हैंदवम्
हैं
హై
हैंदवम्
ஹி
હિં
English
हिंदी
മലയാളം
తెలుగు
தமிழ்
ಕನ್ನಡ
📍
𖦏
Auto Detect Location
Font Size:
a
a
a
ब्रह्मणस्पति सूक्तम्
(ऋ.वे.2.23.1)
ग॒णानां᳚
त्वा
ग॒णप॑तिं
हवामहे
क॒विं
क॑वी॒नामु॑प॒मश्र॑वस्तमम्
।
ज्ये॒ष्ठ॒राजं॒
ब्रह्म॑णां
ब्रह्मणस्पत॒
आ
न॑:
शृ॒ण्वन्नू॒तिभि॑:
सीद॒
साद॑नम्
॥
(ऋ.वे.1.18.1)
सो॒मानं॒
स्वर॑णं
कृणु॒हि
ब्र᳚ह्मणस्पते
।
क॒क्षीव॑न्तं॒
य
औ॑शि॒जः
॥
1
यो
रे॒वान्
यो
अ॑मीव॒हा
व॑सु॒वित्
पु॑ष्टि॒वर्ध॑नः
।
स
न॑:
सिषक्तु॒
यस्तु॒रः
॥
2
मा
न॒:
शंसो॒
अर॑रुषो
धू॒र्तिः
प्रण॒ङ्
मर्त्य॑स्य
।
रक्षा᳚
णो
ब्रह्मणस्पते
॥
3
स
घा᳚
वी॒रो
न
रि॑ष्यति॒
यमिन्द्रो॒
ब्रह्म॑ण॒स्पति॑:
।
सोमो᳚
हि॒नोति॒
मर्त्य᳚म्
॥
4
त्वं
तं
ब्र᳚ह्मणस्पते॒
सोम॒
इन्द्र॑श्च॒
मर्त्य᳚म्
।
दक्षि॑णा
पा॒त्वंह॑सः
॥
5
(ऋ.वे.1.40.1)
उत्ति॑ष्ठ
ब्रह्मणस्पते
देव॒यन्त॑स्त्वेमहे
।
उप॒
प्र
य᳚न्तु
म॒रुत॑:
सु॒दान॑व॒
इन्द्र॑
प्रा॒शूर्भ॑वा॒
सचा᳚
॥
6
त्वामिद्धि
स॑हसस्पुत्र॒
मर्त्य॑
उपब्रू॒ते
धने᳚
हि॒ते
।
सु॒वीर्यं᳚
मरुत॒
आ
स्वश्व्यं॒
दधी᳚त॒
यो
व॑
आच॒के
॥
7
प्रैतु॒
ब्रह्म॑ण॒स्पति॒:
प्र
दे॒व्ये᳚तु
सू॒नृता᳚
।
अच्छा᳚
वी॒रं
नर्यं᳚
प॒ङ्क्तिरा᳚धसं
दे॒वा
य॒ज्ञं
न॑यन्तु
नः
॥
8
यो
वा॒घते॒
ददा᳚ति
सू॒नरं॒
वसु॒
स
ध॑त्ते॒
अक्षि॑ति॒
श्रव॑:
।
तस्मा॒
इळां᳚
सु॒वीरा॒मा
य॑जामहे
सु॒प्रतू॑र्तिमने॒हस᳚म्
॥
9
प्र
नू॒नं
ब्रह्म॑ण॒स्पति॒र्मन्त्रं᳚
वदत्यु॒क्थ्य᳚म्
।
यस्मि॒न्निन्द्रो॒
वरु॑णो
मि॒त्रो
अ॑र्य॒मा
दे॒वा
ओकां᳚सि
चक्रि॒रे
॥
10
तमिद्वो᳚चेमा
वि॒दथे॑षु
शं॒भुवं॒
मन्त्रं᳚
देवा
अने॒हस᳚म्
।
इ॒मां
च॒
वाचं᳚
प्रति॒हर्य॑था
नरो॒
विश्वे᳚द्वा॒मा
वो᳚
अश्नवत्
॥
11
को
दे᳚व॒यन्त॑मश्नव॒ज्जनं॒
को
वृ॒क्तब॑र्हिषम्
।
प्रप्र॑
दा॒श्वान्प॒स्त्या᳚भिरस्थितान्त॒र्वाव॒त्
क्षयं᳚
दधे
॥
12
उप॑
