हैंदवम्
हैं
హై
हैंदवम्
ஹி
હિં
English
हिंदी
മലയാളം
తెలుగు
தமிழ்
ಕನ್ನಡ
📍
𖦏
Auto Detect Location
Font Size:
a
a
a
श्री राम स्तवराज स्तोत्रम्
अस्य
श्रीरामचन्द्र
स्तवराजस्तोत्रमन्त्रस्य
सनत्कुमारऋषिः
।
श्रीरामो
देवता
।
अनुष्टुप्
छन्दः
।
सीता
बीजम्
।
हनुमान्
शक्तिः
।
श्रीरामप्रीत्यर्थे
जपे
विनियोगः
॥
सूत
उवाच
।
सर्वशास्त्रार्थतत्त्वज्ञं
व्यासं
सत्यवतीसुतम्
।
धर्मपुत्रः
प्रहृष्टात्मा
प्रत्युवाच
मुनीश्वरम्
॥
1
॥
युधिष्ठिर
उवाच
।
भगवन्योगिनां
श्रेष्ठ
सर्वशास्त्रविशारद
।
किं
तत्त्वं
किं
परं
जाप्यं
किं
ध्यानम्
मुक्तिसाधनम्
॥
2
॥
श्रोतुमिच्छामि
तत्सर्वं
ब्रूहि
मे
मुनिसत्तम
॥
3
॥
वेदव्यास
उवाच
।
धर्मराज
महाभाग
शृणु
वक्ष्यामि
तत्त्वतः
॥
4
॥
यत्परं
यद्गुणातीतं
यज्ज्योतिरमलं
शिवम्
।
तदेव
परमं
तत्त्वं
कैवल्यपदकारणम्
॥
5
॥
श्रीरामेति
परं
जाप्यं
तारकं
ब्रह्मसञ्ज्ञकम्
।
ब्रह्महत्यादिपापघ्नमिति
वेदविदो
विदुः
॥
6
॥
श्रीराम
रामेति
जना
ये
जपन्ति
च
सर्वदा
।
तेषां
भुक्तिश्च
मुक्तिश्च
भविष्यति
न
संशयः
॥
7
॥
स्तवराजं
पुरा
प्रोक्तं
नारदेन
च
धीमता
।
तत्सर्वं
सम्प्रवक्ष्यामि
हरिध्यानपुरःसरम्
॥
8
॥
तापत्रयाग्निशमनं
सर्वाघौघनिकृन्तनम्
।
दारिद्र्यदुःखशमनं
सर्वसम्पत्करं
शिवम्
॥
9
॥
विज्ञानफलदं
दिव्यं
मोक्षैकफलसाधनम्
।
नमस्कृत्य
प्रवक्ष्यामि
रामं
कृष्णं
जगन्मयम्
॥
10
॥
अयोध्यानगरे
रम्ये
रत्नमण्डपमध्यगे
।
स्मरेत्कल्पतरोर्मूले
रत्नसिंहासनं
शुभम्
॥
11
॥
तन्मध्येऽष्टदलं
पद्मं
नानारत्नैश्च
वेष्टितम्
।
स्मरेन्मध्ये
दाशरथिं
सहस्रादित्यतेजसम्
॥
12
॥
पितुरङ्कगतं
राममिन्द्रनीलमणिप्रभम्
।
कोमलाङ्गं
विशालाक्षं
विद्युद्वर्णाम्बरावृतम्
॥
13
॥
भानुकोटिप्रतीकाश
किरीटेन
विराजितम्
।
रत्नग्रैवेयकेयूररत्नकुण्डलमण्डितम्
॥
14
॥
रत्नकङ्कणमञ्जीरकटिसूत्रैरलङ्कृतम्
।
श्रीवत्सकौस्तुभोरस्कं
मुक्ताहारोपशोभितम्
॥
15
॥
दिव्यरत्नसमायुक्तमुद्रिकाभिरलङ्कृतम्
।
राघवं
द्विभुजं
बालं
राममीषत्स्मिताननम्
॥
16
