Haindavam Logo - Lord Ganesha
Haindavam
📍
Font Size:

सूर्य सहस्रनामावलिः

ओं विश्वविदे नमः । ओं विश्वजिते नमः । ओं विश्वकर्त्रे नमः । ओं विश्वात्मने नमः । ओं विश्वतोमुखाय नमः । ओं विश्वेश्वराय नमः । ओं विश्वयोनये नमः । ओं नियतात्मने नमः । ओं जितेन्द्रियाय नमः । ओं कालाश्रयाय नमः । ओं कालकर्त्रे नमः । ओं कालघ्ने नमः । ओं कालनाशनाय नमः । ओं महायोगिने नमः । ओं महासिद्धये नमः । ओं महात्मने नमः । ओं सुमहाबलाय नमः । ओं प्रभवे नमः । ओं विभवे नमः । ओं भूतनाथाय नमः । 20 ओं भूतात्मने नमः । ओं भुवनेश्वराय नमः । ओं भूतभव्याय नमः । ओं भावितात्मने नमः । ओं भूतान्तःकरणाय नमः । ओं शिवाय नमः । ओं शरण्याय नमः । ओं कमलानन्दाय नमः । ओं नन्दनाय नमः । ओं नन्दवर्धनाय नमः । ओं वरेण्याय नमः । ओं वरदाय नमः । ओं योगिने नमः । ओं सुसम्युक्ताय नमः । ओं प्रकाशकाय नमः । ओं प्राप्तयानाय नमः । ओं परप्राणाय नमः । ओं पूतात्मने नमः । ओं प्रियताय नमः । ओं प्रियाय नमः । 40 ओं नयाय नमः । ओं सहस्रपादे नमः । ओं साधवे नमः । ओं दिव्यकुण्डलमण्डिताय नमः । ओं अव्यङ्गधारिणे नमः । ओं धीरात्मने नमः । ओं सवित्रे नमः । ओं वायुवाहनाय नमः । ओं समाहितमतये नमः । ओं दात्रे नमः । ओं विधात्रे नमः । ओं कृतमङ्गलाय नमः । ओं कपर्दिने नमः । ओं कल्पपादे नमः । ओं रुद्राय नमः । ओं सुमनाय नमः । ओं धर्मवत्सलाय नमः । ओं समायुक्ताय नमः । ओं विमुक्तात्मने नमः । ओं कृतात्मने नमः । 60 ओं कृतिनां वराय नमः । ओं अविचिन्त्यवपुषे नमः । ओं श्रेष्ठाय नमः । ओं महायोगिने नमः । ओं महेश्वराय नमः । ओं कान्ताय नमः । ओं कामारये नमः । ओं आदित्याय नमः । ओं नियतात्मने नमः । ओं निराकुलाय नमः । ओं कामाय नमः । ओं कारुणिकाय नमः । ओं कर्त्रे नमः । ओं कमलाकरबोधनाय नमः । ओं सप्तसप्तये नमः । ओं अचिन्त्यात्मने नमः । ओं महाकारुणिकोत्तमाय नमः । ओं सञ्जीवनाय नमः । ओं जीवनाथाय नमः । ओं जयाय नमः । 80 ओं जीवाय नमः । ओं जगत्पतये नमः । ओं अयुक्ताय नमः । ओं विश्वनिलयाय नमः । ओं संविभागिने नमः । ओं वृषध्वजाय नमः । ओं वृषाकपये नमः । ओं कल्पकर्त्रे नमः । ओं कल्पान्तकरणाय नमः । ओं रवये नमः । ओं एकचक्ररथाय नमः । ओं मौनिने नमः । ओं सुरथाय नमः । ओं रथिनां वराय नमः । ओं सक्रोधनाय नमः । ओं रश्मिमालिने नमः । ओं तेजोराशये नमः । ओं विभावसवे नमः । ओं दिव्यकृते नमः । ओं दिनकृते नमः । 100 ओं देवाय नमः । ओं देवदेवाय नमः । ओं दिवस्पतये नमः । ओं दीननाथाय नमः । ओं हराय नमः । ओं होत्रे नमः । ओं दिव्यबाहवे नमः । ओं दिवाकराय नमः । ओं यज्ञाय नमः । ओं यज्ञपतये नमः । ओं पूष्णे नमः । ओं स्वर्णरेतसे नमः । ओं परावराय नमः । ओं परापरज्ञाय नमः । ओं तरणये नमः । ओं अंशुमालिने नमः । ओं मनोहराय नमः । ओं प्राज्ञाय नमः । ओं प्राज्ञपतये नमः । ओं सूर्याय नमः । 