हैंदवम्
हैं
హై
हैंदवम्
ஹி
હિં
English
हिंदी
മലയാളം
తెలుగు
தமிழ்
ಕನ್ನಡ
📍
𖦏
Auto Detect Location
Font Size:
a
a
a
नारायण हृदय स्तोत्रम्
अस्य
श्रीनारायणहृदयस्तोत्रमंत्रस्य
भार्गव
ऋषिः,
अनुष्टुप्छंदः,
श्रीलक्ष्मीनारायणो
देवता,
ओं
बीजं,
नमश्शक्तिः,
नारायणायेति
कीलकं,
श्रीलक्ष्मीनारायण
प्रीत्यर्थे
जपे
विनियोगः
।
करन्यासः
–
ओं
नारायणः
परं
ज्योतिरिति
अंगुष्ठाभ्यां
नमः
।
नारायणः
परं
ब्रह्मेति
तर्जनीभ्यां
नमः
।
नारायणः
परो
देव
इति
मध्यमाभ्यां
नमः
।
नारायणः
परं
धामेति
अनामिकाभ्यां
नमः
।
नारायणः
परो
धर्म
इति
कनिष्ठिकाभ्यां
नमः
।
विश्वं
नारायण
इति
करतलकरपृष्ठाभ्यां
नमः
।
अंगन्यासः
–
नारायणः
परं
ज्योतिरिति
हृदयाय
नमः
।
नारायणः
परं
ब्रह्मेति
शिरसे
स्वाहा
।
नारायणः
परो
देव
इति
शिखायै
वौषट्
।
नारायणः
परं
धामेति
कवचाय
हुं
।
नारायणः
परो
धर्म
इति
नेत्राभ्यां
वौषट्
।
विश्वं
नारायण
इति
अस्त्राय
फट्
।
दिग्बंधः
।
ओं
ऐंद्र्यादिदशदिशं
ओं
नमः
सुदर्शनाय
सहस्राराय
हुं
फट्
बध्नामि
नमश्चक्राय
स्वाहा
।
इति
प्रतिदिशं
योज्यं
।
अथ
ध्यानं
–
उद्यादादित्यसंकाशं
पीतवासं
चतुर्भुजं
।
शंखचक्रगदापाणिं
ध्यायेल्लक्ष्मीपतिं
हरिं
॥
1
॥
त्रैलोक्याधारचक्रं
तदुपरि
कमठं
तत्र
चानंतभोगी
तन्मध्ये
भूमिपद्मांकुशशिखरदलं
कर्णिकाभूतमेरुं
।
तत्रस्थं
शांतमूर्तिं
मणिमयमकुटं
कुंडलोद्भासितांगं
लक्ष्मीनारायणाख्यं
सरसिजनयनं
संततं
चिंतयामि
॥
2
॥
अथ
मूलाष्टकं
–
ओं
॥
नारायणः
परं
ज्योतिरात्मा
नारायणः
परः
।
नारायणः
परं
ब्रह्म
नारायण
नमोऽस्तु
ते
॥
1
॥
नारायणः
परो
देवो
धाता
नारायणः
परः
।
नारायणः
परो
धाता
नारायण
नमोऽस्तु
ते
॥
2
॥
नारायणः
परं
धाम
ध्यानं
नारायणः
परः
।
नारायण
परो
धर्मो
नारायण
नमोऽस्तु
ते
॥
3
॥
नारायणः
परोवेद्यः
विद्या
नारायणः
परः
।
विश्वं
नारायणः
साक्षान्नारायण
नमोऽस्तु
ते
॥
4
॥
नारायणाद्विधिर्जातो
जातो
नारायणाद्भवः
।
जातो
नारायणादिंद्रो
नारायण
नमोऽस्तु
ते
॥
5
॥
रविर्नारायणस्तेजः
चंद्रो
नारायणो
महः
।
वह्निर्नारायणः
साक्षान्नारायण
नमोऽस्तु
ते
॥
6
॥
नारायण
उपास्यः
स्याद्गुरुर्नारायणः
परः
।
नारायणः
परो
बोधो
नारायण
नमोऽस्तु
ते
॥
7
॥
नारायणः
फलं
मुख्यं
सिद्धिर्नारायणः
सुखं
।
सेव्योनारायणः
शुद्धो
नारायण
नमोऽस्तु
ते
॥
8
॥
अथ
प्रार्थनादशकं
–
नारायण
त्वमेवासि
दहराख्ये
हृदि
स्थितः
।
प्रेरकः
प्रेर्यमाणानां
त्वया
प्रेरितमानसः
॥
9
॥
त्वदाज्ञां
शिरसा
धृत्वा
जपामि
जनपावनं
