Haindavam Logo - Lord Ganesha

हैंदवम्

📍
Font Size:

सूर्य मण्डल स्तोत्रम्

नमोऽस्तु सूर्याय सहस्ररश्मये सहस्रशाखान्वित सम्भवात्मने सहस्रयोगोद्भव भावभागिने सहस्रसङ्ख्यायुधधारिणे नमः 1 यन्मण्डलं दीप्तिकरं विशालं रत्नप्रभं तीव्रमनादिरूपम् दारिद्र्यदुःखक्षयकारणं पुनातु मां तत्सवितुर्वरेण्यम् 2 यन्मण्डलं देवगणैः सुपूजितं विप्रैः स्तुतं भावनमुक्तिकोविदम् तं देवदेवं प्रणमामि सूर्यं पुनातु मां तत्सवितुर्वरेण्यम् 3 यन्मण्डलं ज्ञानघनन्त्वगम्यं त्रैलोक्यपूज्यं त्रिगुणात्मरूपम् समस्ततेजोमयदिव्यरूपं पुनातु मां तत्सवितुर्वरेण्यम् 4 यन्मण्डलं गूढमतिप्रबोधं धर्मस्य वृद्धिं कुरुते जनानाम् यत्सर्वपापक्षयकारणं पुनातु मां तत्सवितुर्वरेण्यम् 5 यन्मण्डलं व्याधिविनाशदक्षं यदृग्यजुः सामसु सम्प्रगीतम् प्रकाशितं येन भूर्भुवः स्वः पुनातु मां तत्सवितुर्वरेण्यम् 6 यन्मण्डलं वेदविदो वदन्ति गायन्ति यच्चारणसिद्धसङ्घाः यद्योगिनो योगजुषां सङ्घाः पुनातु मां तत्सवितुर्वरेण्यम् 7 यन्मण्डलं सर्वजनैश्च पूजितं ज्योतिश्च कुर्यादिह मर्त्यलोके यत्कालकालाद्यमनादिरूपं पुनातु मां तत्सवितुर्वरेण्यम् 8 यन्मण्डलं विष्णुचतुर्मुखाख्यं यदक्षरं पापहरं जनानाम् यत्कालकल्पक्षयकारणं पुनातु मां तत्सवितुर्वरेण्यम् 9 यन्मण्डलं विश्वसृजं प्रसिद्धं उत्पत्तिरक्षप्रलय प्रगल्भम् यस्मिन् जगत्संहरतेऽखिलं पुनातु मां तत्सवितुर्वरेण्यम् 10 यन्मण्डलं सर्वगतस्य विष्णोः आत्मा परं‍धाम विशुद्धतत्त्वम् सूक्ष्मान्तरैर्योगपथानुगम्यं पुनातु मां तत्सवितुर्वरेण्यम् 11 यन्मण्डलं वेदविदोपगीतं यद्योगिनां योग पथानुगम्यम् तत्सर्व वेद्यं प्रणमामि सूर्यं पुनातु मां तत्सवितुर्वरेण्यम् 12 सूर्यमण्डलसु स्तोत्रं यः पठेत्सततं नरः सर्वपापविशुद्धात्मा सूर्यलोके महीयते इति श्री भविष्योत्तरपुराणे श्री कृष्णार्जुन संवादे सूर्यमण्डल स्तोत्रम्

Recite with devotion and pure heart

Regular practice brings spiritual benefits