हैंदवम्
हैं
హై
हैंदवम्
ஹி
હિં
English
हिंदी
മലയാളം
తెలుగు
தமிழ்
ಕನ್ನಡ
📍
𖦏
Auto Detect Location
Font Size:
a
a
a
सूर्योपनिषद्
ओं
भ॒द्रं
कर्णे॑भिः
शृणु॒याम॑
देवाः
।
भ॒द्रं
प॑श्येमा॒क्षभि॒र्यज॑त्राः
।
स्थि॒रैरंगै᳚स्तुष्टु॒वाग्ं
स॑स्त॒नूभिः॑
।
व्यशे॑म
दे॒वहि॑तं॒-यँदायुः॑
।
स्व॒स्ति
न॒
इंद्रो॑
वृ॒द्धश्र॑वाः
।
स्व॒स्ति
नः॑
पू॒षा
वि॒श्ववे॑दाः
।
स्व॒स्ति
न॒स्तार्क्ष्यो॒
अरि॑ष्टनेमिः
।
स्व॒स्ति
नो॒
बृह॒स्पति॑र्दधातु
।
ओं
शांतिः॒
शांतिः॒
शांतिः॑
॥
ओं
अथ
सूर्याथर्वांगिरसं-व्याँ᳚ख्यास्या॒मः
।
ब्रह्मा
ऋ॒षिः
।
गाय॑त्री
छं॒दः
।
आदि॑त्यो
दे॒वता
।
हंसः॑
सो॒ऽहमग्निनारायण
यु॑क्तं
बी॒जम्
।
हृल्ले॑खा
श॒क्तिः
।
वियदादिसर्गसंयुँ॑क्तं
की॒लकम्
।
चतुर्विधपुरुषार्थ
सिद्ध्यर्थे
वि॑नियो॒गः
।
षट्स्वरारूढे॑न
बीजे॒न
षडं॑गं
र॒क्तांबु॑जसंस्थि॒तं
सप्ताश्व॑रथि॒नं
हिर॑ण्यव॒र्णं
च॑तुर्भु॒जं
पद्मद्वयाऽभयवर॑दह॒स्तं
कालचक्र॑प्रणेता॒रं
श्रीसूर्यनाराय॒णं-यँ
ए॑वं-वेँ॒द
स
वै
ब्रा᳚ह्म॒णः
।
ओं
भूर्भुवः॒
सुवः॑
।
तत्स॑वि॒तुर्वरे᳚ण्यं॒
भर्गो॑
दे॒वस्य॑
धीमहि
।
धियो॒
यो
नः॑
प्रचो॒दया᳚त्
।
सूर्य॑
आ॒त्मा
जग॑तस्त॒स्थुष॑श्च
।
सूर्या॒द्वै
खल्वि॒मानि॒
भूता॑नि॒
जायं॑ते
।
सूर्या᳚द्य॒ज्ञः
पर्जन्यो᳚ऽन्नमा॒त्मा
।
नम॑स्ते
आदित्य
।
त्वमे॒व
प्र॒त्यक्षं॒
कर्म॑
कर्तासि
।
त्वमे॒व
प्र॒त्यक्षं॒
ब्रह्मा॑ऽसि
।
त्वमे॒व
प्र॒त्यक्षं॒-विँष्णु॑रसि
।
त्वमे॒व
प्र॒त्यक्षं॒
रुद्रो॑ऽसि
।
त्वमे॒व
प्र॒त्यक्ष॒मृग॑सि
।
त्वमे॒व
प्र॒त्यक्षं॒-यँजु॑रसि
।
त्वमे॒व
प्र॒त्यक्षं॒
सामा॑सि
।
त्वमे॒व
प्र॒त्यक्ष॒मथ॑र्वासि
।
त्वमे॒व
सर्वं॑
छंदो॒ऽसि
।
आ॒दि॒त्याद्वा॑युर्जा॒यते
।
आ॒दि॒त्याद्भू॑मिर्जा॒यते
।
आ॒दि॒त्यादापो॑
जायं॒ते
।
आ॒दि॒त्याज्ज्योति॑र्जाय॒ते
।
आ॒दि॒त्याद्व्योम
दिशो॑
जायं॒ते
।
आ॒दि॒त्याद्दे॑वा
जायं॒ते
।
आ॒दि॒त्याद्वे॑दा
जायं॒ते
।
आ॒दि॒त्यो
वा
ए॒ष
ए॒तन्मं॒डलं॒
तप॑ति
।
अ॒सावा॑दि॒त्यो
ब्र॒ह्मा
।
आ॒दि॒त्योऽंतःकरण
मनोबुद्धि
चित्ता॑हंका॒राः
।
आ॒दि॒त्यो
वै
व्यानः
समानोदानोऽपा॑नः
प्रा॒णः
।
आ॒दि॒त्यो
वै
श्रोत्र