।
नानोपासनमार्गाणां
भवकृद्भावबोधकः
॥
10
॥
भावार्थकृद्भवातीतो
भव
सौख्यप्रदो
मम
।
त्वन्मायामोहितं
विश्वं
त्वयैव
परिकल्पितं
॥
11
॥
त्वदधिष्ठानमात्रेण
सा
वै
सर्वार्थकारिणी
।
त्वमेतां
च
पुरस्कृत्य
सर्वकामान्प्रदर्शय
॥
12
॥
न
मे
त्वदन्यस्त्रातास्ति
त्वदन्यन्न
हि
दैवतं
।
त्वदन्यं
न
हि
जानामि
पालकं
पुण्यवर्धनं
॥
13
॥
यावत्सांसारिको
भावो
मनस्स्थो
भावनात्मकः
।
तावत्सिद्धिर्भवेत्साध्या
सर्वथा
सर्वदा
विभो
॥
14
॥
पापिनामहमेवाग्र्यो
दयालूनां
त्वमग्रणीः
।
दयनीयो
मदन्योऽस्ति
तव
कोऽत्र
जगत्त्रये
॥
15
॥
त्वयाहं
नैव
सृष्टश्चेन्न
स्यात्तव
दयालुता
।
आमयो
वा
न
सृष्टश्चेदौषधस्य
वृथोदयः
॥
16
॥
पापसंघपरिश्रांतः
पापात्मा
पापरूपधृत्
।
त्वदन्यः
कोऽत्र
पापेभ्यस्त्रातास्ति
जगतीतले
॥
17
॥
त्वमेव
माता
च
पिता
त्वमेव
त्वमेव
बंधुश्च
सखा
त्वमेव
।
त्वमेव
सेव्यश्च
गुरुस्त्वमेव
त्वमेव
सर्वं
मम
देव
देव
॥
18
॥
प्रार्थनादशकं
चैव
मूलाष्टकमतः
परं
।
यः
पठेच्छृणुयान्नित्यं
तस्य
लक्ष्मीः
स्थिरा
भवेत्
॥
19
॥
नारायणस्य
हृदयं
सर्वाभीष्टफलप्रदं
।
लक्ष्मीहृदयकं
स्तोत्रं
यदि
चेत्तद्विनाकृतं
॥
20
॥
तत्सर्वं
निष्फलं
प्रोक्तं
लक्ष्मीः
क्रुद्ध्यति
सर्वदा
।
एतत्संकलितं
स्तोत्रं
सर्वकामफलप्रदं
॥
21
॥
लक्ष्मीहृदयकं
चैव
तथा
नारायणात्मकं
।
जपेद्यः
संकलीकृत्य
सर्वाभीष्टमवाप्नुयात्
॥
22
॥
नारायणस्य
हृदयमादौ
जप्त्वा
ततः
परं
।
लक्ष्मीहृदयकं
स्तोत्रं
जपेन्नारायणं
पुनः
॥
23
॥
पुनर्नारायणं
जप्त्वा
पुनर्लक्ष्मीनुतिं
जपेत्
।
पुनर्नारायणं
जाप्यं
संकलीकरणं
भवेत्
॥
24
॥
एवं
मध्ये
द्विवारेण
जपेत्संकलितं
तु
तत्
।
लक्ष्मीहृदयकं
स्तोत्रं
सर्वकामप्रकाशितं
॥
25
॥
तद्वज्जपादिकं
कुर्यादेतत्संकलितं
शुभं
।
सर्वान्कामानवाप्नोति
आधिव्याधिभयं
हरेत्
॥
26
॥
गोप्यमेतत्सदा
कुर्यान्न
सर्वत्र
प्रकाशयेत्
।
इति
गुह्यतमं
शास्त्रं
प्राप्तं
ब्रह्मादिकैः
पुरा
॥
27
॥
तस्मात्सर्वप्रयत्नेन
गोपयेत्साधयेसुधीः
।
यत्रैतत्पुस्तकं
तिष्ठेल्लक्ष्मीनारायणात्मकं
॥
28
॥
भूतपैशाचवेताल
भयं
नैव
तु
सर्वदा
।
लक्ष्मीहृदयकं
प्रोक्तं
विधिना
साधयेत्सुधीः
॥
29
॥
भृगुवारे
च
रात्रौ
च
पूजयेत्पुस्तकद्वयं
।
सर्वथा
सर्वदा
सत्यं
गोपयेत्साधयेत्सुधीः
।
गोपनात्साधनाल्लोके
धन्यो
भवति
तत्त्वतः
॥
30
॥
इत्यथर्वरहस्ये
उत्तरभागे
नारायणहृदयं
संपूर्णं
।
Recite with devotion and pure heart
Regular practice brings spiritual benefits