120 ओं सवित्रे नमः । ओं विष्णवे नमः । ओं अंशुमते नमः । ओं सदागतये नमः । ओं गन्धवहाय नमः । ओं विहिताय नमः । ओं विधये नमः । ओं आशुगाय नमः । ओं पतङ्गाय नमः । ओं पतगाय नमः । ओं स्थाणवे नमः । ओं विहङ्गाय नमः । ओं विहगाय नमः । ओं वराय नमः । ओं हर्यश्वाय नमः । ओं हरिताश्वाय नमः । ओं हरिदश्वाय नमः । ओं जगत्प्रियाय नमः । ओं त्र्यम्बकाय नमः । ओं सर्वदमनाय नमः । 140 ओं भावितात्मने नमः । ओं भिषग्वराय नमः । ओं आलोककृते नमः । ओं लोकनाथाय नमः । ओं लोकालोकनमस्कृताय नमः । ओं कालाय नमः । ओं कल्पान्तकाय नमः । ओं वह्नये नमः । ओं तपनाय नमः । ओं सम्प्रतापनाय नमः । ओं विलोचनाय नमः । ओं विरूपाक्षाय नमः । ओं सहस्राक्षाय नमः । ओं पुरन्दराय नमः । ओं सहस्ररश्मये नमः । ओं मिहिराय नमः । ओं विविधाम्बरभूषणाय नमः । ओं खगाय नमः । ओं प्रतर्दनाय नमः । ओं धन्याय नमः । 160 ओं हयगाय नमः । ओं वाग्विशारदाय नमः । ओं श्रीमते नमः । ओं अशिशिराय नमः । ओं वाग्मिने नमः । ओं श्रीपतये नमः । ओं श्रीनिकेतनाय नमः । ओं श्रीकण्ठाय नमः । ओं श्रीधराय नमः । ओं श्रीमते नमः । ओं श्रीनिवासाय नमः । ओं वसुप्रदाय नमः । ओं कामचारिणे नमः । ओं महामायाय नमः । ओं महोग्राय नमः । ओं अविदितामयाय नमः । ओं तीर्थक्रियावते नमः । ओं सुनयाय नमः । ओं विभक्ताय नमः । ओं भक्तवत्सलाय नमः । 180 ओं कीर्तये नमः । ओं कीर्तिकराय नमः । ओं नित्याय नमः । ओं कुण्डलिने नमः । ओं कवचिने नमः । ओं रथिने नमः । ओं हिरण्यरेतसे नमः । ओं सप्ताश्वाय नमः । ओं प्रयतात्मने नमः । ओं परन्तपाय नमः । ओं बुद्धिमते नमः । ओं अमरश्रेष्ठाय नमः । ओं रोचिष्णवे नमः । ओं पाकशासनाय नमः । ओं समुद्राय नमः । ओं धनदाय नमः । ओं धात्रे नमः । ओं मान्धात्रे नमः । ओं कश्मलापहाय नमः । ओं तमोघ्नाय नमः । 200 ओं ध्वान्तघ्ने नमः । ओं वह्नये नमः । ओं होत्रे नमः । ओं अन्तःकरणाय नमः । ओं गुहाय नमः । ओं पशुमते नमः । ओं प्रयतानन्दाय नमः । ओं भूतेशाय नमः । ओं श्रीमतां वराय नमः । ओं नित्याय नमः । ओं अदिताय नमः । ओं नित्यरथाय नमः । ओं सुरेशाय नमः । ओं सुरपूजिताय नमः । ओं अजिताय नमः । ओं विजिताय नमः । ओं जेत्रे नमः । ओं जङ्गमस्थावरात्मकाय नमः । ओं जीवानन्दाय नमः । ओं नित्यगामिने नमः । 220 ओं विजेत्रे नमः । ओं विजयप्रदाय नमः । ओं पर्जन्याय नमः । ओं अग्नये नमः । ओं स्थितये नमः । ओं स्थेयाय नमः । ओं स्थविराय नमः । ओं निरञ्जनाय नमः । ओं प्रद्योतनाय नमः । ओं रथारूढाय नमः । ओं सर्वलोकप्रकाशकाय नमः । ओं ध्रुवाय नमः । ओं मेषिने नमः । ओं महावीर्याय नमः । ओं हंसाय नमः । ओं संसारतारकाय नमः । ओं सृष्टिकर्त्रे नमः । ओं क्रियाहेतवे नमः । ओं मार्तण्डाय नमः । ओं मरुतां पतये नमः । 240 ओं मरुत्वते नमः । ओं दहनाय नमः । ओं त्वष्ट्रे नमः । ओं भगाय नमः । ओं भर्गाय नमः । ओं अर्यम्णे नमः । ओं कपये नमः । ओं वरुणेशाय नमः । ओं जगन्नाथाय नमः । ओं कृतकृत्याय नमः । ओं सुलोचनाय नमः । ओं विवस्वते नमः । ओं भानुमते नमः । ओं कार्याय नमः । ओं कारणाय नमः । ओं तेजसां निधये नमः । ओं असङ्गगामिने नमः । ओं तिग्मांशवे नमः । ओं धर्मांशवे नमः । ओं दीप्तदीधितये नमः । 