त्वक्
चक्षूरस॑नघ्रा॒णाः
।
आ॒दि॒त्यो
वै
वाक्पाणिपादपा॑यूप॒स्थाः
।
आ॒दि॒त्यो
वै
शब्दस्पर्शरूपर॑सगं॒धाः
।
आ॒दि॒त्यो
वै
वचनादानागमन
विस॑र्गानं॒दाः
।
आनंदमयो
विज्ञानमयो
विज्ञानघन॑
आदि॒त्यः
।
नमो
मित्राय
भानवे
मृत्यो᳚र्मा
पा॒हि
।
भ्राजिष्णवे
विश्वहेत॑वे
न॒मः
।
सूर्याद्भवंति॑
भूता॒नि
सूर्येण
पालि॑तानि॒
तु
।
सूर्ये
लयं
प्रा᳚प्नुवं॒ति
यः
सूर्यः
सोऽह॑मेव॒
च
।
चक्षु॑र्नो
दे॒वः
स॑वि॒ता
चक्षु॑र्न
उ॒त
प॒र्वतः॑
।
चक्षु॑र्धा॒ता
द॑धातु
नः
।
आ॒दि॒त्याय॑
वि॒द्महे॑
सहस्रकिर॒णाय॑
धीमहि
।
तन्नः॑
सूर्यः
प्रचो॒दया᳚त्
।
स॒वि॒ता
प॒श्चात्ता᳚त्
सवि॒ता
पु॒रस्ता᳚त्
सवि॒तोत्त॒रात्ता᳚त्
सवि॒ताऽध॒रात्ता᳚त्
सवि॒ता
नः॑
सुवतु
स॒र्वता᳚तिग्ं
सवि॒ता
नो᳚
रासतां
दीर्घ॒मायुः॑
।
ओमित्येकाक्ष॑रं
ब्र॒ह्म
।
घृणि॒रिति॒
द्वे
अ॒क्षरे᳚
।
सूर्य॒
इत्यक्ष॑रद्व॒यम्
।
आ॒दि॒त्य
इति॒
त्रीण्यक्ष॑राणि
।
एतस्यैव
सूर्यस्याष्टाक्ष॑रो
म॒नुः
।
यः
सदाहरह॑र्जप॒ति
स
वै
ब्राह्म॑णो
भ॒वति
स
वै
ब्राह्म॑णो
भ॒वति
।
सूर्याभिमु॑खो
ज॒प्त्वा
महाव्याधि
भया᳚त्
प्रमु॒च्यते
।
अल॑क्ष्मीर्न॒श्यति
।
अभक्ष्य
भक्षणात्
पू॑तो
भ॒वति
।
अगम्यागमनात्
पू॑तो
भ॒वति
।
पतित
संभाषणात्
पू॑तो
भ॒वति
।
असत्
संभाषणात्
पू॑तो
भ॒वति
।
असत्
संभाषणात्पू॑तो
भ॒वति
।
मध्याह्ने
सूर्याभि॑मुखः
प॒ठेत्
।
सद्योत्पन्नपंचमहापातका᳚त्
प्रमु॒च्यते
।
सैषा
सावि॑त्रीं-विँ॒द्यां
न
किंचिदपि
न
कस्मैचि॑त्
प्रशं॒सयेत्
।
य
ए॒तां
महाभागः
प्रा॑तः
प॒ठति
स
भाग्य॑वान्
जा॒यते
प॑शून्विं॒दति
।
वेदा᳚र्थं-लँ॒भते
।
त्रिकालमे॑तज्ज॒प्त्वा
क्रतुशतफलम॑वाप्नो॒ति
।
हस्तादि॑त्ये
ज॒पति
स
महामृ॑त्युं
त॒रति
स
महामृ॑त्युं
त॒रति
य
ए॑वं-वेँ॒द
।
इत्यु॑प॒निष॑त्
।
ओं
भ॒द्रं
कर्णे॑भिः
शृणु॒याम॑
देवाः
।
भ॒द्रं
प॑श्येमा॒क्षभि॒र्यज॑त्राः
।
स्थि॒रैरंगै᳚स्तुष्टु॒वाग्ं
स॑स्त॒नूभिः॑
।
व्यशे॑म
दे॒वहि॑तं॒-यँदायुः॑
।
स्व॒स्ति
न॒
इंद्रो॑
वृ॒द्धश्र॑वाः
।
स्व॒स्ति
नः॑
पू॒षा
वि॒श्ववे॑दाः
।
स्व॒स्ति
न॒स्तार्क्ष्यो॒
अरि॑ष्टनेमिः
।
स्व॒स्ति
नो॒
बृह॒स्पति॑र्दधातु
।
ओं
शांतिः॒
शांतिः॒
शांतिः॑
॥