Haindavam Logo - Lord Ganesha
Haindavam
📍
Font Size:

सूर्य अष्टोत्तरशतनामावलिः

ओं अरुणाय नमः । ओं शरण्याय नमः । ओं करुणारससिन्धवे नमः । ओं असमानबलाय नमः । ओं आर्तरक्षकाय नमः । ओं आदित्याय नमः । ओं आदिभूताय नमः । ओं अखिलागमवेदिने नमः । ओं अच्युताय नमः । ओं अखिलज्ञाय नमः । 10 ओं अनन्ताय नमः । ओं इनाय नमः । ओं विश्वरूपाय नमः । ओं इज्याय नमः । ओं इन्द्राय नमः । ओं भानवे नमः । ओं इन्दिरामन्दिराप्ताय नमः । ओं वन्दनीयाय नमः । ओं ईशाय नमः । ओं सुप्रसन्नाय नमः । 20 ओं सुशीलाय नमः । ओं सुवर्चसे नमः । ओं वसुप्रदाय नमः । ओं वसवे नमः । ओं वासुदेवाय नमः । ओं उज्ज्वलाय नमः । ओं उग्ररूपाय नमः । ओं ऊर्ध्वगाय नमः । ओं विवस्वते नमः । ओं उद्यत्किरणजालाय नमः । 30 ओं हृषीकेशाय नमः । ओं ऊर्जस्वलाय नमः । ओं वीराय नमः । ओं निर्जराय नमः । ओं जयाय नमः । ओं ऊरुद्वयाभावरूपयुक्तसारथये नमः । ओं ऋषिवन्द्याय नमः । ओं रुग्घन्त्रे नमः । ओं ऋक्षचक्रचराय नमः । ओं ऋजुस्वभावचित्ताय नमः । 40 ओं नित्यस्तुत्याय नमः । ओं ॠकारमातृकावर्णरूपाय नमः । ओं उज्ज्वलतेजसे नमः । ओं ॠक्षाधिनाथमित्राय नमः । ओं पुष्कराक्षाय नमः । ओं लुप्तदन्ताय नमः । ओं शान्ताय नमः । ओं कान्तिदाय नमः । ओं घनाय नमः । ओं कनत्कनकभूषाय नमः । 50 ओं खद्योताय नमः । ओं लूनिताखिलदैत्याय नमः । ओं सत्यानन्दस्वरूपिणे नमः । ओं अपवर्गप्रदाय नमः । ओं आर्तशरण्याय नमः । ओं एकाकिने नमः । ओं भगवते नमः । ओं सृष्टिस्थित्यन्तकारिणे नमः । ओं गुणात्मने नमः । ओं घृणिभृते नमः । 60 ओं बृहते नमः । ओं ब्रह्मणे नमः । ओं ऐश्वर्यदाय नमः । ओं शर्वाय नमः । ओं हरिदश्वाय नमः । ओं शौरये नमः । ओं दशदिक्सम्प्रकाशाय नमः । ओं भक्तवश्याय नमः । ओं ओजस्कराय नमः । ओं जयिने नमः । 70 ओं जगदानन्दहेतवे नमः । ओं जन्ममृत्युजराव्याधिवर्जिताय नमः । ओं औच्च्यस्थानसमारूढरथस्थाय नमः । ओं असुरारये नमः । ओं कमनीयकराय नमः । ओं अब्जवल्लभाय नमः । ओं अन्तर्बहिः प्रकाशाय नमः । ओं अचिन्त्याय नमः । ओं आत्मरूपिणे नमः । ओं अच्युताय नमः । 80 ओं अमरेशाय नमः । ओं परस्मै ज्योतिषे नमः । ओं अहस्कराय नमः । ओं रवये नमः । ओं हरये नमः । ओं परमात्मने नमः । ओं तरुणाय नमः । ओं वरेण्याय नमः । ओं ग्रहाणां पतये नमः । ओं भास्कराय नमः । 90 ओं आदिमध्यान्तरहिताय नमः । ओं सौख्यप्रदाय नमः । ओं सकलजगतां पतये नमः । ओं सूर्याय नमः । ओं कवये नमः । ओं नारायणाय नमः । ओं परेशाय नमः । ओं तेजोरूपाय नमः । ओं श्रीं हिरण्यगर्भाय नमः । ओं ह्रीं सम्पत्कराय नमः । 100 ओं ऐं इष्टार्थदाय नमः । ओं अनुप्रसन्नाय नमः । ओं श्रीमते नमः । ओं श्रेयसे नमः । ओं भक्तकोटिसौख्यप्रदायिने नमः । ओं निखिलागमवेद्याय नमः । ओं नित्यानन्दाय नमः । ओं श्री सूर्य नारायणाय नमः । 108

Recite with devotion and pure heart

Regular practice brings spiritual benefits