क्ष॒त्रं
पृ᳚ञ्ची॒त
हन्ति॒
राज॑भिर्भ॒ये
चि॑त्सुक्षि॒तिं
द॑धे
।
नास्य॑
व॒र्ता
न
त॑रु॒ता
म॑हाध॒ने
नार्भे᳚
अस्ति
व॒ज्रिण॑:
॥
13
(ऋ.वे.2.23.1)
ग॒णानां᳚
त्वा
ग॒णप॑तिं
हवामहे
क॒विं
क॑वी॒नामु॑प॒मश्र॑वस्तमम्
।
ज्ये॒ष्ठ॒राजं॒
ब्रह्म॑णां
ब्रह्मणस्पत॒
आ
न॑:
शृ॒ण्वन्नू॒तिभि॑:
सीद॒
साद॑नम्
॥
14
दे॒वाश्चि॑त्ते
असुर्य॒
प्रचे॑तसो॒
बृह॑स्पते
य॒ज्ञियं᳚
भा॒गमा᳚नशुः
।
उ॒स्रा
इ॑व॒
सूर्यो॒
ज्योति॑षा
म॒हो
विश्वे᳚षा॒मिज्ज॑नि॒ता
ब्रह्म॑णामसि
॥
15
आ
वि॒बाध्या᳚
परि॒राप॒स्तमां᳚सि
च॒
ज्योति॑ष्मन्तं॒
रथ॑मृ॒तस्य॑
तिष्ठसि
।
बृह॑स्पते
भी॒मम॑मित्र॒दम्भ॑नं
रक्षो॒हणं᳚
गोत्र॒भिदं᳚
स्व॒र्विद᳚म्
॥
16
सु॒नी॒तिभि॑र्नयसि॒
त्राय॑से॒
जनं॒
यस्तुभ्यं॒
दाशा॒न्न
तमंहो᳚
अश्नवत्
।
ब्र॒ह्म॒द्विष॒स्तप॑नो
मन्यु॒मीर॑सि॒
बृह॑स्पते॒
महि॒
तत्
ते᳚
महित्व॒नम्
॥
17
न
तमंहो॒
न
दु॑रि॒तं
कुत॑श्च॒न
नारा᳚तयस्तितिरु॒र्न
द्व॑या॒विन॑:
।
विश्वा॒
इद॑स्माद्ध्व॒रसो॒
वि
बा᳚धसे॒
यं
सु॑गो॒पा
रक्ष॑सि
ब्रह्मणस्पते
॥
18
त्वं
नो᳚
गो॒पाः
प॑थि॒कृद्वि॑चक्ष॒णस्तव॑
व्र॒ताय॑
म॒तिभि॑र्जरामहे
।
बृह॑स्पते॒
यो
नो᳚
अ॒भि
ह्वरो᳚
द॒धे
स्वा
तं
म॑र्मर्तु
दु॒च्छुना॒
हर॑स्वती
॥
19
उ॒त
वा॒
यो
नो᳚
म॒र्चया॒दना᳚गसोऽराती॒वा
मर्त॑:
सानु॒को
वृक॑:
।
बृह॑स्पते॒
अप॒
तं
व॑र्तया
प॒थः
सु॒गं
नो᳚
अ॒स्यै
दे॒ववी॑तये
कृधि
॥
20
त्रा॒तारं᳚
त्वा
त॒नूनां॑
हवाम॒हेऽव॑स्पर्तरधिव॒क्तार॑मस्म॒युम्
।
बृह॑स्पते
देव॒निदो॒
नि
ब॑र्हय॒
मा
दु॒रेवा॒
उत्त॑रं
सु॒म्नमुन्न॑शन्
॥
21
त्वया᳚
व॒यं
सु॒वृधा॑
ब्रह्मणस्पते
स्पा॒र्हा
वसु॑
मनु॒ष्या
द॑दीमहि
।
या
नो᳚
दू॒रे
त॒ळितो॒
या
अरा᳚तयो॒ऽभि
सन्ति॑
जं॒भया॒
ता
अ॑न॒प्नस॑:
॥
22
त्वया᳚
व॒यमु॑त्त॒मं
धी᳚महे॒
वयो॒
बृह॑स्पते॒
पप्रि॑णा॒
सस्नि॑ना
यु॒जा
।
मा
नो᳚
दु॒:शंसो᳚
अभिदि॒प्सुरी॑शत॒
प्र
सु॒शंसा᳚