260 ओं सहस्रदीधितये नमः । ओं ब्रध्नाय नमः । ओं सहस्रांशवे नमः । ओं दिवाकराय नमः । ओं गभस्तिमते नमः । ओं दीधितिमते नमः । ओं स्रग्विणे नमः । ओं मणिकुलद्युतये नमः । ओं भास्कराय नमः । ओं सुरकार्यज्ञाय नमः । ओं सर्वज्ञाय नमः । ओं तीक्ष्णदीधितये नमः । ओं सुरज्येष्ठाय नमः । ओं सुरपतये नमः । ओं बहुज्ञाय नमः । ओं वचसां पतये नमः । ओं तेजोनिधये नमः । ओं बृहत्तेजसे नमः । ओं बृहत्कीर्तये नमः । ओं बृहस्पतये नमः । 280 ओं अहिमते नमः । ओं ऊर्जिताय नमः । ओं धीमते नमः । ओं आमुक्ताय नमः । ओं कीर्तिवर्धनाय नमः । ओं महावैद्याय नमः । ओं गणपतये नमः । ओं धनेशाय नमः । ओं गणनायकाय नमः । ओं तीव्रप्रतापनाय नमः । ओं तापिने नमः । ओं तापनाय नमः । ओं विश्वतापनाय नमः । ओं कार्तस्वराय नमः । ओं हृषीकेशाय नमः । ओं पद्मानन्दाय नमः । ओं अतिनन्दिताय नमः । ओं पद्मनाभाय नमः । ओं अमृताहाराय नमः । ओं स्थितिमते नमः । 300 ओं केतुमते नमः । ओं नभसे नमः । ओं अनाद्यन्ताय नमः । ओं अच्युताय नमः । ओं विश्वाय नमः । ओं विश्वामित्राय नमः । ओं घृणये नमः । ओं विराजे नमः । ओं आमुक्तकवचाय नमः । ओं वाग्मिने नमः । ओं कञ्चुकिने नमः । ओं विश्वभावनाय नमः । ओं अनिमित्तगतये नमः । ओं श्रेष्ठाय नमः । ओं शरण्याय नमः । ओं सर्वतोमुखाय नमः । ओं विगाहिने नमः । ओं वेणुरसहाय नमः । ओं समायुक्ताय नमः । ओं समाक्रतवे नमः । 320 ओं धर्मकेतवे नमः । ओं धर्मरतये नमः । ओं संहर्त्रे नमः । ओं सम्यमाय नमः । ओं यमाय नमः । ओं प्रणतार्तिहराय नमः । ओं वायवे नमः । ओं सिद्धकार्याय नमः । ओं जनेश्वराय नमः । ओं नभसे नमः । ओं विगाहनाय नमः । ओं सत्याय नमः । ओं सवित्रे नमः । ओं आत्मने नमः । ओं मनोहराय नमः । ओं हारिणे नमः । ओं हरये नमः । ओं हराय नमः । ओं वायवे नमः । ओं ऋतवे नमः । 340 ओं कालानलद्युतये नमः । ओं सुखसेव्याय नमः । ओं महातेजसे नमः । ओं जगतामेककारणाय नमः । ओं महेन्द्राय नमः । ओं विष्टुताय नमः । ओं स्तोत्राय नमः । ओं स्तुतिहेतवे नमः । ओं प्रभाकराय नमः । ओं सहस्रकराय नमः । ओं आयुष्मते नमः । ओं अरोषाय नमः । ओं सुखदाय नमः । ओं सुखिने नमः । ओं व्याधिघ्ने नमः । ओं सुखदाय नमः । ओं सौख्याय नमः । ओं कल्याणाय नमः । ओं कलतां वराय नमः । ओं आरोग्यकारणाय नमः । 360 ओं सिद्धये नमः । ओं ऋद्धये नमः । ओं वृद्धये नमः । ओं बृहस्पतये नमः । ओं हिरण्यरेतसे नमः । ओं आरोग्याय नमः । ओं विदुषे नमः । ओं ब्रध्नाय नमः । ओं बुधाय नमः । ओं महते नमः । ओं प्राणवते नमः । ओं धृतिमते नमः । ओं घर्माय नमः । ओं घर्मकर्त्रे नमः । ओं रुचिप्रदाय नमः । ओं सर्वप्रियाय नमः । ओं सर्वसहाय नमः । ओं सर्वशत्रुविनाशनाय नमः । ओं प्रांशवे नमः । ओं विद्योतनाय नमः । 