॥
तुलसीकुन्दमन्दारपुष्पमाल्यैरलङ्कृतम्
।
कर्पूरागुरुकस्तूरीदिव्यगन्धानुलेपनम्
॥
17
॥
योगशास्त्रेष्वभिरतं
योगेशं
योगदायकम्
।
सदा
भरतसौमित्रिशत्रुघ्नैरुपशोभितम्
॥
18
॥
विद्याधरसुराधीशसिद्धगन्धर्वकिन्नरैः
।
योगीन्द्रैर्नारदाद्यैश्च
स्तूयमानमहर्निशम्
॥
19
॥
विश्वामित्रवसिष्ठादिमुनिभिः
परिसेवितम्
।
सनकादिमुनिश्रेष्ठैर्योगिवृन्दैश्च
सेवितम्
॥
20
॥
रामं
रघुवरं
वीरं
धनुर्वेदविशारदम्
।
मङ्गलायतनं
देवं
रामं
राजीवलोचनम्
॥
21
॥
सर्वशास्त्रार्थतत्त्वज्ञमानन्दकरसुन्दरम्
।
कौसल्यानन्दनं
रामं
धनुर्बाणधरं
हरिम्
॥
22
॥
एवं
सञ्चिन्तयन्विष्णुं
यज्ज्योतिरमलं
विभुम्
।
प्रहृष्टमानसो
भूत्वा
मुनिवर्यः
स
नारदः
॥
23
॥
सर्वलोकहितार्थाय
तुष्टाव
रघुनन्दनम्
।
कृताञ्जलिपुटो
भूत्वा
चिन्तयन्नद्भुतं
हरिम्
॥
24
॥
यदेकं
यत्परं
नित्यं
यदनन्तं
चिदात्मकम्
।
यदेकं
व्यापकं
लोके
तद्रूपं
चिन्तयाम्यहम्
॥
25
॥
विज्ञानहेतुं
विमलायताक्षं
प्रज्ञानरूपं
स्वसुखैकहेतुम्
।
श्रीरामचन्द्रं
हरिमादिदेवं
परात्परं
राममहं
भजामि
॥
26
॥
कविं
पुराणं
पुरुषं
पुरस्ता-
-त्सनातनं
योगिनमीशितारम्
।
अणोरणीयांसमनन्तवीर्यं
प्राणेश्वरं
राममसौ
ददर्श
॥
27
॥
नारद
उवाच
।
नारायणं
जगन्नाथमभिरामं
जगत्पतिम्
।
कविं
पुराणं
वागीशं
रामं
दशरथात्मजम्
॥
28
॥
राजराजं
रघुवरं
कौसल्यानन्दवर्धनम्
।
भर्गं
वरेण्यं
विश्वेशं
रघुनाथं
जगद्गुरुम्
॥
29
॥
सत्यं
सत्यप्रियं
श्रेष्ठं
जानकीवल्लभं
विभुम्
।
सौमित्रिपूर्वजं
शान्तं
कामदं
कमलेक्षणम्
॥
30
॥
आदित्यं
रविमीशानं
घृणिं
सूर्यमनामयम्
।
आनन्दरूपिणं
सौम्यं
राघवं
करुणामयम्
॥
31
॥
जामदग्निं
तपोमूर्तिं
रामं
परशुधारिणम्
।
वाक्पतिं
वरदं
वाच्यं
श्रीपतिं
पक्षिवाहनम्
॥
32
॥
श्रीशार्ङ्गधारिणं
रामं
चिन्मयानन्दविग्रहम्
।
हलधृग्विष्णुमीशानं
बलरामं
कृपानिधिम्
॥
33
॥
श्रीवल्लभं
कृपानाथं
जगन्मोहनमच्युतम्
।
मत्स्यकूर्मवराहादिरूपधारिणमव्ययम्
॥
34
॥
वासुदेवं
जगद्योनिमनादिनिधनं
हरिम्
।
गोविन्दं
गोपतिं
विष्णुं
