रह्मगर्भाय नमः । ओं भं अक्षराय नमः । ओं भं दम्भाय नमः । ओं भं ब्रह्मज्योतिषे नमः । ओं भं बृहस्पतये नमः । ओं भं बीजबुद्धये नमः । ओं भं ब्रह्मचारिणे नमः । ओं भं ब्राह्मणाय नमः । ओं भं ब्राह्मणप्रियाय नमः । ओं भं युगादिकृते नमः । ओं भं युगावर्ताय नमः । ओं भं युगाध्यक्षाय नमः । ओं भं युगापघ्ने नमः । ओं भं यज्ञाय नमः । ओं भं यज्ञपतये नमः । ओं भं यज्वने नमः । ओं भं यज्ञाङ्गाय नमः । 580 ओं भं यज्ञवाहनाय नमः । ओं भं योगाचार्याय नमः । ओं भं योगिगम्याय नमः । ओं भं योगिने नमः । ओं भं योग्याय नमः । ओं भं योगविदे नमः । ओं भं योगाङ्गाय नमः । ओं भं योगहाराङ्गाय नमः । ओं भं यक्षाय नमः । ओं भं युक्तिमयाय नमः । ओं भं यमाय नमः । ओं भं रौद्राय नमः । ओं भं रौद्रर्षये नमः । ओं भं राहवे नमः । ओं भं रतिरत्नाय नमः । ओं भं रणप्रियाय नमः । ओं भं लोकबन्धवे नमः । ओं भं लोकनाथाय नमः । ओं भं लक्षयज्ञाय नमः । ओं भं लक्षणाय नमः । 600 ओं भं लोलमायाय नमः । ओं भं लोककर्त्रे नमः । ओं भं लोक्याय नमः । ओं भं लोलाय नमः । ओं भं लालिताय नमः । ओं भं शरभाय नमः । ओं भं वरदाय नमः । ओं भं वन्द्याय नमः । ओं भं विदुषे नमः । ओं भं विश्वस्मै नमः । ओं भं महेश्वराय नमः । ओं भं वेदान्तसारसन्दोहाय नमः । ओं भं वितताङ्गाय नमः । ओं भं विशारदाय नमः । ओं भं विश्वमूर्तये नमः । ओं भं वेदवेद्याय नमः । ओं भं वामदेवाय नमः । ओं भं विमोचकाय नमः । ओं भं विश्वरूपाय नमः । ओं भं विरूपाक्षाय नमः । 620 ओं भं वाणीशाय नमः । ओं भं हव्यवाहनाय नमः । ओं भं वृषाङ्गाय नमः । ओं भं विशालाक्षाय नमः । ओं भं विश्वदर्शिने नमः । ओं भं विलोचनाय नमः । ओं भं विशाखाय नमः । ओं भं विश्वसृजे नमः । ओं भं विश्वाय नमः । ओं भं विजितात्मने नमः । ओं भं अव्ययाय नमः । ओं भं पुंसे नमः । ओं भं व्याघ्रचर्मधृतये नमः । ओं भं व्यापिने नमः । ओं भं वाङ्मयैकनिधये नमः । ओं भं विभवे नमः । ओं भं वर्णाश्रमगुरवे नमः । ओं भं वर्णाय नमः । ओं भं वरदाय नमः । ओं भं वायुवाहनाय नमः । 640 ओं भं विश्वकर्मणे नमः । ओं भं विनीतात्मने नमः । ओं भं वेदशास्त्रार्थतत्वविदे नमः । ओं भं वसवे नमः । ओं भं वसुमनसे नमः । ओं भं पालाय नमः । ओं भं विरामाय नमः । ओं भं विद्रुमच्छवये नमः । ओं भं विमोचकाय नमः । ओं भं विजयाय नमः । ओं भं विशिष्टाय नमः । ओं भं वृषवाहनाय नमः । ओं भं विश्वेशाय नमः । ओं भं विविधाय नमः । ओं भं वादिने नमः । ओं भं वेदाङ्गाय नमः । ओं भं वेदविदे नमः । ओं भं मयाय नमः । ओं भं विश्वेश्वराय नमः । ओं भं वीरभद्राय नमः । 660 ओं भं वीरासीनाय नमः । ओं भं विधये नमः । ओं भं विराजे नमः । ओं भं व्यवसायाय नमः । ओं भं व्यवस्थानाय नमः । ओं भं वीरचूडामणये नमः । ओं भं विराजे नमः । ओं भं वालखिल्याय नमः । ओं भं विश्वदेहाय नमः । ओं भं विरामाय नमः । ओं भं वसुदाय नमः । ओं भं वसवे नमः । ओं भं विषेचनाय नमः । ओं भं वेदवेद्याय नमः । ओं भं वेदाय नमः । ओं भं वाचस्पतये नमः । ओं भं वशिने नमः । ओं भं विद्वत्तमाय नमः । ओं भं वित्तमयाय नमः । ओं भं विश्रुतये नमः । 