380 ओं द्योताय नमः । ओं सहस्रकिरणाय नमः । ओं कृतिने नमः । ओं केयूरिणे नमः । ओं भूषणोद्भासिने नमः । ओं भासिताय नमः । ओं भासनाय नमः । ओं अनलाय नमः । ओं शरण्यार्तिहराय नमः । ओं होत्रे नमः । ओं खद्योताय नमः । ओं खगसत्तमाय नमः । ओं सर्वद्योताय नमः । ओं भवद्योताय नमः । ओं सर्वद्युतिकराय नमः । ओं मताय नमः । ओं कल्याणाय नमः । ओं कल्याणकराय नमः । ओं कल्याय नमः । ओं कल्यकराय नमः । 400 ओं कवये नमः । ओं कल्याणकृते नमः । ओं कल्यवपवे नमः । ओं सर्वकल्याणभाजनाय नमः । ओं शान्तिप्रियाय नमः । ओं प्रसन्नात्मने नमः । ओं प्रशान्ताय नमः । ओं प्रशमप्रियाय नमः । ओं उदारकर्मणे नमः । ओं सुनयाय नमः । ओं सुवर्चसे नमः । ओं वर्चसोज्ज्वलाय नमः । ओं वर्चस्विने नमः । ओं वर्चसामीशाय नमः । ओं त्रैलोक्येशाय नमः । ओं वशानुगाय नमः । ओं तेजस्विने नमः । ओं सुयशसे नमः । ओं वर्ष्मिणे नमः । ओं वर्णाध्यक्षाय नमः । 420 ओं बलिप्रियाय नमः । ओं यशस्विने नमः । ओं तेजोनिलयाय नमः । ओं तेजस्विने नमः । ओं प्रकृतिस्थिताय नमः । ओं आकाशगाय नमः । ओं शीघ्रगतये नमः । ओं आशुगाय नमः । ओं गतिमते नमः । ओं खगाय नमः । ओं गोपतये नमः । ओं ग्रहदेवेशाय नमः । ओं गोमते नमः । ओं एकाय नमः । ओं प्रभञ्जनाय नमः । ओं जनित्रे नमः । ओं प्रजनाय नमः । ओं जीवाय नमः । ओं दीपाय नमः । ओं सर्वप्रकाशकाय नमः । 440 ओं सर्वसाक्षिने नमः । ओं योगनित्याय नमः । ओं नभस्वते नमः । ओं असुरान्तकाय नमः । ओं रक्षोघ्नाय नमः । ओं विघ्नशमनाय नमः । ओं किरीटिने नमः । ओं सुमनःप्रियाय नमः । ओं मरीचिमालिने नमः । ओं सुमतये नमः । ओं कृताभिख्यविशेषकाय नमः । ओं शिष्टाचाराय नमः । ओं शुभाचाराय नमः । ओं स्वचाराचारतत्पराय नमः । ओं मन्दाराय नमः । ओं माठराय नमः । ओं वेणवे नमः । ओं क्षुधापाय नमः । ओं क्ष्मापतये नमः । ओं गुरवे नमः । 460 ओं सुविशिष्टाय नमः । ओं विशिष्टात्मने नमः । ओं विधेयाय नमः । ओं ज्ञानशोभनाय नमः । ओं महाश्वेताय नमः । ओं प्रियाय नमः । ओं ज्ञेयाय नमः । ओं सामगाय नमः । ओं मोक्षदायकाय नमः । ओं सर्ववेदप्रगीतात्मने नमः । ओं सर्ववेदलयाय नमः । ओं महते नमः । ओं वेदमूर्तये नमः । ओं चतुर्वेदाय नमः । ओं वेदभृते नमः । ओं वेदपारगाय नमः । ओं क्रियावते नमः । ओं असिताय नमः । ओं जिष्णवे नमः । ओं वरीयांशवे नमः । 480 ओं वरप्रदाय नमः । ओं व्रतचारिणे नमः । ओं व्रतधराय नमः । ओं लोकबन्धवे नमः । ओं अलङ्कृताय नमः । ओं अलङ्काराक्षराय नमः । ओं वेद्याय नमः । ओं विद्यावते नमः । ओं विदिताशयाय नमः । ओं आकाराय नमः । ओं भूषणाय नमः । ओं भूष्याय नमः । ओं भूष्णवे नमः । ओं भुवनपूजिताय नमः । ओं चक्रपाणये नमः । ओं ध्वजधराय नमः । ओं सुरेशाय नमः । ओं लोकवत्सलाय नमः । ओं वाग्मिपतये नमः । ओं महाबाहवे नमः । 500 ओं प्रकृतये नमः । ओं विकृतये नमः । ओं गुणाय नमः । ओं अन्धकारापहाय नमः । ओं श्रेष्ठाय नमः । ओं युगावर्ताय नमः । ओं युगादिकृते नमः । ओं अप्रमेयाय नमः । ओं सदायोगिने नमः । ओं निरहङ्काराय नमः । ओं ईश्वराय नमः । ओं शुभप्रदाय नमः । ओं शुभाय नमः । ओं शास्त्रे नमः । ओं शुभकर्मणे नमः । ओं शुभप्रदाय नमः । ओं सत्यवते नमः । ओं श्रुतिमते नमः । ओं उच्चैर्नकाराय नमः । ओं वृद्धिदाय नमः । 