हैंदवम्
हैं
హై
हैंदवम्
ஹி
હિં
English
हिंदी
മലയാളം
తెలుగు
தமிழ்
ಕನ್ನಡ
📍
𖦏
Auto Detect Location
Font Size:
a
a
a
ईशोपनिषद्
ओं
पूर्ण॒मदः॒
पूर्ण॒मिदं॒
पूर्णा॒त्पूर्ण॒मुद॒च्यते
।
पूर्ण॒स्य
पूर्ण॒मादा॒य
पूर्ण॒मेवावशि॒ष्यते
॥
ओं
शांतिः॒
शांतिः॒
शांतिः॑
॥
ओं
ई॒शा
वा॒स्य॑मि॒दग्ं
सर्वं॒-यँत्किंच॒
जग॑त्वां॒
जग॑त्
।
तेन॑
त्य॒क्तेन॑
भुंजीथा॒
मा
गृ॑धः॒
कस्य॑स्वि॒द्धनम्᳚
॥
1
॥
कु॒र्वन्ने॒वेह
कर्मा᳚णि
जिजीवि॒षेच्च॒तग्ं
समाः᳚
।
ए॒वं
त्वयि॒
नान्यथे॒तो᳚ऽस्ति॒
न
कर्म॑
लिप्यते॑
नरे᳚
॥
2
॥
अ॒सु॒र्या॒
नाम॒
ते
लो॒का
अं॒धेन॒
तम॒साऽऽवृ॑ताः
।
ताग्ंस्ते
प्रेत्या॒भिग॑च्छंति॒
ये
के
चा᳚त्म॒हनो॒
जनाः᳚
॥
3
॥
अने᳚ज॒देकं॒
मन॑सो॒
जवी᳚यो॒
नैन॑द्दे॒वा
आ᳚प्नुव॒न्पूर्व॒मर्ष॑त्
।
तद्धाव॑तो॒ऽन्यानत्ये᳚ति॒
तिष्ठ॒त्तस्मिन्᳚न॒पो
मा᳚त॒रिश्वा᳚
दधाति
॥
4
॥
तदे᳚जति॒
तन्नेज॑ति॒
तद्दू॒रे
तद्वं॑ति॒के
।
तदं॒तर॑स्य॒
सर्व॑स्य॒
तदु॒
सर्व॑स्यास्य
बाह्य॒तः
॥
5
॥
यस्तु
सर्वा᳚णि
भू॒तान्या॒त्मन्ये॒वानु॒पश्य॑ति
।
स॒र्व॒भू॒तेषु॑
चा॒त्मानं॒
ततो॒
न
विहु॑गुप्सते
॥
6
॥
यस्मि॒न्सर्वा᳚णि
भू॒तान्या॒त्मैवाभू᳚द्विजान॒तः
।
तत्र॒
को
मोहः॒
कः
शोकः॑
एक॒त्वम॑नु॒पश्य॑तः
॥
7
॥
स
पर्य॑गाच्चु॒क्रम॑का॒यम॑प्रण॒म॑स्नावि॒रग्ं
शु॒द्धमपा᳚पविद्धम्
।
क॒विर्म॑नी॒षी
प॑रि॒भूः
स्व॑यं॒भू-र्या᳚थातथ्य॒तोऽर्था॒न्
व्य॑दधाच्छाश्व॒तीभ्यः॒
समा᳚भ्यः
॥
8
॥
अं॒धं
तमः॒
प्रवि॑शंति॒
येऽवि॑द्यामु॒पास॑ते
।
ततो॒
भूय॑
इव॒
ते
तमो॒
य
उ॑
वि॒द्याया᳚ग्ं
र॒ताः
॥
9
॥
अ॒न्यदे॒वायुरि॒द्यया॒ऽन्यदा᳚हु॒रवि॑द्यया
।
इति॑
शुशुम॒
धीरा᳚णां॒-येँ
न॒स्तद्वि॑चचक्षि॒रे
॥
10
॥
वि॒द्यां
चावि॑द्यां
च॒
यस्तद्वेदो॒भय॑ग्ं
स॒ह
।
अवि॑द्यया
मृ॒त्युं
ती॒र्त्वा
वि॒द्ययाऽमृत॑मश्नुते
॥
11
॥
अं॒धं
तमः॒
प्रवि॑शंति॒
येऽसम्᳚भूतिमु॒पास॑ते
।
ततो॒
भूय॑
इव॒
ते
तमो॒
य
उ॒
संभू᳚त्याग्ं
र॒ताः
॥
12
॥
अ॒न्यदे॒वाहुः
सम्᳚भ॒वाद॒न्यदा᳚हु॒रसम्᳚भवात्
।
इति॑
शुश्रुम॒
धीरा᳚णां॒-येँ
न॒स्तद्वि॑चचक्षि॒रे
॥
13
॥
संभू᳚तिं
च
विणा॒शं
च॒
यस्तद्वेदो॒भय॑ग्ं
स॒ह
।
वि॒ना॒शेन॑
मृ॒त्युं
ती॒र्त्वा
संभू᳚त्या॒ऽमृत॑मश्नुते
॥
14
॥
हि॒र॒ण्मये᳚न॒
पात्रे᳚ण
स॒त्यस्यापि॑हितं॒
मुखम्᳚
।
तत्वं
पू᳚ष॒न्नपावृ॑णु
स॒त्यध᳚र्माय
दृ॒ष्टये᳚
॥
15
॥
पूष॑न्नेकर्षे
यम
सूर्य॒
प्राजा᳚पत्य॒
व्यू᳚ह
र॒श्मीन्
समू᳚ह॒
तेजो॒
यत्ते᳚
रू॒पं
कल्या᳚णतमं॒
तत्ते᳚
पश्यामि
।
यो॒ऽसाव॒सौ
पुरु॑षः॒
सो॒ऽहम॑स्मि
॥
16
॥
वा॒युरनि॑लम॒मृत॒मथेदं
भस्मां᳚त॒ग्ं॒
शरी॑रम्
।
ओं
3
क्रतो॒
स्मर॑
कृ॒तग्ं
स्म॑र॒
क्रतो॒
स्मर॑
कृ॒तग्ं
स्म॑र
॥
17
॥
अग्ने॒
नय॑
सु॒पथा᳚
रा॒ये
अ॒स्मान्
विश्वा॑नि
देव
व॒यना॑नि
वि॒द्वान्
।
यु॒यो॒ध्य॒स्मज्जु॑हुरा॒णमेनो॒
भूयि॑ष्टां
ते॒
नम॑उक्तिं-विँधेम
॥
18
॥
ओं
पूर्ण॒मदः॒
पूर्ण॒मिदं॒
पूर्णा॒त्पूर्ण॒मुद॒च्यते
।
पूर्ण॒स्य
पूर्ण॒मादा॒य
पूर्ण॒मेवावशि॒ष्यते
॥
ओं
शांतिः॒
शांतिः॒
शांतिः॑
॥