680 ओं भं विमलोदयाय नमः । ओं भं वैवस्वताय नमः । ओं भं वसिष्ठाय नमः । ओं भं विभूतये नमः । ओं भं विगतज्वराय नमः । ओं भं विश्वहर्त्रे नमः । ओं भं विश्वमोदिने नमः । ओं भं विश्वामित्राय नमः । ओं भं द्विजेश्वराय नमः । ओं भं वीरोत्पत्तये नमः । ओं भं विश्वसहाय नमः । ओं भं विश्वावासाय नमः । ओं भं वसुश्रवसे नमः । ओं भं वज्रहस्ताय नमः । ओं भं वज्ररूपाय नमः । ओं भं विपाकाय नमः । ओं भं विश्वकारकाय नमः । ओं भं बृहदश्वाय नमः । ओं भं व्यालकल्पाय नमः । ओं भं विशल्याय नमः । 700 ओं भं लोकशल्यकृते नमः । ओं भं विरूपाय नमः । ओं भं विकृताय नमः । ओं भं वेगिने नमः । ओं भं विरिञ्चये नमः । ओं भं विष्टरश्रवसे नमः । ओं भं अव्यक्तलक्षणाय नमः । ओं भं अव्यक्ताय नमः । ओं भं व्यक्ताय नमः । ओं भं वैश्याय नमः । ओं भं विशाम्पतये नमः । ओं भं विबुधाग्रेसराय नमः । ओं भं वेदाय नमः । ओं भं विश्वगर्भाय नमः । ओं भं विचक्षणाय नमः । ओं भं विषमाक्षाय नमः । ओं भं विलोमाक्षाय नमः । ओं भं वृषदाय नमः । ओं भं वृषवर्द्धनाय नमः । ओं भं विविक्तदाय नमः । 720 ओं भं वसन्ताय नमः । ओं भं विवस्वते नमः । ओं भं वितमसे नमः । ओं भं तमसे नमः । ओं भं वेदवेद्याय नमः । ओं भं विश्वरूपाय नमः । ओं भं विविक्ताय नमः । ओं भं विश्वभाजनाय नमः । ओं भं विषयस्थाय नमः । ओं भं विविक्तस्थाय नमः । ओं भं विद्याराशये नमः । ओं भं पतिप्रियाय नमः । ओं भं शिवाय नमः । ओं भं शर्वाय नमः । ओं भं सदाचाराय नमः । ओं भं शम्भवे नमः । ओं भं ईशानाय नमः । ओं भं ईश्वराय नमः । ओं भं श्रुतिधर्मोक्तसंवादिने नमः । ओं भं सहस्राक्षाय नमः । 740 ओं भं सहस्रपादे नमः । ओं भं सर्वज्ञाय नमः । ओं भं सर्वदेवाय नमः । ओं भं शङ्कराय नमः । ओं भं शूलधारकाय नमः । ओं भं शुचये नमः । ओं भं राशये नमः । ओं भं स्कन्दगुरवे नमः । ओं भं श्रीकण्ठाय नमः । ओं भं सूर्यतापनाय नमः । ओं भं ईशाननिलयाय नमः । ओं भं स्वस्ति नमः । ओं भं सामवेदस्वरूपविदे नमः । ओं भं मानिने नमः । ओं भं सुनीतये नमः । ओं भं शुद्धात्मने नमः । ओं भं सोमाय नमः । ओं भं सोमेतराय नमः । ओं भं सुखिने नमः । ओं भं सदाशिवाय नमः । 760 ओं भं समावृत्ताय नमः । ओं भं सुकीर्तये नमः । ओं भं छिन्नसंशयाय नमः । ओं भं सर्वकामिने नमः । ओं भं सदावासाय नमः । ओं भं सर्वायुधविशारदाय नमः । ओं भं सुलभाय नमः । ओं भं सूदनाय नमः । ओं भं शुद्धाय नमः । ओं भं शुभांशवे नमः । ओं भं शुद्धविग्रहाय नमः । ओं भं सुवर्णाय नमः । ओं भं स्वाश्रयाय नमः । ओं भं शत्रवे नमः । ओं भं शत्रुजिते नमः । ओं भं शत्रुतापनाय नमः । ओं भं शनये नमः । ओं भं सूर्याय नमः । ओं भं सर्वकर्मणे नमः । ओं भं सर्वलोकप्रजापतये नमः । 