Haindavam Logo - Lord Ganesha

हैंदवम्

📍
Font Size:

श्री ललिता त्रिशति नामावलिः

॥ ओं ऐं ह्रीं श्रीम् ॥ ओं ककाररूपायै नमः । ओं कल्याण्यै नमः । ओं कल्याणगुणशालिन्यै नमः । ओं कल्याणशैलनिलयायै नमः । ओं कमनीयायै नमः । ओं कलावत्यै नमः । ओं कमलाक्ष्यै नमः । ओं कल्मषघ्न्यै नमः । ओं करुणामृतसागरायै नमः । ओं कदम्बकाननावासायै नमः । 10 ओं कदम्बकुसुमप्रियायै नमः । ओं कन्दर्पविद्यायै नमः । ओं कन्दर्पजनकापाङ्गवीक्षणायै नमः । ओं कर्पूरवीटिसौरभ्यकल्लोलितककुप्तटायै नमः । ओं कलिदोषहरायै नमः । ओं कञ्जलोचनायै नमः । ओं कम्रविग्रहायै नमः । ओं कर्मादिसाक्षिण्यै नमः । ओं कारयित्र्यै नमः । ओं कर्मफलप्रदायै नमः । 20 ओं एकाररूपायै नमः । ओं एकाक्षर्यै नमः । ओं एकानेकाक्षराकृतये नमः । ओं एतत्तदित्यनिर्देश्यायै नमः । ओं एकानन्दचिदाकृतये नमः । ओं एवमित्यागमाबोध्यायै नमः । ओं एकभक्तिमदर्चितायै नमः । ओं एकाग्रचित्तनिर्ध्यातायै नमः । ओं एषणारहितादृतायै नमः । ओं एलासुगन्धिचिकुरायै नमः । 30 ओं एनःकूटविनाशिन्यै नमः । ओं एकभोगायै नमः । ओं एकरसायै नमः । ओं एकैश्वर्यप्रदायिन्यै नमः । ओं एकातपत्रसाम्राज्यप्रदायै नमः । ओं एकान्तपूजितायै नमः । ओं एधमानप्रभायै नमः । ओं एजदनेकजगदीश्वर्यै नमः । ओं एकवीरादिसंसेव्यायै नमः । ओं एकप्राभवशालिन्यै नमः । 40 ओं ईकाररूपायै नमः । ओं ईशित्र्यै नमः । ओं ईप्सितार्थप्रदायिन्यै नमः । ओं ईदृगित्यविनिर्देश्यायै नमः । ओं ईश्वरत्वविधायिन्यै नमः । ओं ईशानादिब्रह्ममय्यै नमः । ओं ईशित्वाद्यष्टसिद्धिदायै नमः । ओं ईक्षित्र्यै नमः । ओं ईक्षणसृष्टाण्डकोटये नमः । ओं ईश्वरवल्लभायै नमः । ओं ईडितायै नमः । 50 ओं ईश्वरार्धाङ्गशरीरायै नमः । ओं ईशाधिदेवतायै नमः । ओं ईश्वरप्रेरणकर्यै नमः । ओं ईशताण्डवसाक्षिण्यै नमः । ओं ईश्वरोत्सङ्गनिलयायै नमः । ओं ईतिबाधाविनाशिन्यै नमः । ओं ईहाविरहितायै नमः । ओं ईशशक्तये नमः । ओं ईषत्स्मिताननायै नमः । 60 ओं लकाररूपायै नमः । ओं ललितायै नमः । ओं लक्ष्मीवाणीनिषेवितायै नमः । ओं लाकिन्यै नमः । ओं ललनारूपायै नमः । ओं लसद्दाडिमपाटलायै नमः । ओं ललन्तिकालसत्फालायै नमः । ओं ललाटनयनार्चितायै नमः । ओं लक्षणोज्ज्वलदिव्याङ्ग्यै नमः । ओं लक्षकोट्यण्डनायिकायै नमः । 70 ओं लक्ष्यार्थायै नमः । ओं लक्षणागम्यायै नमः । ओं लब्धकामायै नमः । ओं लतातनवे नमः । ओं ललामराजदलिकायै नमः । ओं लम्बिमुक्तालताञ्चितायै नमः । ओं लम्बोदरप्रसुवे नमः । ओं लभ्यायै नमः । ओं लज्जाढ्यायै नमः । ओं लयवर्जितायै नमः । 