520 ओं अनलाय नमः । ओं बलभृते नमः । ओं बलदाय नमः । ओं बन्धवे नमः । ओं मतिमते नमः । ओं बलिनां वराय नमः । ओं अनङ्गाय नमः । ओं नागराजेन्द्राय नमः । ओं पद्मयोनये नमः । ओं गणेश्वराय नमः । ओं संवत्सराय नमः । ओं ऋतवे नमः । ओं नेत्रे नमः । ओं कालचक्रप्रवर्तकाय नमः । ओं पद्मेक्षणाय नमः । ओं पद्मयोनये नमः । ओं प्रभावते नमः । ओं अमराय नमः । ओं प्रभवे नमः । ओं सुमूर्तये नमः । 540 ओं सुमतये नमः । ओं सोमाय नमः । ओं गोविन्दाय नमः । ओं जगदादिजाय नमः । ओं पीतवाससे नमः । ओं कृष्णवाससे नमः । ओं दिग्वाससे नमः । ओं इन्द्रियातिगाय नमः । ओं अतीन्द्रियाय नमः । ओं अनेकरूपाय नमः । ओं स्कन्दाय नमः । ओं परपुरञ्जयाय नमः । ओं शक्तिमते नमः । ओं जलधृगे नमः । ओं भास्वते नमः । ओं मोक्षहेतवे नमः । ओं अयोनिजाय नमः । ओं सर्वदर्शिने नमः । ओं जितादर्शाय नमः । ओं दुःस्वप्नाशुभनाशनाय नमः । 560 ओं माङ्गल्यकर्त्रे नमः । ओं तरणये नमः । ओं वेगवते नमः । ओं कश्मलापहाय नमः । ओं स्पष्टाक्षराय नमः । ओं महामन्त्राय नमः । ओं विशाखाय नमः । ओं यजनप्रियाय नमः । ओं विश्वकर्मणे नमः । ओं महाशक्तये नमः । ओं द्युतये नमः । ओं ईशाय नमः । ओं विहङ्गमाय नमः । ओं विचक्षणाय नमः । ओं दक्षाय नमः । ओं इन्द्राय नमः । ओं प्रत्यूषाय नमः । ओं प्रियदर्शनाय नमः । ओं अखिन्नाय नमः । ओं वेदनिलयाय नमः । 580 ओं वेदविदे नमः । ओं विदिताशयाय नमः । ओं प्रभाकराय नमः । ओं जितरिपवे नमः । ओं सुजनाय नमः । ओं अरुणसारथये नमः । ओं कुनाशिने नमः । ओं सुरताय नमः । ओं स्कन्दाय नमः । ओं महिताय नमः । ओं अभिमताय नमः । ओं गुरवे नमः । ओं ग्रहराजाय नमः । ओं ग्रहपतये नमः । ओं ग्रहनक्षत्रमण्डलाय नमः । ओं भास्कराय नमः । ओं सततानन्दाय नमः । ओं नन्दनाय नमः । ओं नरवाहनाय नमः । ओं मङ्गलाय नमः । 600 ओं मङ्गलवते नमः । ओं माङ्गल्याय नमः । ओं मङ्गलावहाय नमः । ओं मङ्गल्यचारुचरिताय नमः । ओं शीर्णाय नमः । ओं सर्वव्रताय नमः । ओं व्रतिने नमः । ओं चतुर्मुखाय नमः । ओं पद्ममालिने नमः । ओं पूतात्मने नमः । ओं प्रणतार्तिघ्ने नमः । ओं अकिञ्चनाय नमः । ओं सतामीशाय नमः । ओं निर्गुणाय नमः । ओं गुणवते नमः । ओं शुचये नमः । ओं सम्पूर्णाय नमः । ओं पुण्डरीकाक्षाय नमः । ओं विधेयाय नमः । ओं योगतत्पराय नमः । 620 ओं सहस्रांशवे नमः । ओं क्रतुमतये नमः । ओं सर्वज्ञाय नमः । ओं सुमतये नमः । ओं सुवाचे नमः । ओं सुवाहनाय नमः । ओं माल्यदाम्ने नमः । ओं कृताहाराय नमः । ओं हरिप्रियाय नमः । ओं ब्रह्मणे नमः । ओं प्रचेतसे नमः । ओं प्रथिताय नमः । ओं प्रयतात्मने नमः । ओं स्थिरात्मकाय नमः । ओं शतविन्दवे नमः । ओं शतमुखाय नमः । ओं गरीयसे नमः । ओं अनलप्रभाय नमः । ओं धीराय नमः । ओं महत्तराय नमः । 