गोपीजनमनोहरम्
॥
35
॥
गोगोपालपरीवारं
गोपकन्यासमावृतम्
।
विद्युत्पुञ्जप्रतीकाशं
रामं
कृष्णं
जगन्मयम्
॥
36
॥
गोगोपिकासमाकीर्णं
वेणुवादनतत्परम्
।
कामरूपं
कलावन्तं
कामिनीकामदं
विभुम्
॥
37
॥
मन्मथं
मथुरानाथं
माधवं
मकरध्वजम्
।
श्रीधरं
श्रीकरं
श्रीशं
श्रीनिवासं
परात्परम्
॥
38
॥
भूतेशं
भूपतिं
भद्रं
विभूतिं
भूमिभूषणम्
।
सर्वदुःखहरं
वीरं
दुष्टदानववैरिणम्
॥
39
॥
श्रीनृसिंहं
महाबाहुं
महान्तं
दीप्ततेजसम्
।
चिदानन्दमयं
नित्यं
प्रणवं
ज्योतिरूपिणम्
॥
40
॥
आदित्यमण्डलगतं
निश्चितार्थस्वरूपिणम्
।
भक्तिप्रियं
पद्मनेत्रं
भक्तानामीप्सितप्रदम्
॥
41
॥
कौसल्येयं
कलामूर्तिं
काकुत्स्थं
कमलाप्रियम्
।
सिंहासने
समासीनं
नित्यव्रतमकल्मषम्
॥
42
॥
विश्वामित्रप्रियं
दान्तं
स्वदारनियतव्रतम्
।
यज्ञेशं
यज्ञपुरुषं
यज्ञपालनतत्परम्
॥
43
॥
सत्यसन्धं
जितक्रोधं
शरणागतवत्सलम्
।
सर्वक्लेशापहरणं
विभीषणवरप्रदम्
॥
44
॥
दशग्रीवहरं
रौद्रं
केशवं
केशिमर्दनम्
।
वालिप्रमथनं
वीरं
सुग्रीवेप्सितराज्यदम्
॥
45
॥
नरवानरदेवैश्चसेवितं
हनुमत्प्रियम्
।
शुद्धं
सूक्ष्मं
परं
शान्तं
तारकं
ब्रह्मरूपिणम्
॥
46
॥
सर्वभूतात्मभूतस्थं
सर्वाधारं
सनातनम्
।
सर्वकारणकर्तारं
निदानं
प्रकृतेः
परम्
॥
47
॥
निरामयं
निराभासं
निरवद्यं
निरञ्जनम्
।
नित्यानन्दं
निराकारमद्वैतं
तमसः
परम्
॥
48
॥
परात्परतरं
तत्त्वं
सत्यानन्दं
चिदात्मकम्
।
मनसा
शिरसा
नित्यं
प्रणमामि
रघूत्तमम्
॥
49
॥
सूर्यमण्डलमध्यस्थं
रामं
सीतासमन्वितम्
।
नमामि
पुण्डरीकाक्षममेयं
गुरुतत्परम्
॥
50
॥
नमोऽस्तु
वासुदेवाय
ज्योतिषां
पतये
नमः
।
नमोऽस्तु
रामदेवाय
जगदानन्दरूपिणे
॥
51
॥
नमो
वेदान्तनिष्ठाय
योगिने
ब्रह्मवादिने
।
मायामयनिरासाय
प्रपन्नजनसेविने
॥
52
॥
वन्दामहे
महेशानचण्डकोदण्डखण्डनम्
।
जानकीहृदयानन्दवर्धनं
रघुनन्दनम्
॥
53
॥
उत्फुल्लामलकोमलोत्पलदलश्यामाय
रामाय
ते-
-ऽकामाय
प्रमदामनोहरगुणग्रामाय
रामात्मने
।
योगारूढमुनीन्द्रमानससरोहंसाय
संसारवि-
-ध्वंसाय
स्फुरदोजसे
