सुग्रीवमित्रं परमं पवित्रं
सीताकलत्रं नवमेघगात्रम् ।
कारुण्यपात्रं शतपत्रनेत्रं
श्रीरामचन्द्रं सततं नमामि ॥ 1 ॥
संसारसारं निगमप्रचारं
धर्मावतारं हृतभूमिभारम् ।
सदाऽविकारं सुखसिन्धुसारं
श्रीरामचन्द्रं सततं नमामि ॥ 2 ॥
लक्ष्मीविलासं जगतां निवासं
लङ्काविनाशं भुवनप्रकाशम् ।
भूदेववासं शरदिन्दुहासं
श्रीरामचन्द्रं सततं नमामि ॥ 3 ॥
मन्दारमालं वचने रसालं
गुणैर्विशालं हतसप्ततालम् ।
क्रव्यादकालं सुरलोकपालं
श्रीरामचन्द्रं सततं नमामि ॥ 4 ॥
वेदान्तगानं सकलैस्समानं
हृतारिमानं त्रिदशप्रधानम् ।
गजेन्द्रयानं विगतावसानं
श्रीरामचन्द्रं सततं नमामि ॥ 5 ॥
श्यामाभिरामं नयनाभिरामं
गुणाभिरामं वचनाभिरामम् ।
विश्वप्रणामं कृतभक्तकामं
श्रीरामचन्द्रं सततं नमामि ॥ 6 ॥
लीलाशरीरं रणरङ्गधीरं
विश्वैकसारं रघुवंशहारम् ।
गम्भीरवादं जितसर्ववादं
श्रीरामचन्द्रं सततं नमामि ॥ 7 ॥
खले कृतान्तं स्वजने विनीतं
सामोपगीतं मनसा प्रतीतम् ।
रागेण गीतं वचनादतीतं
श्रीरामचन्द्रं सततं नमामि ॥ 8 ॥
श्रीरामचन्द्रस्य वराष्टकं त्वां
मयेरितं देवि मनोहरं ये ।
पठन्ति शृण्वन्ति गृणन्ति भक्त्या
ते स्वीयकामान् प्रलभन्ति नित्यम् ॥ 9 ॥
इति श्रीरामचन्द्राष्टकम् ।