80 ओं ह्रीं‍काररूपायै नमः । ओं ह्रीं‍कारनिलयायै नमः । ओं ह्रीं‍पदप्रियायै नमः । ओं ह्रीं‍कारबीजायै नमः । ओं ह्रीं‍कारमन्त्रायै नमः । ओं ह्रीं‍कारलक्षणायै नमः । ओं ह्रीं‍कारजपसुप्रीतायै नमः । ओं ह्रीं‍मत्यै नमः । ओं ह्रीं‍विभूषणायै नमः । ओं ह्रीं‍शीलायै नमः । 90 ओं ह्रीं‍पदाराध्यायै नमः । ओं ह्रीं‌गर्भायै नमः । ओं ह्रीं‍पदाभिधायै नमः । ओं ह्रीं‍कारवाच्यायै नमः । ओं ह्रीं‍कारपूज्यायै नमः । ओं ह्रीं‍कारपीठिकायै नमः । ओं ह्रीं‍कारवेद्यायै नमः । ओं ह्रीं‍कारचिन्त्यायै नमः । ओं ह्रीं नमः । ओं ह्रीं‍शरीरिण्यै नमः । 100 ओं हकाररूपायै नमः । ओं हलधृक्पूजितायै नमः । ओं हरिणेक्षणायै नमः । ओं हरप्रियायै नमः । ओं हराराध्यायै नमः । ओं हरिब्रह्मेन्द्रवन्दितायै नमः । ओं हयारूढासेविताङ्घ्र्यै नमः । ओं हयमेधसमर्चितायै नमः । ओं हर्यक्षवाहनायै नमः । ओं हंसवाहनायै नमः । 110 ओं हतदानवायै नमः । ओं हत्यादिपापशमन्यै नमः । ओं हरिदश्वादिसेवितायै नमः । ओं हस्तिकुम्भोत्तुङ्गकुचायै नमः । ओं हस्तिकृत्तिप्रियाङ्गनायै नमः । ओं हरिद्राकुङ्कुमादिग्धायै नमः । ओं हर्यश्वाद्यमरार्चितायै नमः । ओं हरिकेशसख्यै नमः । ओं हादिविद्यायै नमः । ओं हालामदालसायै नमः । 120 ओं सकाररूपायै नमः । ओं सर्वज्ञायै नमः । ओं सर्वेश्यै नमः । ओं सर्वमङ्गलायै नमः । ओं सर्वकर्त्र्यै नमः । ओं सर्वभर्त्र्यै नमः । ओं सर्वहन्त्र्यै नमः । ओं सनातनायै नमः । ओं सर्वानवद्यायै नमः । ओं सर्वाङ्गसुन्दर्यै नमः । 130 ओं सर्वसाक्षिण्यै नमः । ओं सर्वात्मिकायै नमः । ओं सर्वसौख्यदात्र्यै नमः । ओं सर्वविमोहिन्यै नमः । ओं सर्वाधारायै नमः । ओं सर्वगतायै नमः । ओं सर्वावगुणवर्जितायै नमः । ओं सर्वारुणायै नमः । ओं सर्वमात्रे नमः । ओं सर्वभूषणभुषितायै नमः । 140 ओं ककारार्थायै नमः । ओं कालहन्त्र्यै नमः । ओं कामेश्यै नमः । ओं कामितार्थदायै नमः । ओं कामसञ्जीवन्यै नमः । ओं कल्यायै नमः । ओं कठिनस्तनमण्डलायै नमः । ओं करभोरवे नमः । ओं कलानाथमुख्यै नमः । ओं कचजिताम्बुदायै नमः । 150 ओं कटाक्षस्यन्दिकरुणायै नमः । ओं कपालिप्राणनायिकायै नमः । ओं कारुण्यविग्रहायै नमः । ओं कान्तायै नमः । ओं कान्तिधूतजपावल्यै नमः । ओं कलालापायै नमः । ओं कम्बुकण्ठ्यै नमः । ओं करनिर्जितपल्लवायै नमः । ओं कल्पवल्लीसमभुजायै नमः । ओं कस्तूरीतिलकाञ्चितायै नमः । 