780 ओं भं सिद्धाय नमः । ओं भं सर्वेश्वराय नमः । ओं भं स्वस्तये नमः । ओं भं स्वस्तिकृते नमः । ओं भं स्वस्तिभुजे नमः । ओं भं स्वधायै नमः । ओं भं वसवे नमः । ओं भं वसुमनसे नमः । ओं भं सत्याय नमः । ओं भं सर्वपापहराय नमः । ओं भं हराय नमः । ओं भं सर्वादये नमः । ओं भं सिद्धिदाय नमः । ओं भं सिद्धये नमः । ओं भं सर्वावासाय नमः । ओं भं चतुष्पथाय नमः । ओं भं संवत्सरकराय नमः । ओं भं श्रीमते नमः । ओं भं शान्ताय नमः । ओं भं संवत्सराय नमः । 800 ओं भं शिशवे नमः । ओं भं स्पष्टाक्षराय नमः । ओं भं सर्वहारिणे नमः । ओं भं सङ्ग्रामाय नमः । ओं भं सङ्गमाय नमः । ओं भं प्लवाय नमः । ओं भं इष्टाय नमः । ओं भं विशिष्टाय नमः । ओं भं शिष्टेष्टाय नमः । ओं भं सुलभाय नमः । ओं भं सुलभायनाय नमः । ओं भं सुब्रह्मण्याय नमः । ओं भं सुरगणाय नमः । ओं भं सुशरण्याय नमः । ओं भं सुधापतये नमः । ओं भं शरण्याय नमः । ओं भं शाश्वताय नमः । ओं भं स्कन्दाय नमः । ओं भं शिपिविष्टाय नमः । ओं भं शिवाश्रयाय नमः । 820 ओं भं संसारचक्रभृते नमः । ओं भं साराय नमः । ओं भं शङ्कराय नमः । ओं भं सर्वसाधकाय नमः । ओं भं अस्राय नमः । ओं भं शस्त्राय नमः । ओं भं सप्तगणाय नमः । ओं भं सवित्रे नमः । ओं भं सकलागमाय नमः । ओं भं सुचीराय नमः । ओं भं सप्तदोर्वीराय नमः । ओं भं षड्विंशाय नमः । ओं भं सर्वधृषे नमः । ओं भं स्वराजे नमः । ओं भं संराजे नमः । ओं भं सुषेणाय नमः । ओं भं शत्रुघ्नाय नमः । ओं भं शूरशत्रवे नमः । ओं भं शुभोदयाय नमः । ओं भं समर्थाय नमः । 840 ओं भं सुगमाय नमः । ओं भं शुक्राय नमः । ओं भं सद्योगिने नमः । ओं भं सदसन्मयाय नमः । ओं भं शास्रनेत्राय नमः । ओं भं सुखश्मश्रवे नमः । ओं भं स्वाधिष्ठानषडाश्रयाय नमः । ओं भं प्रांशवे नमः । ओं भं सप्तपतये नमः । ओं भं वृद्धाय नमः । ओं भं शमनाय नमः । ओं भं शिखिसारथये नमः । ओं भं सुप्रतीकाय नमः । ओं भं सुवृद्धात्मने नमः । ओं भं संसृष्टाय नमः । ओं भं सुखवाङ्निधये नमः । ओं भं सुखानिलाय नमः । ओं भं सुसम्पन्नाय नमः । ओं भं सुरभये नमः । ओं भं शिशिरात्मकाय नमः । 860 ओं भं सर्वदेवमयाय नमः । ओं भं शैलाय नमः । ओं भं सर्वशास्त्रप्रभञ्जनाय नमः । ओं भं शिवालयाय नमः । ओं भं सूर्यरूपाय नमः । ओं भं सहस्रमुखनाशकाय नमः । ओं भं सहस्रबाहवे नमः । ओं भं सर्वेशाय नमः । ओं भं सारमाय नमः । ओं भं सर्वलोकधृते नमः । ओं भं दूत्यंशाय नमः । ओं भं सुरसेव्यांशाय नमः । ओं भं सर्वदेवोत्तमोत्तमाय नमः । ओं भं शिवध्यानरताय नमः । ओं भं श्रीमते नमः । ओं भं शिखिने नमः । ओं भं श्रीचण्डिकाधिपाय नमः । ओं भं श्मशाननिलयाय नमः । ओं भं सेतवे नमः । ओं भं सर्वदेवाय नमः । 880 ओं भं महेश्वराय नमः । ओं भं सुविष्टपिने नमः । ओं भं सुराराध्याय नमः । ओं भं सुकुमाराय नमः । ओं भं सुलोचनाय नमः । ओं भं सकलाय नमः । ओं भं सुमताय नमः । ओं भं स्वर्णाय नमः । ओं भं स्वर्मिणे नमः । ओं भं स्वरमथनाय नमः । ओं भं स्वनाय नमः । ओं भं सामगाय नमः । ओं भं सकलाधाराय नमः । ओं भं सामगानप्रियाय नमः । ओं भं शुचये नमः । ओं भं तस्मै नमः । ओं भं ईतये नमः । ओं भं सत्कृताय नमः । ओं भं शान्ताय नमः । ओं भं सुभूमये नमः । 