हैंदवम्
हैं
హై
हैंदवम्
ஹி
હિં
English
हिंदी
മലയാളം
తెలుగు
தமிழ்
ಕನ್ನಡ
📍
𖦏
Auto Detect Location
Font Size:
a
a
a
सूर्य सूक्तम्
नमो॑
मि॒त्रस्य॒
वरु॑णस्य॒
चक्ष॑से
म॒हो
दे॒वाय॒
तदृ॒तं
स॑पर्यत
।
दू॒रे॒दृशे॑
दे॒वजा॑ताय
के॒तवे॑
दि॒वस्पु॒त्राय॒
सू॒र्या॑य
शंसत
॥
1
सा
मा॑
स॒त्योक्तिः॒
परि॑
पातु
वि॒श्वतो॒
द्यावा॑
च॒
यत्र॑
त॒तन॒न्नहा॑नि
च
।
विश्व॑म॒न्यन्नि
वि॑शते॒
यदेज॑ति
वि॒श्वाहापो॑
वि॒श्वाहोदे॑ति॒
सूर्यः॑
॥
2
न
ते॒
अदे॑वः
प्र॒दिवो॒
नि
वा॑सते॒
यदे॑त॒शेभिः॑
पत॒रै
र॑थ॒र्यसि॑
।
प्रा॒चीन॑म॒न्यदनु॑
वर्तते॒
रज॒
उद॒न्येन॒
ज्याति॑षा
यासि
सूर्य
॥
3
येन॑
सूर्य॒
ज्योति॑षा॒
बाध॑से॒
तमो॒
जग॑च्च॒
विश्व॑मुदि॒यर्षि॑
भा॒नुना॑
।
तेना॒स्मद्विश्वा॒मनि॑रा॒मना॑हुति॒मपामी॑वा॒मप॑
दु॒ष्ष्वप्न्यं॑
सुव
॥
4
विश्व॑स्य॒
हि
प्रेषि॑तो॒
रक्ष॑सि
व्र॒तमहे॑लयन्नु॒च्चर॑सि
स्व॒धा
अनु॑
।
यद॒द्य
त्वा॑
सूर्योप॒ब्रवा॑महै॒
त-न्नो॑
दे॒वा
अनु॑
मंसीरत॒
क्रतु॑म्
॥
5
त-न्नो॒
द्यावा॑पृथि॒वी
तन्न॒
आप॒
इन्द्रः॑
शृण्वन्तु
म॒रुतो॒
हवं॒-वँचः॑
।
मा
शूने॑
भूम॒
सूर्य॑स्य
स॒न्दृशि॑
भ॒द्र-ञ्जीव॑न्तो
जर॒णाम॑शीमहि
॥
6
वि॒श्वाहा॑
त्वा
सु॒मन॑स-स्सु॒चक्ष॑सः
प्र॒जाव॑न्तो
अनमी॒वा
अना॑गसः
।
उ॒द्यन्त॑-न्त्वा
मित्रमहो
दि॒वेदि॑वे॒
ज्योग्जी॒वाः
प्रति॑
पश्येम
सूर्य
॥
7
महि॒
ज्योति॒र्बिभ्र॑त-न्त्वा
विचक्षण॒
भास्व॑न्त॒-ञ्चक्षु॑षेचक्षुषे॒
मयः॑
।
आ॒रोह॑न्त-म्बृह॒तः
पाज॑स॒स्परि॑
व॒य-ञ्जी॒वाः
प्रति॑
पश्येम
सूर्य
॥
8
यस्य॑
ते॒
विश्वा॒
भुव॑नानि
के॒तुना॒
प्र
चेर॑ते॒
नि
च॑
वि॒शन्ते॑
अ॒क्तुभिः॑
।
अ॒ना॒गा॒स्त्वेन॑
हरिकेश
सू॒र्याह्ना॑ह्ना
नो॒
वस्य॑सावस्य॒सोदि॑हि
॥
9
श-न्नो॑
भव॒
चक्ष॑सा॒
श-न्नो॒
अह्ना॒
श-म्भा॒नुना॒
शं
हि॒मा
श-ङ्घृणेन॑
।
यथा॒
शमध्व॒ञ्छमस॑द्दुरो॒णे
तत्सू॑र्य॒
द्रवि॑ण-न्धेहि
चि॒त्रम्
॥
10
अ॒स्माक॑-न्देवा
उ॒भया॑य॒
जन्म॑ने॒
शर्म॑
यच्छत
द्वि॒पदे॒
चतु॑ष्पदे
।
अ॒दत्पिब॑दू॒र्जय॑मान॒माशि॑त॒-न्तद॒स्मे
शं-योँर॑र॒पो
द॑धातन
॥
11
यद्वो॑
देवाश्चकृ॒म
जि॒ह्वया॑
गु॒रु
मन॑सो
वा॒
प्रयु॑ती
देव॒हेल॑नम्
।
अरा॑वा॒
यो
नो॑
अ॒भि
दु॑च्छुना॒यते॒
तस्मि॒न्तदेनो॑
वसवो॒
नि
धे॑तन
॥
12
ओं
शान्ति॒-श्शान्ति॒-श्शान्तिः॑
।