हैंदवम्
हैं
హై
हैंदवम्
ஹி
હિં
English
हिंदी
മലയാളം
తెలుగు
தமிழ்
ಕನ್ನಡ
📍
𖦏
Auto Detect Location
Font Size:
a
a
a
हेरंबोपनिषत्
ओं
सह
नाववतु
।
सह
नौ
भुनक्तु
।
सह
वीर्यं
करवावहै
।
तेजस्विनावधीतमस्तु
मा
विद्विषावहै
।
ओं
शान्तिः
शान्तिः
शान्तिः
॥
अथातो
हेरंबोपनिषदं
व्याख्यास्यामः
।
गौरी
सा
सर्वमङ्गला
सर्वज्ञं
परिसमेत्योवाच
।
अधीहि
भगवन्नात्मविद्यां
प्रशस्तां
यया
जन्तुर्मुच्यते
मायया
च
।
यतो
दुःखाद्विमुक्तो
याति
लोकं
परं
शुभ्रं
केवलं
सात्त्विकं
च
॥
1
॥
तां
वै
स
होवाच
महानुकम्पासिन्धुर्बन्धुभुवनस्य
गोप्ता
।
श्रद्धस्वैतद्गौरी
सर्वात्मना
त्वं
मा
ते
भूयः
संशयोऽस्मिन्
कदाचित्
॥
2
॥
हेरंबतत्त्वे
परमात्मसारे
नो
वै
योगान्नैव
तपोबलेन
।
नैवायुधप्रभावतो
महेशि
दग्धं
पुरा
त्रिपुरं
दैवयोगात्
॥
3
॥
तस्यापि
हेरंबगुरोः
प्रसादाद्यथा
विरिञ्चिर्गरुडो
मुकुन्दः
।
देवस्य
यस्यैव
बलेन
भूयः
स्वं
स्वं
हितं
प्राप्य
सुखेन
सर्वम्
॥
4
॥
मोदन्ते
स्वे
स्वे
पदे
पुण्यलब्धे
सवैर्देवैः
पूजनीयो
गणेशः
।
प्रभुः
प्रभूणामपि
विघ्नराजः
सिन्दूरवर्णः
पुरुषः
पुराणः
॥
5
॥
लक्ष्मीसहायोऽद्वयकुञ्जराकृतिश्चतुर्भुजश्चन्द्रकलाकलापः
।
मायाशरीरो
मधुरस्वभावस्तस्य
ध्यानात्
पूजनात्तत्स्वभावाः
॥
6
॥
संसारपारं
मुनयोऽपि
यान्ति
स
वा
ब्रह्मा
स
प्रजेशो
हरिः
सः
।
इन्द्रः
स
चन्द्रः
परमः
परात्मा
स
एव
सर्वो
भुवनस्य
साक्षी
॥
7
॥
स
सर्वलोकस्य
शुभाशुभस्य
तं
वै
ज्ञात्वा
मृत्युमत्येति
जन्तुः
।
नान्यः
पन्था
दुःखविमुक्तिहेतुः
सर्वेषु
भूतेषु
गणेशमेकम्
॥
8
॥
विज्ञाय
तं
मृत्युमुखात्
प्रमुच्यते
स
एवमास्थाय
शरीरमेकम्
।
मायामयं
मोहयतीव
सर्वं
स
प्रत्यहं
कुरुते
कर्मकाले
॥
9
॥
स
एव
कर्माणि
करोति
देवो
ह्येको
गणेशो
बहुधा
निविष्टः
।
स
पूजितः
सन्
सुमुखोऽभिभूत्वा
दन्तीमुखोऽभीष्टमनन्तशक्तिः
॥
10
॥
स
वै
बलं
बलिनामग्रगण्यः
पुण्यः
शरण्यः
सकलस्य
जन्तोः
।
तमेकदन्तं
गजवक्त्रमीशं
विज्ञाय
दुःखान्तमुपैति
सद्यः
॥
11
॥
लंबोदरोऽहं
पुरुषोत्तमोऽहं
विघ्नान्तकोऽहं
विजयात्मकोऽहम्
।
नागाननोऽहं
नमतां
सुसिद्धः
स्कन्दाग्रगण्यो
निखिलोऽहमस्मि
॥
12
॥
न
मेऽन्तरायो
न
च
कर्मलोपो
न
पुण्यपापे
मम
तन्मयस्य
।
एवं
विदित्वा
गणनाथतत्त्वं
निरन्तरायं
निजबोधबीजम्
॥
13
॥
क्षेमङ्करं
सन्ततसौख्यहेतुं
प्रयान्ति
शुद्धं
गणनाथतत्त्वम्
।
विद्यामिमां
प्राप्य
गौरी
महेशादभीष्टसिद्धिं
समवाप
सद्यः
।
पूज्या
परा
सा
च
जजाप
मन्त्रं
शंभुं
पतिं
प्राप्य
मुदं
ह्यवाप
॥
14
॥
य
इमां
हेरंबोपनिषदमधीते
स
सर्वान्
कामान्
लभते
।
स
सर्वपापैर्मुक्तो
भवति
।
स
सर्वैर्वेदैर्ज्ञातो
भवति
।
स
सर्वैर्देवैः
पूजितो
भवति
।
स
सर्ववेदपारायणफलं
लभते
।
स
गणेशसायुज्यमवाप्नोति
य
एवं
वेद
।
इत्युपनिषत्
।
ओं
सह
नाववतु
।
सह
नौ
भुनक्तु
।
सह
वीर्यं
करवावहै
।
तेजस्विनावधीतमस्तु
मा
विद्विषावहै
।
ओं
शान्तिः
शान्तिः
शान्तिः
॥