रघुकुलोत्तंसाय
पुंसे
नमः
॥
54
॥
भवोद्भवं
वेदविदां
वरिष्ठ-
-मादित्यचन्द्रानलसुप्रभावम्
।
सर्वात्मकं
सर्वगतस्वरूपं
नमामि
रामं
तमसः
परस्तात्
॥
55
॥
निरञ्जनं
निष्प्रतिमं
निरीहं
निराश्रयं
निष्कलमप्रपञ्चम्
।
नित्यं
ध्रुवं
निर्विषयस्वरूपं
निरन्तरं
राममहं
भजामि
॥
56
॥
भवाब्धिपोतं
भरताग्रजं
तं
भक्तिप्रियं
भानुकुलप्रदीपम्
।
भूतत्रिनाथं
भुवनाधिपं
तं
भजामि
रामं
भवरोगवैद्यम्
॥
57
॥
सर्वाधिपत्यं
समराङ्गधीरं
सत्यं
चिदानन्दमयस्वरूपम्
।
सत्यं
शिवं
शान्तिमयं
शरण्यं
सनातनं
राममहं
भजामि
॥
58
॥
कार्यक्रियाकारणमप्रमेयं
कविं
पुराणं
कमलायताक्षम्
।
कुमारवेद्यं
करुणामयं
तं
कल्पद्रुमं
राममहं
भजामि
॥
59
॥
त्रैलोक्यनाथं
सरसीरुहाक्षं
दयानिधिं
द्वन्द्वविनाशहेतुम्
।
महाबलं
वेदनिधिं
सुरेशं
सनातनं
राममहं
भजामि
॥
60
॥
वेदान्तवेद्यं
कविमीशितार-
-मनादिमध्यान्तमचिन्त्यमाद्यम्
।
अगोचरं
निर्मलमेकरूपं
नमामि
रामं
तमसः
परस्तात्
॥
61
॥
अशेषवेदात्मकमादिसञ्ज्ञ-
-मजं
हरिं
विष्णुमनन्तमाद्यम्
।
अपारसंवित्सुखमेकरूपं
परात्परं
राममहं
भजामि
॥
62
॥
तत्त्वस्वरूपं
पुरुषं
पुराणं
स्वतेजसा
पूरितविश्वमेकम्
।
राजाधिराजं
रविमण्डलस्थं
विश्वेश्वरं
राममहं
भजामि
॥
63
॥
लोकाभिरामं
रघुवंशनाथं
हरिं
चिदानन्दमयं
मुकुन्दम्
।
अशेषविद्याधिपतिं
कवीन्द्रं
नमामि
रामं
तमसः
परस्तात्
॥
64
॥
योगीन्द्रसङ्घैश्च
सुसेव्यमानं
नारायणं
निर्मलमादिदेवम्
।
नतोऽस्मि
नित्यं
जगदेकनाथ-
-मादित्यवर्णं
तमसः
परस्तात्
॥
65
॥
विभूतिदं
विश्वसृजं
विरामं
राजेन्द्रमीशं
रघुवंशनाथम्
।
अचिन्त्यमव्यक्तमनन्तमूर्तिं
ज्योतिर्मयं
राममहं
भजामि
॥
66
॥
अशेषसंसारविहारहीन-
-मादित्यगं
पूर्णसुखाभिरामम्
।
समस्तसाक्षिं
तमसः
परस्ता-
-न्नारायणं
विष्णुमहं
भजामि
॥
67
॥
मुनीन्द्रगुह्यं
परिपूर्णकामं
कलानिधिं
कल्मषनाशहेतुम्
।
परात्परं
यत्परमं
पवित्रं
नमामि
रामं
महतो
महान्तम्
॥
68
॥
ब्रह्मा
विष्णुश्च
रुद्रश्च
देवेन्द्रो
देवतास्तथा
।
आदित्यादिग्रहाश्चैव
त्वमेव