640 ओं विप्राय नमः । ओं पुराणपुरुषोत्तमाय नमः । ओं विद्याराजाधिराजाय नमः । ओं विद्यावते नमः । ओं भूतिदाय नमः । ओं स्थिताय नमः । ओं अनिर्देश्यवपुषे नमः । ओं श्रीमते नमः । ओं विपाप्मने नमः । ओं बहुमङ्गलाय नमः । ओं स्वःस्थिताय नमः । ओं सुरथाय नमः । ओं स्वर्णाय नमः । ओं मोक्षदाय नमः । ओं बलिकेतनाय नमः । ओं निर्द्वन्द्वाय नमः । ओं द्वन्द्वघ्ने नमः । ओं स्वर्गाय नमः । ओं सर्वगाय नमः । ओं सम्प्रकाशकाय नमः । 660 ओं दयालवे नमः । ओं सूक्ष्मधिये नमः । ओं क्षान्तये नमः । ओं क्षेमाक्षेमस्थितिप्रियाय नमः । ओं भूधराय नमः । ओं भूपतये नमः । ओं वक्त्रे नमः । ओं पवित्रात्मने नमः । ओं त्रिलोचनाय नमः । ओं महावराहाय नमः । ओं प्रियकृते नमः । ओं दात्रे नमः । ओं भोक्त्रे नमः । ओं अभयप्रदाय नमः । ओं चक्रवर्तिने नमः । ओं धृतिकराय नमः । ओं सम्पूर्णाय नमः । ओं महेश्वराय नमः । ओं चतुर्वेदधराय नमः । ओं अचिन्त्याय नमः । 680 ओं विनिन्द्याय नमः । ओं विविधाशनाय नमः । ओं विचित्ररथाय नमः । ओं एकाकिने नमः । ओं सप्तसप्तये नमः । ओं परात्पराय नमः । ओं सर्वोदधिस्थितिकराय नमः । ओं स्थितिस्थेयाय नमः । ओं स्थितिप्रियाय नमः । ओं निष्कलाय नमः । ओं पुष्कलाय नमः । ओं विभवे नमः । ओं वसुमते नमः । ओं वासवप्रियाय नमः । ओं पशुमते नमः । ओं वासवस्वामिने नमः । ओं वसुधाम्ने नमः । ओं वसुप्रदाय नमः । ओं बलवते नमः । ओं ज्ञानवते नमः । 700 ओं तत्त्वाय नमः । ओं ओङ्काराय नमः । ओं त्रिषुसंस्थिताय नमः । ओं सङ्कल्पयोनये नमः । ओं दिनकृते नमः । ओं भगवते नमः । ओं कारणापहाय नमः । ओं नीलकण्ठाय नमः । ओं धनाध्यक्षाय नमः । ओं चतुर्वेदप्रियंवदाय नमः । ओं वषट्काराय नमः । ओं उद्गात्रे नमः । ओं होत्रे नमः । ओं स्वाहाकाराय नमः । ओं हुताहुतये नमः । ओं जनार्दनाय नमः । ओं जनानन्दाय नमः । ओं नराय नमः । ओं नारायणाय नमः । ओं अम्बुदाय नमः । 720 ओं सन्देहनाशनाय नमः । ओं वायवे नमः । ओं धन्विने नमः । ओं सुरनमस्कृताय नमः । ओं विग्रहिने नमः । ओं विमलाय नमः । ओं विन्दवे नमः । ओं विशोकाय नमः । ओं विमलद्युतये नमः । ओं द्युतिमते नमः । ओं द्योतनाय नमः । ओं विद्युते नमः । ओं विद्यावते नमः । ओं विदिताय नमः । ओं बलिने नमः । ओं घर्मदाय नमः । ओं हिमदाय नमः । ओं हासाय नमः । ओं कृष्णवर्त्मने नमः । ओं सुताजिताय नमः । 740 ओं सावित्रीभाविताय नमः । ओं राज्ञे नमः । ओं विश्वामित्राय नमः । ओं घृणये नमः । ओं विराजे नमः । ओं सप्तार्चिषे नमः । ओं सप्ततुरगाय नमः । ओं सप्तलोकनमस्कृताय नमः । ओं सम्पूर्णाय नमः । ओं जगन्नाथाय नमः । ओं सुमनसे नमः । ओं शोभनप्रियाय नमः । ओं सर्वात्मने नमः । ओं सर्वकृते नमः । ओं सृष्टये नमः । ओं सप्तिमते नमः । ओं सप्तमीप्रियाय नमः । ओं सुमेधसे नमः । ओं मेधिकाय नमः । ओं मेध्याय नमः । 