900 ओं भं सत्परायणाय नमः । ओं भं श्रीवल्लभाय नमः । ओं भं शिवारम्भाय नमः । ओं भं शान्तभद्राय नमः । ओं भं समञ्जसाय नमः । ओं भं सत्यवाचे नमः । ओं भं सात्विकाय नमः । ओं भं सत्याय नमः । ओं भं सर्वजिते नमः । ओं भं श्रुतिसागराय नमः । ओं भं सहस्रार्चिषे नमः । ओं भं सदाजिष्णवे नमः । ओं भं सप्तये नमः । ओं भं सप्तजनेश्वराय नमः । ओं भं संहारकारणाय नमः । ओं भं शुद्धाय नमः । ओं भं शत्रुघ्नाय नमः । ओं भं स्वर्णदायकाय नमः । ओं भं सुरेशाय नमः । ओं भं शरणाय नमः । 920 ओं भं शर्मणे नमः । ओं भं सर्वस्मै नमः । ओं भं वेदाय नमः । ओं भं सताङ्गतये नमः । ओं भं संवृताय नमः । ओं भं असंवृताय नमः । ओं भं शिल्पिने नमः । ओं भं सिद्धिदाय नमः । ओं भं स्वर्णसिद्धिदाय नमः । ओं भं शान्तबुद्धये नमः । ओं भं शुद्धबुद्धये नमः । ओं भं स्तव्याय नमः । ओं भं स्तोत्रे नमः । ओं भं स्तवप्रियाय नमः । ओं भं रसज्ञाय नमः । ओं भं स्वर्णरूपाय नमः । ओं भं शुद्धये नमः । ओं भं राज्ञे नमः । ओं भं वषट् नमः । ओं भं नमो नमः । 940 ओं भं स्थूलाय नमः । ओं भं सूक्ष्माय नमः । ओं भं सहस्रार्कप्रकाशाय नमः । ओं भं सर्वतोमुखाय नमः । ओं भं सारमेयानुगाय नमः । ओं भं शम्भवे नमः । ओं भं प्रेतवाहाय नमः । ओं भं सहस्रकृते नमः । ओं भं ग्रहात्मकाय नमः । ओं भं रुद्ररूपाय नमः । ओं भं वस्वष्टस्वर्णकृते नमः । ओं भं वशिने नमः । ओं भं आदित्याय नमः । ओं भं सर्वकर्त्रे नमः । ओं भं सर्वगाय नमः । ओं भं स्वर्णसिद्धिदाय नमः । ओं भं सदारुष्टाय नमः । ओं भं स्वर्णदात्रे नमः । ओं भं घुर्घुराय नमः । ओं भं रक्तलोचनाय नमः । 960 ओं भं पादुकासिद्धिदाय नमः । ओं भं पाताय नमः । ओं भं पारुष्यविनिषूदनाय नमः । ओं भं अष्टसिद्धिये नमः । ओं भं महासिद्धये नमः । ओं भं सुप्रसिद्धये नमः । ओं भं स्वर्णदाय नमः । ओं भं भूतवेतालघातिने नमः । ओं भं वेतालानुचराय नमः । ओं भं रवये नमः । ओं भं कालाय नमः । ओं भं कालाग्निरुद्रश्रिये नमः । ओं भं स्वर्णाकर्षणभैरवाय नमः । ओं भं कालमालाय नमः । ओं भं कलामालाय नमः । ओं भं त्र्यम्बकाय नमः । ओं भं त्रिपुरान्तकाय नमः । ओं भं सर्वाभिचारहन्त्रे नमः । ओं भं परकृत्यनिषूदनाय नमः । ओं भं मन्त्रमालिने नमः । 980 ओं भं सर्पमालिने नमः । ओं भं स्वर्णाकर्षण भैरवाय नमः । ओं भं श्रीधराय नमः । ओं भं श्रीकराय नमः । ओं भं श्रीलाय नमः । ओं भं श्रीनिवासाय नमः । ओं भं सदाशिवाय नमः । ओं भं श्रीस्वरूपाकृतये नमः । ओं भं श्रीमते नमः । ओं भं श्रीहराय नमः । ओं भं श्रीमुखाय नमः । ओं भं शिवाय नमः । ओं भं श्रीशान्ताय नमः । ओं भं श्रीवराहाय नमः । ओं भं श्रीनिवासाय नमः । ओं भं श्रियांवराय नमः । ओं भं स्वर्णदाय नमः । ओं भं सिद्धिदाय नमः । ओं भं सिद्धाय नमः । ओं भं भक्तानां स्वर्णदायकाय नमः । 1000 इति श्री काल भैरव सहस्रनामावलिः ॥

Recite with devotion and pure heart

Regular practice brings spiritual benefits