हैंदवम्
हैं
హై
हैंदवम्
ஹி
હિં
English
हिंदी
മലയാളം
తెలుగు
தமிழ்
ಕನ್ನಡ
📍
𖦏
Auto Detect Location
Font Size:
a
a
a
श्री राम रक्षा स्तोत्रम्
ओं
अस्य
श्री
रामरक्षा
स्तोत्रमन्त्रस्य
बुधकौशिक
ऋषिः
श्री
सीताराम
चन्द्रोदेवता
अनुष्टुप्
छन्दः
सीता
शक्तिः
श्रीमद्
हनुमान्
कीलकम्
श्रीरामचन्द्र
प्रीत्यर्थे
रामरक्षा
स्तोत्रजपे
विनियोगः
॥
ध्यानम्
ध्यायेदाजानुबाहुं
धृतशर
धनुषं
बद्ध
पद्मासनस्थं
पीतं
वासोवसानं
नवकमल
दलस्पर्थि
नेत्रं
प्रसन्नम्
।
वामाङ्कारूढ
सीतामुख
कमलमिलल्लोचनं
नीरदाभं
नानालङ्कार
दीप्तं
दधतमुरु
जटामण्डलं
रामचन्द्रम्
॥
स्तोत्रम्
चरितं
रघुनाथस्य
शतकोटि
प्रविस्तरम्
।
एकैकमक्षरं
पुंसां
महापातक
नाशनम्
॥
1
॥
ध्यात्वा
नीलोत्पल
श्यामं
रामं
राजीवलोचनम्
।
जानकी
लक्ष्मणोपेतं
जटामुकुट
मण्डितम्
॥
2
॥
सासितूण
धनुर्बाण
पाणिं
नक्तं
चरान्तकम्
।
स्वलीलया
जगत्त्रातु
माविर्भूतमजं
विभुम्
॥
3
॥
रामरक्षां
पठेत्प्राज्ञः
पापघ्नीं
सर्वकामदाम्
।
शिरो
मे
राघवः
पातु
फालं
(भालं)
दशरथात्मजः
॥
4
॥
कौसल्येयो
दृशौपातु
विश्वामित्रप्रियः
शृती
।
घ्राणं
पातु
मखत्राता
मुखं
सौमित्रिवत्सलः
॥
5
॥
जिह्वां
विद्यानिधिः
पातु
कण्ठं
भरतवन्दितः
।
स्कन्धौ
दिव्यायुधः
पातु
भुजौ
भग्नेशकार्मुकः
॥
6
॥
करौ
सीतापतिः
पातु
हृदयं
जामदग्न्यजित्
।
मध्यं
पातु
खरध्वंसी
नाभिं
जाम्बवदाश्रयः
॥
7
॥
सुग्रीवेशः
कटिं
पातु
सक्थिनी
हनुमत्-प्रभुः
।
ऊरू
रघूत्तमः
पातु
रक्षःकुल
विनाशकृत्
॥
8
॥
जानुनी
सेतुकृत्-पातु
जङ्घे
दशमुखान्तकः
।
पादौ
विभीषणश्रीदः
पातु
रामोऽखिलं
वपुः
॥
9
॥
एतां
रामबलोपेतां
रक्षां
यः
सुकृती
पठेत्
।
स
चिरायुः
सुखी
पुत्री
विजयी
विनयी
भवेत्
॥
10
॥
पाताल-भूतल-व्योम-चारिण-श्चद्म-चारिणः
।
न
द्रष्टुमपि
शक्तास्ते
रक्षितं
रामनामभिः
॥
11
॥
रामेति
रामभद्रेति
रामचन्द्रेति
वा
स्मरन्
।
नरो
न
लिप्यते
पापैर्भुक्तिं
मुक्तिं
च
विन्दति
॥
12
॥
जगज्जैत्रैक
मन्त्रेण
रामनाम्नाभि
रक्षितम्
।
यः
कण्ठे
धारयेत्तस्य
करस्थाः
सर्वसिद्धयः
॥
13
॥
वज्रपञ्जर
नामेदं
यो
रामकवचं
स्मरेत्
।
अव्याहताज्ञः
सर्वत्र
लभते
जयमङ्गलम्
॥
14
॥
आदिष्टवान्-यथा
स्वप्ने
रामरक्षामिमां
हरः
।
तथा
लिखितवान्-प्रातः
प्रबुद्धौ
बुधकौशिकः
॥
15
॥
आरामः
कल्पवृक्षाणां
विरामः
सकलापदाम्
।
अभिराम-स्त्रिलोकानां
रामः
श्रीमान्
स
नः
प्रभुः
॥
16
॥
तरुणौ
रूपसम्पन्नौ
सुकुमारौ
महाबलौ
।
पुण्डरीक
विशालाक्षौ
चीरकृष्णाजिनाम्बरौ
॥
17
॥
फलमूलाशिनौ
दान्तौ
तापसौ
ब्रह्मचारिणौ
।
पुत्रौ
दशरथस्यैतौ
भ्रातरौ
रामलक्ष्मणौ
॥
18
॥
शरण्यौ
सर्वसत्त्वानां
श्रेष्ठौ
सर्वधनुष्मताम्
।
रक्षःकुल
निहन्तारौ
त्रायेतां
नो
रघूत्तमौ
॥
19
॥
आत्त
सज्य