760 ओं मेधाविने नमः । ओं मधुसूदनाय नमः । ओं अङ्गिरःपतये नमः । ओं कालज्ञाय नमः । ओं धूमकेतवे नमः । ओं सुकेतनाय नमः । ओं सुखिने नमः । ओं सुखप्रदाय नमः । ओं सौख्याय नमः । ओं कान्तये नमः । ओं कान्तिप्रियाय नमः । ओं मुनये नमः । ओं सन्तापनाय नमः । ओं सन्तपनाय नमः । ओं आतपाय नमः । ओं तपसां पतये नमः । ओं उमापतये नमः । ओं सहस्रांशवे नमः । ओं प्रियकारिणे नमः । ओं प्रियङ्कराय नमः । 780 ओं प्रीतये नमः । ओं विमन्यवे नमः । ओं अम्भोत्थाय नमः । ओं खञ्जनाय नमः । ओं जगतां पतये नमः । ओं जगत्पित्रे नमः । ओं प्रीतमनसे नमः । ओं सर्वाय नमः । ओं खर्वाय नमः । ओं गुहाय नमः । ओं अचलाय नमः । ओं सर्वगाय नमः । ओं जगदानन्दाय नमः । ओं जगन्नेत्रे नमः । ओं सुरारिघ्ने नमः । ओं श्रेयसे नमः । ओं श्रेयस्कराय नमः । ओं ज्यायसे नमः । ओं महते नमः । ओं उत्तमाय नमः । 800 ओं उद्भवाय नमः । ओं उत्तमाय नमः । ओं मेरुमेयाय नमः । ओं धरणाय नमः । ओं धरणीधराय नमः । ओं धराध्यक्षाय नमः । ओं धर्मराजाय नमः । ओं धर्माधर्मप्रवर्तकाय नमः । ओं रथाध्यक्षाय नमः । ओं रथगतये नमः । ओं तरुणाय नमः । ओं तनिताय नमः । ओं अनलाय नमः । ओं उत्तराय नमः । ओं अनुत्तराय नमः । ओं तापिने नमः । ओं अवाक्पतये नमः । ओं अपां पतये नमः । ओं पुण्यसङ्कीर्तनाय नमः । ओं पुण्याय नमः । 820 ओं हेतवे नमः । ओं लोकत्रयाश्रयाय नमः । ओं स्वर्भानवे नमः । ओं विगतानन्दाय नमः । ओं विशिष्टोत्कृष्टकर्मकृते नमः । ओं व्याधिप्रणाशनाय नमः । ओं क्षेमाय नमः । ओं शूराय नमः । ओं सर्वजितां वराय नमः । ओं एकरथाय नमः । ओं रथाधीशाय नमः । ओं शनैश्चरस्य पित्रे नमः । ओं वैवस्वतगुरवे नमः । ओं मृत्यवे नमः । ओं धर्मनित्याय नमः । ओं महाव्रताय नमः । ओं प्रलम्बहारसञ्चारिणे नमः । ओं प्रद्योताय नमः । ओं द्योतितानलाय नमः । ओं सन्तापहृते नमः । 840 ओं परस्मै नमः । ओं मन्त्राय नमः । ओं मन्त्रमूर्तये नमः । ओं महाबलाय नमः । ओं श्रेष्ठात्मने नमः । ओं सुप्रियाय नमः । ओं शम्भवे नमः । ओं मरुतामीश्वरेश्वराय नमः । ओं संसारगतिविच्छेत्त्रे नमः । ओं संसारार्णवतारकाय नमः । ओं सप्तजिह्वाय नमः । ओं सहस्रार्चिषे नमः । ओं रत्नगर्भाय नमः । ओं अपराजिताय नमः । ओं धर्मकेतवे नमः । ओं अमेयात्मने नमः । ओं धर्माधर्मवरप्रदाय नमः । ओं लोकसाक्षिणे नमः । ओं लोकगुरवे नमः । ओं लोकेशाय नमः । 860 ओं चण्डवाहनाय नमः । ओं धर्मयूपाय नमः । ओं यूपवृक्षाय नमः । ओं धनुष्पाणये नमः । ओं धनुर्धराय नमः । ओं पिनाकधृते नमः । ओं महोत्साहाय नमः । ओं महामायाय नमः । ओं महाशनाय नमः । ओं वीराय नमः । ओं शक्तिमतां श्रेष्ठाय नमः । ओं सर्वशस्त्रभृतां वराय नमः । ओं ज्ञानगम्याय नमः । ओं दुराराध्याय नमः । ओं लोहिताङ्गाय नमः । ओं विवर्धनाय नमः । ओं खगाय नमः । ओं अन्धाय नमः । ओं धर्मदाय नमः । ओं नित्याय नमः । 880 ओं धर्मकृते नमः । ओं चित्रविक्रमाय नमः । ओं भगवते नमः । ओं आत्मवते नमः । ओं मन्त्राय नमः । ओं त्र्यक्षराय नमः । ओं नीललोहिताय नमः । ओं एकाय नमः । ओं अनेकाय नमः । ओं त्रयिने नमः । ओं कालाय नमः । ओं सवित्रे नमः । ओं समितिञ्जयाय नमः । ओं शार्ङ्गधन्वने नमः । ओं अनलाय नमः । ओं भीमाय नमः । ओं सर्वप्रहरणायुधाय नमः । ओं सुकर्मणे नमः । ओं परमेष्ठिने नमः । ओं नाकपालिने नमः । 