Haindavam Logo - Lord Ganesha

हैंदवम्

📍
Font Size:

सूर्य अष्टोत्तरशतनाम स्तोत्रम्

अरुणाय शरण्याय करुणारससिन्धवे असमानबलायाऽऽर्तरक्षकाय नमो नमः 1 आदित्यायाऽऽदिभूताय अखिलागमवेदिने अच्युतायाऽखिलज्ञाय अनन्ताय नमो नमः 2 इनाय विश्वरूपाय इज्यायैन्द्राय भानवे इन्दिरामन्दिराप्ताय वन्दनीयाय ते नमः 3 ईशाय सुप्रसन्नाय सुशीलाय सुवर्चसे वसुप्रदाय वसवे वासुदेवाय ते नमः 4 उज्ज्वलायोग्ररूपाय ऊर्ध्वगाय विवस्वते उद्यत्किरणजालाय हृषीकेशाय ते नमः 5 ऊर्जस्वलाय वीराय निर्जराय जयाय ऊरुद्वयाभावरूपयुक्तसारथये नमः 6 ऋषिवन्द्याय रुग्घन्त्रे ऋक्षचक्रचराय ऋजुस्वभावचित्ताय नित्यस्तुत्याय ते नमः 7 ॠकारमातृकावर्णरूपायोज्ज्वलतेजसे ॠक्षाधिनाथमित्राय पुष्कराक्षाय ते नमः 8 लुप्तदन्ताय शान्ताय कान्तिदाय घनाय कनत्कनकभूषाय खद्योताय नमो नमः 9 लूनिताखिलदैत्याय सत्यानन्दस्वरूपिणे अपवर्गप्रदायाऽऽर्तशरण्याय नमो नमः 10 एकाकिने भगवते सृष्टिस्थित्यन्तकारिणे गुणात्मने घृणिभृते बृहते ब्रह्मणे नमः 11 ऐश्वर्यदाय शर्वाय हरिदश्वाय शौरये दशदिक्सम्प्रकाशाय भक्तवश्याय ते नमः 12 ओजस्कराय जयिने जगदानन्दहेतवे जन्ममृत्युजराव्याधिवर्जिताय नमो नमः 13 औच्च्यस्थानसमारूढरथस्थायाऽसुरारये कमनीयकरायाऽब्जवल्लभाय नमो नमः 14 अन्तर्बहिःप्रकाशाय अचिन्त्यायाऽऽत्मरूपिणे अच्युतायाऽमरेशाय परस्मै ज्योतिषे नमः 15 अहस्कराय रवये हरये परमात्मने तरुणाय वरेण्याय ग्रहाणां पतये नमः 16 ओं नमो भास्करायाऽऽदिमध्यान्तरहिताय सौख्यप्रदाय सकलजगतां पतये नमः 17 नमः सूर्याय कवये नमो नारायणाय नमो नमः परेशाय तेजोरूपाय ते नमः 18 ओं श्रीं हिरण्यगर्भाय ओं ह्रीं सम्पत्कराय ओं ऐं इष्टार्थदायाऽनुप्रसन्नाय नमो नमः 19 श्रीमते श्रेयसे भक्तकोटिसौख्यप्रदायिने निखिलागमवेद्याय नित्यानन्दाय ते नमः 20 इत्यथर्वणरहस्ये श्री सूर्य अष्टोत्तरशतनाम स्तोत्रम् इतर श्री सूर्य स्तोत्राणि पश्यतु इतर नवग्रह स्तोत्राणि पश्यतु

Recite with devotion and pure heart

Regular practice brings spiritual benefits