Haindavam Logo - Lord Ganesha

हैंदवम्

📍
Font Size:

शिव मानस पूज

रत्नैः कल्पितमासनं हिमजलैः स्नानं दिव्यांबरं नानारत्न विभूषितं मृगमदा मोदांकितं चंदनम् जाती चंपक बिल्वपत्र रचितं पुष्पं धूपं तथा दीपं देव दयानिधे पशुपते हृत्कल्पितं गृह्यताम् 1 सौवर्णे नवरत्नखंड रचिते पात्रे घृतं पायसं भक्ष्यं पंचविधं पयोदधियुतं रंभाफलं पानकम् शाकानामयुतं जलं रुचिकरं कर्पूर खंडोज्ज्चलं तांबूलं मनसा मया विरचितं भक्त्या प्रभो स्वीकुरु 2 छत्रं चामरयोर्युगं व्यजनकं चादर्शकं निर्मलं वीणा भेरि मृदंग काहलकला गीतं नृत्यं तथा साष्टांगं प्रणतिः स्तुति-र्बहुविधा-ह्येतत्-समस्तं मया संकल्पेन समर्पितं तव विभो पूजां गृहाण प्रभो 3 आत्मा त्वं गिरिजा मतिः सहचराः प्राणाः शरीरं गृहं पूजा ते विषयोपभोग-रचना निद्रा समाधिस्थितिः संचारः पदयोः प्रदक्षिणविधिः स्तोत्राणि सर्वा गिरो यद्यत्कर्म करोमि तत्तदखिलं शंभो तवाराधनम् 4 कर चरण कृतं वाक्कायजं कर्मजं वा श्रवण नयनजं वा मानसं वापराधम् विहितमविहितं वा सर्वमेतत्-क्षमस्व जय जय करुणाब्धे श्री महादेव शंभो 5

Recite with devotion and pure heart

Regular practice brings spiritual benefits