हैंदवम्
हैं
హై
हैंदवम्
ஹி
હિં
English
हिंदी
മലയാളം
తెలుగు
தமிழ்
ಕನ್ನಡ
📍
𖦏
Auto Detect Location
Font Size:
a
a
a
श्री सीताराम स्तोत्रम्
अयोध्यापुरनेतारं
मिथिलापुरनायिकाम्
।
राघवाणामलङ्कारं
वैदेहानामलङ्क्रियाम्
॥
1
॥
रघूणां
कुलदीपं
च
निमीनां
कुलदीपिकाम्
।
सूर्यवंशसमुद्भूतं
सोमवंशसमुद्भवाम्
॥
2
॥
पुत्रं
दशरथस्याद्यं
पुत्रीं
जनकभूपतेः
।
वशिष्ठानुमताचारं
शतानन्दमतानुगाम्
॥
3
॥
कौसल्यागर्भसम्भूतं
वेदिगर्भोदितां
स्वयम्
।
पुण्डरीकविशालाक्षं
स्फुरदिन्दीवरेक्षणाम्
॥
4
॥
चन्द्रकान्ताननाम्भोजं
चन्द्रबिम्बोपमाननाम्
।
मत्तमातङ्गगमनं
मत्तहंसवधूगताम्
॥
5
॥
चन्दनार्द्रभुजामध्यं
कुङ्कुमार्द्रकुचस्थलीम्
।
चापालङ्कृतहस्ताब्जं
पद्मालङ्कृतपाणिकाम्
॥
6
॥
शरणागतगोप्तारं
प्रणिपादप्रसादिकाम्
।
कालमेघनिभं
रामं
कार्तस्वरसमप्रभाम्
॥
7
॥
दिव्यसिंहासनासीनं
दिव्यस्रग्वस्त्रभूषणाम्
।
अनुक्षणं
कटाक्षाभ्यां
अन्योन्येक्षणकाङ्क्षिणौ
॥
8
॥
अन्योन्यसदृशाकारौ
त्रैलोक्यगृहदम्पती
।
इमौ
युवां
प्रणम्याहं
भजाम्यद्य
कृतार्थताम्
॥
9
॥
अनेन
स्तौति
यः
स्तुत्यं
रामं
सीतां
च
भक्तितः
।
तस्य
तौ
तनुतां
पुण्याः
सम्पदः
सकलार्थदाः
॥
10
॥
एवं
श्रीरामचन्द्रस्य
जानक्याश्च
विशेषतः
।
कृतं
हनूमता
पुण्यं
स्तोत्रं
सद्यो
विमुक्तिदम्
।
यः
पठेत्प्रातरुत्थाय
सर्वान्
कामानवाप्नुयात्
॥
11
॥
इति
हनूमत्कृत-सीताराम
स्तोत्रं
सम्पूर्णम्
॥
Recite with devotion and pure heart
Regular practice brings spiritual benefits