160 ओं हकारार्थायै नमः । ओं हंसगत्यै नमः । ओं हाटकाभरणोज्ज्वलायै नमः । ओं हारहारिकुचाभोगायै नमः । ओं हाकिन्यै नमः । ओं हल्यवर्जितायै नमः । ओं हरित्पतिसमाराध्यायै नमः । ओं हठात्कारहतासुरायै नमः । ओं हर्षप्रदायै नमः । ओं हविर्भोक्त्र्यै नमः । 170 ओं हार्दसन्तमसापहायै नमः । ओं हल्लीसलास्यसन्तुष्टायै नमः । ओं हंसमन्त्रार्थरूपिण्यै नमः । ओं हानोपादाननिर्मुक्तायै नमः । ओं हर्षिण्यै नमः । ओं हरिसोदर्यै नमः । ओं हाहाहूहूमुखस्तुत्यायै नमः । ओं हानिवृद्धिविवर्जितायै नमः । ओं हय्यङ्गवीनहृदयायै नमः । ओं हरिगोपारुणांशुकायै नमः । 180 ओं लकाराख्यायै नमः । ओं लतापुज्यायै नमः । ओं लयस्थित्युद्भवेश्वर्यै नमः । ओं लास्यदर्शनसन्तुष्टायै नमः । ओं लाभालाभविवर्जितायै नमः । ओं लङ्घ्येतराज्ञायै नमः । ओं लावण्यशालिन्यै नमः । ओं लघुसिद्धिदायै नमः । ओं लाक्षारससवर्णाभायै नमः । ओं लक्ष्मणाग्रजपूजितायै नमः । 190 ओं लभ्येतरायै नमः । ओं लब्धभक्तिसुलभायै नमः । ओं लाङ्गलायुधायै नमः । ओं लग्नचामरहस्तश्रीशारदापरिवीजितायै नमः । ओं लज्जापदसमाराध्यायै नमः । ओं लम्पटायै नमः । ओं लकुलेश्वर्यै नमः । ओं लब्धमानायै नमः । ओं लब्धरसायै नमः । ओं लब्धसम्पत्समुन्नत्यै नमः । 200 ओं ह्रीं‍कारिण्यै नमः । ओं ह्रीं‍काराद्यायै नमः । ओं ह्रीं‍मध्यायै नमः । ओं ह्रीं‍शिखामण्यै नमः । ओं ह्रीं‍कारकुण्डाग्निशिखायै नमः । ओं ह्रीं‍कारशशिचन्द्रिकायै नमः । ओं ह्रीं‍कारभास्कररुचये नमः । ओं ह्रीं‍काराम्भोदचञ्चलायै नमः । ओं ह्रीं‍कारकन्दाङ्कुरिकायै नमः । ओं ह्रीं‍कारैकपरायणायै नमः । 210 ओं ह्रीं‍कारदीर्घिकाहंस्यै नमः । ओं ह्रीं‍कारोद्यानकेकिन्यै नमः । ओं ह्रीं‍कारारण्यहरिण्यै नमः । ओं ह्रीं‍कारावालवल्लर्यै नमः । ओं ह्रीं‍कारपञ्जरशुक्यै नमः । ओं ह्रीं‍काराङ्गणदीपिकायै नमः । ओं ह्रीं‍कारकन्दरासिंह्यै नमः । ओं ह्रीं‍काराम्भोजभृङ्गिकायै नमः । ओं ह्रीं‍कारसुमनोमाध्व्यै नमः । ओं ह्रीं‍कारतरुमञ्जर्यै नमः । 220 ओं सकाराख्यायै नमः । ओं समरसायै नमः । ओं सकलागमसंस्तुतायै नमः । ओं सर्ववेदान्ततात्पर्यभूमये नमः । ओं सदसदाश्रयायै नमः । ओं सकलायै नमः । ओं सच्चिदानन्दायै नमः । ओं साध्यायै नमः । ओं सद्गतिदायिन्यै नमः । ओं सनकादिमुनिध्येयायै नमः । 