म॒तिभि॑स्तारिषीमहि
॥
23
अ॒ना॒नु॒दो
वृ॑ष॒भो
जग्मि॑राह॒वं
निष्ट॑प्ता॒
शत्रुं॒
पृत॑नासु
सास॒हिः
।
असि॑
स॒त्य
ऋ॑ण॒या
ब्र᳚ह्मणस्पत
उ॒ग्रस्य॑
चिद्दमि॒ता
वी᳚ळुह॒र्षिण॑:
॥
24
अदे᳚वेन॒
मन॑सा॒
यो
रि॑ष॒ण्यति॑
शा॒सामु॒ग्रो
मन्य॑मानो॒
जिघां᳚सति
।
बृह॑स्पते॒
मा
प्रण॒क्
तस्य॑
नो
व॒धो
नि
क᳚र्म
म॒न्युं
दु॒रेव॑स्य॒
शर्ध॑तः
॥
25
भरे॑षु॒
हव्यो॒
नम॑सोप॒सद्यो॒
गन्ता॒
वाजे᳚षु॒
सनि॑ता॒
धनं᳚धनम्
।
विश्वा॒
इद॒र्यो
अ॑भिदि॒प्स्वो॒
3
मृधो॒
बृह॒स्पति॒र्वि
व॑वर्हा॒
रथा᳚ँ
इव
॥
26
तेजि॑ष्ठया
तप॒नी
र॒क्षस॑स्तप॒
ये
त्वा᳚
नि॒दे
द॑धि॒रे
दृ॒ष्टवी᳚र्यम्
।
आ॒विस्तत्
कृ॑ष्व॒
यदस॑त्
त
उ॒क्थ्यं
1
बृह॑स्पते॒
वि
प॑रि॒रापो᳚
अर्दय
॥
27
बृह॑स्पते॒
अति॒
यद॒र्यो
अर्हा॑द्द्यु॒मद्वि॒भाति॒
क्रतु॑म॒ज्जने᳚षु
।
यद्दी॒दय॒च्छव॑स
ऋतप्रजात॒
तद॒स्मासु॒
द्रवि॑णं
धेहि
चि॒त्रम्
॥
28
मा
न॑:
स्ते॒नेभ्यो॒
ये
अ॒भि
द्रु॒हस्प॒दे
नि॑रा॒मिणो᳚
रि॒पवोऽन्ने᳚षु
जागृ॒धुः
।
आ
दे॒वाना॒मोह॑ते॒
वि
व्रयो᳚
हृ॒दि
बृह॑स्पते॒
न
प॒रः
साम्नो᳚
विदुः
॥
29
विश्वे᳚भ्यो॒
हि
त्वा॒
भुव॑नेभ्य॒स्परि॒
त्वष्टाज॑न॒त्साम्न॑:साम्नः
क॒विः
।
स
ऋ॑ण॒चिदृ॑ण॒या
ब्रह्म॑ण॒स्पति॑र्द्रु॒हो
ह॒न्ता
म॒ह
ऋ॒तस्य॑
ध॒र्तरि॑
॥
30
तव॑
श्रि॒ये
व्य॑जिहीत॒
पर्व॑तो॒
गवां᳚
गो॒त्रमु॒दसृ॑जो॒
यद᳚ङ्गिरः
।
इन्द्रे॑ण
यु॒जा
तम॑सा॒
परी᳚वृतं॒
बृह॑स्पते॒
निर॒पामौ᳚ब्जो
अर्ण॒वम्
॥
31
ब्रह्म॑णस्पते॒
त्वम॒स्य
य॒न्ता
सू॒क्तस्य॑
बोधि॒
तन॑यं
च
जिन्व
।
विश्वं॒
तद्भ॒द्रं
यदव᳚न्ति
दे॒वा
बृ॒हद्व॑देम
वि॒दथे॑
सु॒वीरा᳚:
॥
32
(ऋ.वे.2.24.1)
सेमाम॑विड्ढि॒
प्रभृ॑तिं॒
य
ईशि॑षे॒ऽया
वि॑धेम॒
नव॑या
म॒हा
गि॒रा
।
यथा᳚
नो
मी॒ढ्वान्त्स्तव॑ते॒
सखा॒
तव॒
बृह॑स्पते॒
सीष॑ध॒:
सोत
नो᳚
म॒तिम्
॥
33
यो
नन्त्वा॒न्यन॑म॒न्न्योज॑सो॒ताद॑र्दर्म॒न्युना॒
शम्ब॑राणि॒
वि
।