रघुनन्दन
॥
69
॥
तापसा
ऋषयः
सिद्धाः
साध्याश्च
मरुतस्तथा
।
विप्रा
वेदास्तथा
यज्ञाः
पुराणं
धर्मसंहिताः
॥
70
॥
वर्णाश्रमास्तथा
धर्मा
वर्णधर्मास्तथैव
च
।
यक्षराक्षसगन्धर्वादिक्पाला
दिग्गजादयः
॥
71
॥
सनकादिमुनिश्रेष्ठास्त्वमेव
रघुपुङ्गव
।
वसवोऽष्टौ
त्रयः
काला
रुद्रा
एकादश
स्मृताः
॥
72
॥
तारकाः
दश
दिक्
चैव
त्वमेव
रघुनन्दन
।
सप्तद्वीपाः
समुद्राश्च
नगाः
नद्यस्तथा
द्रुमाः
॥
73
॥
स्थावराः
जङ्गमाश्चैव
त्वमेव
रघुनायक
।
देवतिर्यङ्मनुष्याणां
दानवानां
तथैव
च
॥
74
॥
माता
पिता
तथा
भ्राता
त्वमेव
रघुवल्लभ
।
सर्वेषां
त्वं
परं
ब्रह्म
त्वन्मयं
सर्वमेव
हि
॥
75
॥
त्वमक्षरं
परं
ज्योतिस्त्वमेव
पुरुषोत्तम
।
त्वमेव
तारकं
ब्रह्म
त्वत्तोऽन्यन्नैव
किञ्चन
॥
76
॥
शान्तं
सर्वगतं
सूक्ष्मं
परं
ब्रह्म
सनातनम्
।
राजीवलोचनं
रामं
प्रणमामि
जगत्पतिम्
॥
77
॥
व्यास
उवाच
।
ततः
प्रसन्नः
श्रीरामः
प्रोवाच
मुनिपुङ्गवम्
।
तुष्टोऽस्मि
मुनिशार्दूल
वृणीष्व
वरमुत्तमम्
॥
78
॥
नारद
उवाच
।
यदि
तुष्टोऽसि
सर्वज्ञ
श्रीराम
करुणानिधे
।
त्वन्मूर्तिदर्शनेनैव
कृतार्थोऽहं
च
सर्वदा
॥
79
॥
धन्योऽहं
कृतकृत्योऽहं
पुण्योऽहं
पुरुषोत्तम
।
अद्य
मे
सफलं
जन्म
जीवितं
सफलं
च
मे
॥
80
॥
अद्य
मे
सफलं
ज्ञानमद्य
मे
सफलं
तपः
।
अद्य
मे
सफलं
कर्म
त्वत्पादाम्भोजदर्शनात्
॥
81
॥
अद्य
मे
सफलं
सर्वं
त्वन्नामस्मरणं
तथा
।
त्वत्पादाम्भोरुहद्वन्द्वसद्भक्तिं
देहि
राघव
॥
82
ततः
परमसम्प्रीतः
स
रामः
प्राह
नारदम्
।
मेघगम्भीरया
वाचा
धन्वी
वीजितमन्मथः
॥
83
॥
श्रीराम
उवाच
।
मुनिवर्य
महाभाग
मुने
त्विष्टं
ददामि
ते
।
यत्त्वया
चेप्सितं
सर्वं
मनसा
तद्भविष्यति
॥
84
॥
नारद
उवाच
।
वरं
न
याचे
रघुनाथ
युष्म-
-त्पदाब्जभक्तिः
सततं
ममास्तु
।
इदं
प्रियं
नाथ
वरं
प्रयाच्छ
पुनः
पुनस्त्वामिदमेव
याचे
॥
85
॥
व्यास
उवाच
।
इत्येवमीडितो
रामः
प्रादात्तस्मै
वरान्तरम्
।
वीरो
रामो
महातेजाः
सच्चिदानन्दविग्रहः
॥
86
॥
अद्वैतममलं
ज्ञानं
स्वनामस्मरणं
तथा
।
अन्तर्दधौ