230 ओं सदाशिवकुटुम्बिन्यै नमः । ओं सकलाधिष्ठानरूपायै नमः । ओं सत्यरूपायै नमः । ओं समाकृतये नमः । ओं सर्वप्रपञ्चनिर्मात्र्यै नमः । ओं समानाधिकवर्जितायै नमः । ओं सर्वोत्तुङ्गायै नमः । ओं सङ्गहीनायै नमः । ओं सगुणायै नमः । ओं सकलेष्टदायै नमः । 240 ओं ककारिण्यै नमः । ओं काव्यलोलायै नमः । ओं कामेश्वरमनोहरायै नमः । ओं कामेश्वरप्राणनाड्यै नमः । ओं कामेशोत्सङ्गवासिन्यै नमः । ओं कामेश्वरालिङ्गिताङ्ग्यै नमः । ओं कामेश्वरसुखप्रदायै नमः । ओं कामेश्वरप्रणयिन्यै नमः । ओं कामेश्वरविलासिन्यै नमः । ओं कामेश्वरतपःसिद्ध्यै नमः । 250 ओं कामेश्वरमनःप्रियायै नमः । ओं कामेश्वरप्राणनाथायै नमः । ओं कामेश्वरविमोहिन्यै नमः । ओं कामेश्वरब्रह्मविद्यायै नमः । ओं कामेश्वरगृहेश्वर्यै नमः । ओं कामेश्वराह्लादकर्यै नमः । ओं कामेश्वरमहेश्वर्यै नमः । ओं कामेश्वर्यै नमः । ओं कामकोटिनिलयायै नमः । ओं काङ्क्षितार्थदायै नमः । 260 ओं लकारिण्यै नमः । ओं लब्धरूपायै नमः । ओं लब्धधिये नमः । ओं लब्धवाञ्छितायै नमः । ओं लब्धपापमनोदूरायै नमः । ओं लब्धाहङ्कारदुर्गमायै नमः । ओं लब्धशक्त्यै नमः । ओं लब्धदेहायै नमः । ओं लब्धैश्वर्यसमुन्नत्यै नमः । ओं लब्धवृद्ध्यै नमः । 270 ओं लब्धलीलायै नमः । ओं लब्धयौवनशालिन्यै नमः । ओं लब्धातिशयसर्वाङ्गसौन्दर्यायै नमः । ओं लब्धविभ्रमायै नमः । ओं लब्धरागायै नमः । ओं लब्धपतये नमः । ओं लब्धनानागमस्थित्यै नमः । ओं लब्धभोगायै नमः । ओं लब्धसुखायै नमः । ओं लब्धहर्षाभिपूरितायै नमः । 280 ओं ह्रीं‍कारमूर्त्यै नमः । ओं ह्रीं‍कारसौधशृङ्गकपोतिकायै नमः । ओं ह्रीं‍कारदुग्धाब्धिसुधायै नमः । ओं ह्रीं‍कारकमलेन्दिरायै नमः । ओं ह्रीं‍कारमणिदीपार्चिषे नमः । ओं ह्रीं‍कारतरुशारिकायै नमः । ओं ह्रीं‍कारपेटकमणये नमः । ओं ह्रीं‍कारादर्शबिम्बितायै नमः । ओं ह्रीं‍कारकोशासिलतायै नमः । ओं ह्रीं‍कारास्थाननर्तक्यै नमः । 290 ओं ह्रीं‍कारशुक्तिकामुक्तामणये नमः । ओं ह्रीं‍कारबोधितायै नमः । ओं ह्रीं‍कारमयसौवर्णस्तम्भविद्रुमपुत्रिकायै नमः । ओं ह्रीं‍कारवेदोपनिषदे नमः । ओं ह्रीं‍काराध्वरदक्षिणायै नमः । ओं ह्रीं‍कारनन्दनारामनवकल्पकवल्लर्यै नमः । ओं ह्रीं‍कारहिमवद्गङ्गायै नमः । ओं ह्रीं‍कारार्णवकौस्तुभायै नमः । ओं ह्रीं‍कारमन्त्रसर्वस्वायै नमः । ओं ह्रीं‍कारपरसौख्यदायै नमः । 300 इति श्री ललिता त्रिशती नामावली ।

Recite with devotion and pure heart

Regular practice brings spiritual benefits