प्राच्या᳚वय॒दच्यु॑ता॒
ब्रह्म॑ण॒स्पति॒रा
चावि॑श॒द्वसु॑मन्तं॒
वि
पर्व॑तम्
॥
34
तद्दे॒वानां᳚
दे॒वत॑माय॒
कर्त्व॒मश्र॑थ्नन्
दृ॒ळहाव्र॑दन्त
वीळि॒ता
।
उद्गा
आ᳚ज॒दभि॑न॒द्ब्रह्म॑णा
व॒लमगू᳚ह॒त्तमो॒
व्य॑चक्षय॒त्
स्व॑:
॥
35
अश्मा᳚स्यमव॒तं
ब्रह्म॑ण॒स्पति॒र्मधु॑धारम॒भि
यमोज॒सातृ॑णत्
।
तमे॒व
विश्वे᳚
पपिरे
स्व॒र्दृशो᳚
ब॒हु
सा॒कं
सि॑सिचु॒रुत्स॑मु॒द्रिण᳚म्
॥
36
सना॒
ता
का
चि॒द्भुव॑ना॒
भवी᳚त्वा
मा॒द्भिः
श॒रद्भि॒र्दुरो᳚
वरन्त
वः
।
अय॑तन्ता
चरतो
अ॒न्यद᳚न्य॒दिद्या
च॒कार॑
व॒युना॒
ब्रह्म॑ण॒स्पति॑:
॥
37
अ॒भि॒नक्ष᳚न्तो
अ॒भि
ये
तमा᳚न॒शुर्नि॒धिं
प॑णी॒नां
प॑र॒मं
गुहा᳚
हि॒तम्
।
ते
वि॒द्वांस॑:
प्रति॒चक्ष्यानृ॑ता॒
पुन॒र्यत॑
उ॒
आय॒न्तदुदी᳚युरा॒विश॑म्
॥
38
ऋ॒तावा᳚नः
प्रति॒चक्ष्यानृ॑ता॒
पुन॒रात॒
आ
त॑स्थुः
क॒वयो᳚
म॒हस्प॒थः
।
ते
बा॒हुभ्यां॑
धमि॒तम॒ग्निमश्म॑नि॒
नकि॒:
षो
अ॒स्त्यर॑णो
ज॒हुर्हि
त᳚म्
॥
39
ऋ॒तज्ये᳚न
क्षि॒प्रेण॒
ब्रह्म॑ण॒स्पति॒र्यत्र॒
वष्टि॒
प्र
तद॑श्नोति॒
धन्व॑ना
।
तस्य॑
सा॒ध्वीरिष॑वो॒
याभि॒रस्य॑ति
नृ॒चक्ष॑सो
दृ॒शये॒
कर्ण॑योनयः
॥
40
स
सं᳚न॒यः
स
वि॑न॒यः
पु॒रोहि॑त॒:
स
सुष्टु॑त॒:
स
यु॒धि
ब्रह्म॑ण॒स्पति॑:
।
चा॒क्ष्मो
यद्वाजं॒
भर॑ते
म॒ती
धनाऽऽदित्सूर्य॑स्तपति
तप्य॒तुर्वृथा᳚
॥
41
वि॒भु
प्र॒भु
प्र॑थ॒मं
मे॒हना᳚वतो॒
बृह॒स्पते᳚:
सुवि॒दत्रा॑णि॒
राध्या॑
।
इ॒मा
सा॒तानि॑
वे॒न्यस्य॑
वा॒जिनो॒
येन॒
जना᳚
उ॒भये᳚
भुञ्ज॒ते
विश॑:
॥
42
योऽव॑रे
वृ॒जने᳚
वि॒श्वथा᳚
वि॒भुर्म॒हामु॑
र॒ण्वः
शव॑सा
व॒वक्षि॑थ
।
स
दे॒वो
दे॒वान्प्रति॑
पप्रथे
पृ॒थु
विश्वेदु॒
ता
प॑रि॒भूर्ब्रह्म॑ण॒स्पति॑:
॥
43
विश्वं᳚
स॒त्यं
म॑घवाना
यु॒वोरि॒दाप॑श्च॒न
प्र
मि॑नन्ति
व्र॒तं
वा॑म्
।
अच्छे᳚न्द्राब्रह्मणस्पती
ह॒विर्नोऽन्नं॒
युजे᳚व
वा॒जिना᳚
जिगातम्
॥
44
उ॒ताशि॑ष्ठा॒
अनु॑
शृण्वन्ति॒
