Haindavam Logo - Lord Ganesha
Haindavam
📍
Font Size:

श्री विष्णु कवच स्तोत्रम्

ध्यानम् –
शान्ताकारं भुजगशयनं पद्मनाभं सुरेशं
विश्वाकारं गगनसदृशं मेघवर्णं शुभाङ्गम् ।
लक्ष्मीकान्तं कमलनयनं योगिहृद्ध्यानगम्यं
वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम् ॥
कवचम् –
ओम् । पूर्वतो मां हरिः पातु पश्चाच्चक्री च दक्षिणे ।
कृष्ण उत्तरतः पातु श्रीशो विष्णुश्च सर्वतः ॥ 1 ॥
ऊर्ध्वमानन्दकृत् पातु अधस्ताच्छार्ङ्गभृत् सदा ।
पादौ पातु सरोजाङ्घ्रिः जङ्घे पातु जनार्दनः ॥ 2 ॥
जानुनी मे जगन्नाथः ऊरू पातु त्रिविक्रमः ।
गुह्यं पातु हृषीकेशः पृष्ठं पातु ममाव्ययः ॥ 3 ॥
पातु नाभिं ममानन्तः कुक्षिं राक्षसमर्दनः ।
दामोदरो मे हृदयं वक्षः पातु नृकेसरी ॥ 4 ॥
करौ मे कालियारातिः भुजौ भक्तार्तिभञ्जनः ।
कण्ठं कालाम्बुदश्यामः स्कन्धौ मे कंसमर्दनः ॥ 5 ॥
नारायणोऽव्यान्नासां मे कर्णौ केशिप्रभञ्जनः ।
कपोले पातु वैकुण्ठो जिह्वां पातु दयानिधिः ॥ 6 ॥
आस्यं दशास्यहन्ताऽव्यान्नेत्रे मे हरिलोचनः ।
भ्रुवौ मे पातु भूमीशो ललाटं मे सदाऽच्युतः ॥ 7 ॥
मुखं मे पातु गोविन्दः शिरो गरुडवाहनः ।
मां शेषशायी सर्वेभ्यो व्याधिभ्यो भक्तवत्सलः ॥ 8 ॥
पिशाचाग्नि जलेभ्यो मामापद्भ्यो पातु वामनः ।
सर्वेभ्यो दुरितेभ्यश्च पातु मां पुरुषोत्तमः ॥ 9 ॥
इदं श्रीविष्णुकवचं सर्वमङ्गलदायकम् ।
सर्वरोगप्रशमनं सर्वशत्रुविनाशनम् ॥ 10 ॥
इति श्री विष्णु कवचम् ।

Recite with devotion and pure heart

Regular practice brings spiritual benefits