हैंदवम्
हैं
హై
हैंदवम्
ஹி
હિં
English
हिंदी
മലയാളം
తెలుగు
தமிழ்
ಕನ್ನಡ
📍
𖦏
Auto Detect Location
Font Size:
a
a
a
रात्रि सूक्तम्
अस्य
श्री
रात्रीति
सूक्तस्य
कुशिक
ऋषिः
रात्रिर्देवता,
गायत्रीच्छंदः,
श्रीजगदंबा
प्रीत्यर्थे
सप्तशतीपाठादौ
जपे
विनियोगः
।
रात्री॒
व्य॑ख्यदाय॒ती
पु॑रु॒त्रा
दे॒व्य॒1॑क्षभिः॑
।
विश्वा॒
अधि॒
श्रियो॑ऽधित
॥
1
ओर्व॑प्रा॒
अम॑र्त्या
नि॒वतो॑
दे॒व्यु॒1॑द्वतः॑
।
ज्योति॑षा
बाधते॒
तमः॑
॥
2
निरु॒
स्वसा॑रमस्कृतो॒षसं॑
दे॒व्या॑य॒ती
।
अपेदु॑
हासते॒
तमः॑
॥
3
सा
नो॑
अ॒द्य
यस्या॑
व॒यं
नि
ते॒
याम॒न्नवि॑क्ष्महि
।
वृ॒क्षे
न
व॑स॒तिं-वँयः॑
॥
4
नि
ग्रामा॑सो
अविक्षत॒
नि
प॒द्वंतो॒
नि
प॒क्षिणः॑
।
नि
श्ये॒नास॑श्चिद॒र्थिनः॑
॥
5
या॒वया॑
वृ॒क्यं॒1॑
वृकं॑-यँ॒वय॑
स्ते॒नमू॑र्म्ये
।
अथा॑
नः
सु॒तरा॑
भव
॥
6
उप॑
मा॒
पेपि॑श॒त्तमः॑
कृ॒ष्णं-व्यँ॑क्तमस्थित
।
उष॑
ऋ॒णेव॑
यातय
॥
7
उप॑
ते॒
गा
इ॒वाक॑रं-वृँणी॒ष्व
दु॑हितर्दिवः
।
रात्रि॒
स्तोमं॒
न
जि॒ग्युषे॑
॥
8