900 ओं दिविस्थिताय नमः । ओं वदान्याय नमः । ओं वासुकये नमः । ओं वैद्याय नमः । ओं आत्रेयाय नमः । ओं पराक्रमाय नमः । ओं द्वापराय नमः । ओं परमोदाराय नमः । ओं परमाय नमः । ओं ब्रह्मचर्यवते नमः । ओं उदीच्यवेषाय नमः । ओं मुकुटिने नमः । ओं पद्महस्ताय नमः । ओं हिमांशुभृते नमः । ओं सिताय नमः । ओं प्रसन्नवदनाय नमः । ओं पद्मोदरनिभाननाय नमः । ओं सायं दिवा दिव्यवपुषे नमः । ओं अनिर्देश्याय नमः । ओं महालयाय नमः । 920 ओं महारथाय नमः । ओं महते नमः । ओं ईशाय नमः । ओं शेषाय नमः । ओं सत्त्वरजस्तमसे नमः । ओं धृतातपत्रप्रतिमाय नमः । ओं विमर्षिणे नमः । ओं निर्णयाय नमः । ओं स्थिताय नमः । ओं अहिंसकाय नमः । ओं शुद्धमतये नमः । ओं अद्वितीयाय नमः । ओं विवर्धनाय नमः । ओं सर्वदाय नमः । ओं धनदाय नमः । ओं मोक्षाय नमः । ओं विहारिणे नमः । ओं बहुदायकाय नमः । ओं चारुरात्रिहराय नमः । ओं नाथाय नमः । 940 ओं भगवते नमः । ओं सर्वगाय नमः । ओं अव्ययाय नमः । ओं मनोहरवपुषे नमः । ओं शुभ्राय नमः । ओं शोभनाय नमः । ओं सुप्रभावनाय नमः । ओं सुप्रभावाय नमः । ओं सुप्रतापाय नमः । ओं सुनेत्राय नमः । ओं दिग्विदिक्पतये नमः । ओं राज्ञीप्रियाय नमः । ओं शब्दकराय नमः । ओं ग्रहेशाय नमः । ओं तिमिरापहाय नमः । ओं सैंहिकेयरिपवे नमः । ओं देवाय नमः । ओं वरदाय नमः । ओं वरनायकाय नमः । ओं चतुर्भुजाय नमः । 960 ओं महायोगिने नमः । ओं योगीश्वरपतये नमः । ओं अनादिरूपाय नमः । ओं अदितिजाय नमः । ओं रत्नकान्तये नमः । ओं प्रभामयाय नमः । ओं जगत्प्रदीपाय नमः । ओं विस्तीर्णाय नमः । ओं महाविस्तीर्णमण्डलाय नमः । ओं एकचक्ररथाय नमः । ओं स्वर्णरथाय नमः । ओं स्वर्णशरीरधृषे नमः । ओं निरालम्बाय नमः । ओं गगनगाय नमः । ओं धर्मकर्मप्रभावकृते नमः । ओं धर्मात्मने नमः । ओं कर्मणां साक्षिणे नमः । ओं प्रत्यक्षाय नमः । ओं परमेश्वराय नमः । ओं मेरुसेविने नमः । 980 ओं सुमेधाविने नमः । ओं मेरुरक्षाकराय नमः । ओं महते नमः । ओं आधारभूताय नमः । ओं रतिमते नमः । ओं धनधान्यकृते नमः । ओं पापसन्तापहर्त्रे नमः । ओं मनोवाञ्छितदायकाय नमः । ओं रोगहर्त्रे नमः । ओं राज्यदायिने नमः । ओं रमणीयगुणाय नमः । ओं अनृणिने नमः । ओं कालत्रयानन्तरूपाय नमः । ओं मुनिवृन्दनमस्कृताय नमः । ओं सन्ध्यारागकराय नमः । ओं सिद्धाय नमः । ओं सन्ध्यावन्दनवन्दिताय नमः । ओं साम्राज्यदाननिरताय नमः । ओं समाराधनतोषवते नमः । ओं भक्तदुःखक्षयकराय नमः । 1000 ओं भवसागरतारकाय नमः । ओं भयापहर्त्रे नमः । ओं भगवते नमः । ओं अप्रमेयपराक्रमाय नमः । ओं मनुस्वामिने नमः ओं मनुपतये नमः । ओं मान्याय नमः । ओं मन्वन्तराधिपाय नमः । 1008 इति श्री सूर्य सहस्रनामावली ।

Recite with devotion and pure heart

Regular practice brings spiritual benefits