धनुषा
विषुस्पृशा
वक्षयाशुग
निषङ्ग
सङ्गिनौ
।
रक्षणाय
मम
रामलक्षणावग्रतः
पथि
सदैव
गच्छताम्
॥
20
॥
सन्नद्धः
कवची
खड्गी
चापबाणधरो
युवा
।
गच्छन्
मनोरथान्नश्च
(मनोरथोऽस्माकं)
रामः
पातु
स
लक्ष्मणः
॥
21
॥
रामो
दाशरथि
श्शूरो
लक्ष्मणानुचरो
बली
।
काकुत्सः
पुरुषः
पूर्णः
कौसल्येयो
रघूत्तमः
॥
22
॥
वेदान्तवेद्यो
यज्ञेशः
पुराण
पुरुषोत्तमः
।
जानकीवल्लभः
श्रीमानप्रमेय
पराक्रमः
॥
23
॥
इत्येतानि
जपेन्नित्यं
मद्भक्तः
श्रद्धयान्वितः
।
अश्वमेधाधिकं
पुण्यं
सम्प्राप्नोति
न
संशयः
॥
24
॥
रामं
दूर्वादल
श्यामं
पद्माक्षं
पीतवाससम्
।
स्तुवन्ति
नामभि-र्दिव्यैर्न
ते
संसारिणो
नराः
॥
25
॥
रामं
लक्ष्मण
पूर्वजं
रघुवरं
सीतापतिं
सुन्दरम्
काकुत्स्थं
करुणार्णवं
गुणनिधिं
विप्रप्रियं
धार्मिकम्
।
राजेन्द्रं
सत्यसन्धं
दशरथतनयं
श्यामलं
शान्तमूर्तिम्
वन्दे
लोकाभिरामं
रघुकुल
तिलकं
राघवं
रावणारिम्
॥
26
॥
रामाय
रामभद्राय
रामचन्द्राय
वेधसे
।
रघुनाथाय
नाथाय
सीतायाः
पतये
नमः
॥
27
॥
श्रीराम
राम
रघुनन्दन
राम
राम
श्रीराम
राम
भरताग्रज
राम
राम
।
श्रीराम
राम
रणकर्कश
राम
राम
श्रीराम
राम
शरणं
भव
राम
राम
॥
28
॥
श्रीराम
चन्द्र
चरणौ
मनसा
स्मरामि
श्रीराम
चन्द्र
चरणौ
वचसा
गृह्णामि
।
श्रीराम
चन्द्र
चरणौ
शिरसा
नमामि
श्रीराम
चन्द्र
चरणौ
शरणं
प्रपद्ये
॥
29
॥
माता
रामो
मत्-पिता
रामचन्द्रः
स्वामी
रामो
मत्-सखा
रामचन्द्रः
।
सर्वस्वं
मे
रामचन्द्रो
दयालुः
नान्यं
जाने
नैव
जाने
न
जाने
॥
30
॥
दक्षिणे
लक्ष्मणो
यस्य
वामे
च
(तु)
जनकात्मजा
।
पुरतो
मारुतिर्यस्य
तं
वन्दे
रघुनन्दनम्
॥
31
॥
लोकाभिरामं
रणरङ्गधीरं
राजीवनेत्रं
रघुवंशनाथम्
।
कारुण्यरूपं
करुणाकरं
तं
श्रीरामचन्द्रं
शरण्यं
प्रपद्ये
॥
32
॥
मनोजवं
मारुत
तुल्य
वेगं
जितेन्द्रियं
बुद्धिमतां
वरिष्टम्
।
वातात्मजं
वानरयूथ
मुख्यं
श्रीरामदूतं
शरणं
प्रपद्ये
॥
33
॥
कूजन्तं
रामरामेति
मधुरं
मधुराक्षरम्
।
आरुह्यकविता
शाखां
वन्दे
वाल्मीकि
कोकिलम्
॥
34
॥
आपदामपहर्तारं
दातारं
सर्वसम्पदाम्
।
लोकाभिरामं
श्रीरामं
भूयोभूयो
नमाम्यहम्
॥
35
॥
भर्जनं
भवबीजानामर्जनं
सुखसम्पदाम्
।
तर्जनं
यमदूतानां
राम
रामेति
गर्जनम्
॥
36
॥
रामो
राजमणिः
सदा
विजयते
रामं
रमेशं
भजे
रामेणाभिहता
निशाचरचमू
रामाय
तस्मै
नमः
।
रामान्नास्ति
परायणं
परतरं
रामस्य
दासोस्म्यहं
रामे
चित्तलयः
सदा
भवतु
मे
भो
राम
मामुद्धर
॥
37
॥
श्रीराम
राम
रामेति
रमे
रामे
मनोरमे
।
सहस्रनाम
तत्तुल्यं
राम
नाम
वरानने
॥
38
॥
इति
श्रीबुधकौशिकमुनि
विरचितं
श्रीराम
रक्षास्तोत्रं
सम्पूर्णम्
।
श्रीराम
जयराम
जयजयराम
।
Recite with devotion and pure heart
Regular practice brings spiritual benefits