वह्न॑यः
स॒भेयो॒
विप्रो᳚
भरते
म॒ती
धना᳚
।
वी॒ळु॒द्वेषा॒
अनु॒
वश॑
ऋ॒णमा᳚द॒दिः
स
ह॑
वा॒जी
स॑मि॒थे
ब्रह्म॑ण॒स्पति॑:
॥
45
ब्रह्म॑ण॒स्पते᳚रभवद्यथाव॒शं
स॒त्यो
म॒न्युर्महि॒
कर्मा᳚
करिष्य॒तः
।
यो
गा
उ॒दाज॒त्स
दि॒वे
वि
चा᳚भजन्
म॒हीव॑
री॒तिः
शव॑सासर॒त्पृथ॑क्
॥
46
ब्रह्म॑णस्पते
सु॒यम॑स्य
वि॒श्वहा᳚
रा॒यः
स्या᳚म
र॒थ्यो॒
3
वय॑स्वतः
।
वी॒रेषु॑
वी॒राँ
उप॑
पृङ्धि
न॒स्त्वं
यदीशा᳚नो॒
ब्रह्म॑णा॒
वेषि॑
मे॒
हव॑म्
॥
47
ब्रह्म॑णस्पते॒
त्वम॒स्य
य॒न्ता
सू॒क्तस्य॑
बोधि॒
तन॑यं
च
जिन्व
।
विश्वं॒
तद्भ॒द्रं
यदव᳚न्ति
दे॒वा
बृ॒हद्व॑देम
वि॒दथे॑
सु॒वीरा᳚:
॥
48
(ऋ.वे.2.25.1)
इन्धा᳚नो
अ॒ग्निं
व॑नवद्वनुष्य॒तः
कृ॒तब्र᳚ह्मा
शूशुवद्रा॒तह᳚व्य॒
इत्
।
जा॒तेन॑
जा॒तमति॒
स
प्र
स॑र्सृते॒
यंयं॒
युजं᳚
कृणु॒ते
ब्रह्म॑ण॒स्पति॑:
॥
49
वी॒रेभि॑र्वी॒रान्व॑नवद्वनुष्य॒तो
गोभी᳚
र॒यिं
प॑प्रथ॒द्बोध॑ति॒
त्मना᳚
।
तो॒कं
च॒
तस्य॒
तन॑यं
च
वर्धते॒
यंयं॒
युजं᳚
कृणु॒ते
ब्रह्म॑ण॒स्पति॑:
॥
50
सिन्धु॒र्न
क्षोद॒:
शिमी᳚वाँ
ऋघाय॒तो
वृषे᳚व॒
वध्रीं᳚र॒भि
व॒ष्ट्योज॑सा
।
अ॒ग्नेरि॑व॒
प्रसि॑ति॒र्नाह॒
वर्त॑वे॒
यंयं॒
युजं᳚
कृणु॒ते
ब्रह्म॑ण॒स्पति॑:
॥
51
तस्मा᳚
अर्षन्ति
दि॒व्या
अ॑स॒श्चत॒:
स
सत्व॑भिः
प्रथ॒मो
गोषु॑
गच्छति
।
अनि॑भृष्टतविषिर्ह॒न्त्योज॑सा॒
यंयं॒
युजं॑
कृणु॒ते
ब्रह्म॑ण॒स्पति॑:
॥
52
तस्मा॒
इद्विश्वे॑
धुनयन्त॒
सिन्ध॒वोऽच्छि॑द्रा॒
शर्म॑
दधिरे
पु॒रूणि॑
।
दे॒वानां᳚
सु॒म्ने
सु॒भग॒:
स
ए᳚धते॒
यंयं॒
युजं᳚
कृणु॒ते
ब्रह्म॑ण॒स्पति॑:
॥
53
(ऋ.वे.2.26.1)
ऋ॒जुरिच्छंसो᳚
वनवद्वनुष्य॒तो
दे᳚व॒यन्निददे᳚वयन्तम॒भ्य॑सत्
।
सु॒प्रा॒वीरिद्व॑नवत्पृ॒त्सु
दु॒ष्टरं॒
यज्वेदय॑ज्यो॒र्वि
भ॑जाति॒
भोज॑नम्
॥
54
यज॑स्व
वीर॒
प्र
वि॑हि
मनाय॒तो
भ॒द्रं
मन॑:
कृणुष्व
वृत्र॒तूर्ये᳚
।
ह॒विष्कृ॑णुष्व
सु॒भगो॒
यथास॑सि॒