जगन्नाथः
पुरतस्तस्य
राघवः
॥
87
॥
इति
श्रीरघुनाथस्य
स्तवराजमनुत्तमम्
।
सर्वसौभाग्यसम्पत्तिदायकं
मुक्तिदं
शुभम्
॥
88
॥
कथितं
ब्रह्मपुत्रेण
वेदानां
सारमुत्तमम्
।
गुह्याद्गुह्यतमं
दिव्यं
तव
स्नेहात्प्रकीर्तितम्
॥
89
॥
यः
पठेच्छृणुयाद्वापि
त्रिसन्ध्यं
श्रद्धयान्वितः
।
ब्रह्महत्यादिपापानि
तत्समानि
बहूनि
च
॥
90
॥
स्वर्णस्तेयं
सुरापानं
गुरुतल्पगतिस्तथा
।
गोवधाद्युपपापानि
अनृतात्सम्भवानि
च
॥
91
॥
सर्वैः
प्रमुच्यते
पापैः
कल्पायुतशतोद्भवैः
।
मानसं
वाचिकं
पापं
कर्मणा
समुपार्जितम्
॥
92
॥
श्रीरामस्मरणेनैव
तत्क्षणान्नश्यति
ध्रुवम्
।
इदं
सत्यमिदं
सत्यं
सत्यमेतदिहोच्यते
॥
93
॥
रामं
सत्यं
परं
ब्रह्म
रामात्किञ्चिन्न
विद्यते
।
तस्माद्रामस्वरूपं
हि
सत्यं
सत्यमिदं
जगत्
॥
94
॥
श्रीरामचन्द्र
रघुपुङ्गव
राजवर्य
रजेन्द्र
राम
रघुनायक
राघवेश
।
राजाधिराज
रघुनन्दन
रामचन्द्र
दासोऽहमद्य
भवतः
शरणागतोऽस्मि
॥
95
॥
वैदेहीसहितं
सुरद्रुमतले
हैमे
महामण्डपे
मध्ये
पुष्पकमासने
मणिमये
वीरासने
संस्थितम्
।
अग्रे
वाचयति
प्रभञ्जनसुते
तत्त्वं
मुनिभ्यः
परं
व्याख्यातं
भरतादिभिः
परिवृतं
रामं
भजे
श्यामलम्
॥
96
॥
रामं
रत्नकिरीटकुण्डलयुतं
केयूरहारान्वितं
सीतालङ्कृतवामभागममलं
सिंहासनस्थं
विभुम्
।
सुग्रीवादिहरीश्वरैः
सुरगणैः
संसेव्यमानं
सदा
विश्वामित्रपराशरादिमुनिभिः
संस्तूयमानं
प्रभुम्
॥
97
॥
सकलगुणनिधानं
योगिभिः
स्तूयमानं
भुजविजितसमानं
राक्षसेन्द्रादिमानम्
।
महितनृपभयानं
सीतया
शोभमानं
स्मर
हृदय
विमानं
ब्रह्म
रामाभिधानम्
॥
98
॥
रघुवर
तव
मूर्तिर्मामके
मानसाब्जे
नरकगतिहरं
ते
नामधेयं
मुखे
मे
।
अनिशमतुलभक्त्या
मस्तकं
त्वत्पदाब्जे
भवजलनिधिमग्नं
रक्ष
मामार्तबन्धो
॥
99
॥
रामरत्नमहं
वन्दे
चित्रकूटपतिं
हरिम्
।
कौसल्याभक्तिसम्भूतं
जानकीकण्ठभूषणम्
॥
100
॥
इति
श्रीसनत्कुमारसंहितायां
नारदोक्तं
श्रीरामस्तवराजस्तोत्रं
सम्पूर्णम्
।
Recite with devotion and pure heart
Regular practice brings spiritual benefits