ब्रह्म॑ण॒स्पते॒रव॒
आ
वृ॑णीमहे
॥
55
स
इज्जने᳚न॒
स
वि॒शा
स
जन्म॑ना॒
स
पु॒त्रैर्वाजं᳚
भरते॒
धना॒
नृभि॑:
।
दे॒वानां॒
यः
पि॒तर॑मा॒विवा᳚सति
श्र॒द्धाम॑ना
ह॒विषा॒
ब्रह्म॑ण॒स्पति᳚म्
॥
56
यो
अ॑स्मै
ह॒व्यैर्घृ॒तव॑द्भि॒रवि॑ध॒त्
प्र
तं
प्रा॒चा
न॑यति॒
ब्रह्म॑ण॒स्पति॑:
।
उ॒रु॒ष्यती॒मंह॑सो॒
रक्ष॑ती
रि॒षों॒3ऽहोश्चि॑दस्मा
उरु॒चक्रि॒रद्भु॑तः
॥
57
(ऋ.वे.7.97.3)
तमु॒
ज्येष्ठं॒
नम॑सा
ह॒विर्भि॑:
सु॒शेवं॒
ब्रह्म॑ण॒स्पतिं᳚
गृणीषे
।
इन्द्रं॒
श्लोको॒
महि॒
दैव्य॑:
सिषक्तु॒
यो
ब्रह्म॑णो
दे॒वकृ॑तस्य॒
राजा᳚
॥
58
(ऋ.वे.7.97.9)
इ॒यं
वां᳚
ब्रह्मणस्पते
सुवृ॒क्तिर्ब्रह्मेन्द्रा᳚य
व॒ज्रिणे᳚
अकारि
।
अ॒वि॒ष्टं
धियो᳚
जिगृ॒तं
पुरं᳚धीर्जज॒स्तम॒र्यो
व॒नुषा॒मरा᳚तीः
॥
59
(ऋ.वे.10.155.2)
च॒त्तो
इ॒तश्च॒त्तामुत॒:
सर्वा᳚
भ्रू॒णान्या॒रुषी᳚
।
अ॒रा॒य्यं᳚
ब्रह्मणस्पते॒
तीक्ष्ण॑शृङ्गोदृ॒षन्नि॑हि
॥
60
अ॒दो
यद्दारु॒
प्लव॑ते॒
सिन्धो᳚:
पा॒रे
अ॑पूरु॒षम्
।
तदा
र॑भस्व
दुर्हणो॒
तेन॑
गच्छ
परस्त॒रम्
॥
61
(ऋ.वे.खि.10.128.12)
अग्नि॒र्येन॑
वि॒राज॑ति
सू॒र्यो᳚
येन
वि॒राज॑ति
।
वि॒राज्ये᳚न
विरा॒जति
तेना॒स्मान्
ब्रह्म॑णस्पते
वि॒रा॑ज
समिधं॒
कु॑रु
॥
62
(ऋ.वे.6.75.17)
यत्र॑
बा॒णाः
स॒म्पत᳚न्ति
कुमा॒रा
वि॑शि॒खा
इ॑व
।
तत्रा᳚
नो॒
ब्रह्म॑ण॒स्पति॒रदि॑ति॒:
शर्म॑
यच्छतु
वि॒श्वाहा॒
शर्म॑
यच्छतु
॥
63
(ऋ.वे.10.164.4)
यदि॑न्द्र
ब्रह्मणस्पतेऽभिद्रो॒हं
चरा᳚मसि
।
प्रचे᳚ता
न
आङ्गिर॒सो
द्वि॑ष॒तां
पा॒त्वंह॑सः
॥
64
(ऋ.वे.10.112.9)
नि
षु
सी᳚द
गणपते
ग॒णेषु॒
त्वामा᳚हु॒र्विप्र॑तमं
कवी॒नाम्
।
न
ऋ॒ते
त्वत्क्रि॑यते॒
किं
च॒नारे
म॒हाम॒र्कं
म॑घवञ्चि॒त्रम॑र्च
॥
65
(ऋ.वे.10.60.12)
अ॒यं
मे॒
हस्तो॒
भग॑वान॒यं
मे॒
भग॑वत्तरः
।
अ॒यं
मे॑
वि॒श्वभे᳚षजो॒ऽयं
शि॒वाभि॑मर्शनः
॥
66
ओं
शान्ति॒:
शान्ति॒:
शान्ति॑:
।