हैंदवम्
हैं
హై
हैंदवम्
ஹி
હિં
English
हिंदी
മലയാളം
తెలుగు
தமிழ்
ಕನ್ನಡ
📍
𖦏
Auto Detect Location
Font Size:
a
a
a
शिव महिम्ना स्तोत्रम्
महिम्नः
पारं
ते
परमविदुषो
यद्यसदृशी
स्तुतिर्ब्रह्मादीनामपि
तदवसन्नास्त्वयि
गिरः
।
अथाऽवाच्यः
सर्वः
स्वमतिपरिणामावधि
गृणन्
ममाप्येष
स्तोत्रे
हर
निरपवादः
परिकरः
॥
1
॥
अतीतः
पन्थानं
तव
च
महिमा
वाङ्मनसयोः
अतद्व्यावृत्त्या
यं
चकितमभिधत्ते
श्रुतिरपि
।
स
कस्य
स्तोतव्यः
कतिविधगुणः
कस्य
विषयः
पदे
त्वर्वाचीने
पतति
न
मनः
कस्य
न
वचः
॥
2
॥
मधुस्फीता
वाचः
परमममृतं
निर्मितवतः
तव
ब्रह्मन्
किं
वागपि
सुरगुरोर्विस्मयपदम्
।
मम
त्वेतां
वाणीं
गुणकथनपुण्येन
भवतः
पुनामीत्यर्थेऽस्मिन्
पुरमथन
बुद्धिर्व्यवसिता
॥
3
॥
तवैश्वर्यं
यत्तज्जगदुदयरक्षाप्रलयकृत्
त्रयीवस्तु
व्यस्तं
तिस्रुषु
गुणभिन्नासु
तनुषु
।
अभव्यानामस्मिन्
वरद
रमणीयामरमणीं
विहन्तुं
व्याक्रोशीं
विदधत
इहैके
जडधियः
॥
4
॥
किमीहः
किङ्कायः
स
खलु
किमुपायस्त्रिभुवनं
किमाधारो
धाता
सृजति
किमुपादान
इति
च
।
अतर्क्यैश्वर्ये
त्वय्यनवसर
दुःस्थो
हतधियः
कुतर्कोऽयं
कांश्चित्
मुखरयति
मोहाय
जगतः
॥
5
॥
अजन्मानो
लोकाः
किमवयववन्तोऽपि
जगतां
अधिष्ठातारं
किं
भवविधिरनादृत्य
भवति
।
अनीशो
वा
कुर्याद्
भुवनजनने
कः
परिकरो
यतो
मन्दास्त्वां
प्रत्यमरवर
संशेरत
इमे
॥
6
॥
त्रयी
साङ्ख्यं
योगः
पशुपतिमतं
वैष्णवमिति
प्रभिन्ने
प्रस्थाने
परमिदमदः
पथ्यमिति
च
।
रुचीनां
वैचित्र्यादृजुकुटिल
नानापथजुषां
नृणामेको
गम्यस्त्वमसि
पयसामर्णव
इव
॥
7
॥
महोक्षः
खट्वाङ्गं
परशुरजिनं
भस्म
फणिनः
कपालं
चेतीयत्तव
वरद
तन्त्रोपकरणम्
।
सुरास्तां
तामृद्धिं
दधति
तु
भवद्भूप्रणिहितां
न
हि
स्वात्मारामं
विषयमृगतृष्णा
भ्रमयति
॥
8
॥
ध्रुवं
कश्चित्
सर्वं
सकलमपरस्त्वध्रुवमिदं
परो
ध्रौव्याऽध्रौव्ये
जगति
गदति
व्यस्तविषये
।
समस्तेऽप्येतस्मिन्
पुरमथन
तैर्विस्मित
इव
स्तुवन्
जिह्रेमि
त्वां
न
खलु
ननु
धृष्टा
मुखरता
॥
9
॥
तवैश्वर्यं
यत्नाद्
यदुपरि
विरिञ्चिर्हरिरधः
परिच्छेतुं
यातावनलमनलस्कन्धवपुषः
।
ततो
भक्तिश्रद्धा-भरगुरु-गृणद्भ्यां
गिरिश
यत्
स्वयं
तस्थे
ताभ्यां
तव
किमनुवृत्तिर्न
फलति
॥
10
॥
अयत्नादासाद्य
त्रिभुवनमवैरव्यतिकरं
दशास्यो
यद्बाहूनभृत
रणकण्डू-परवशान्
।
शिरःपद्मश्रेणी-रचितचरणाम्भोरुह-बलेः
स्थिरायास्त्वद्भक्तेस्त्रिपुरहर
विस्फूर्जितमिदम्
॥
11
॥
अमुष्य
त्वत्सेवा-समधिगतसारं
भुजवनं
बलात्
कैलासेऽपि
त्वदधिवसतौ
विक्रमयतः
।
अलभ्या
पातालेऽप्यलसचलिताङ्गुष्ठशिरसि
प्रतिष्ठा
त्वय्यासीद्
ध्रुवमुपचितो
मुह्यति
खलः
॥
12
॥
यदृद्धिं
सुत्राम्णो
वरद
परमोच्चैरपि
सतीं
अधश्चक्रे
बाणः
परिजनविधेयत्रिभुवनः
।
न
तच्चित्रं
तस्मिन्
वरिवसितरि
त्वच्चरणयोः
न
कस्याप्युन्नत्यै
भवति
शिरसस्त्वय्यवनतिः
॥
13
॥
अकाण्ड-ब्रह्माण्ड-क्षयचकित-देवासुरकृपा
विधेयस्याऽऽसीद्
यस्त्रिनयन
विषं
संहृतवतः
।
स
कल्माषः
कण्ठे
तव
न
कुरुते
न
श्रियमहो
विकारोऽपि
श्लाघ्यो
भुवन-भय-
भङ्ग-
व्यसनिनः
॥
14
॥
असिद्धार्था
नैव
क्वचिदपि
सदेवासुरनरे
निवर्तन्ते
नित्यं
जगति
जयिनो
यस्य
विशिखाः
।
स
पश्यन्नीश
त्वामितरसुरसाधारणमभूत्
स्मरः
स्मर्तव्यात्मा
न
हि
वशिषु
पथ्यः
परिभवः
॥
15
॥
मही
पादाघाताद्
व्रजति
सहसा
संशयपदं
पदं
विष्णोर्भ्राम्यद्
भुज-परिघ-रुग्ण-ग्रह-
गणम्
।
मुहुर्द्यौर्दौस्थ्यं
यात्यनिभृत-जटा-ताडित-तटा
जगद्रक्षायै
त्वं
नटसि
ननु
वामैव
विभुता
॥
16
॥
वियद्व्यापी
तारा-गण-गुणित-फेनोद्गम-रुचिः
प्रवाहो
वारां
यः
पृषतलघुदृष्टः
शिरसि
ते
।
जगद्द्वीपाकारं
जलधिवलयं
तेन
कृतमिति
अनेनैवोन्नेयं
धृतमहिम
दिव्यं
तव
वपुः
॥
17
॥
रथः
क्षोणी
यन्ता
शतधृतिरगेन्द्रो
धनुरथो
रथाङ्गे
चन्द्रार्कौ
रथ-चरण-पाणिः
शर
इति
।
दिधक्षोस्ते
कोऽयं
त्रिपुरतृणमाडम्बर-विधिः
विधेयैः
क्रीडन्त्यो
न
खलु
परतन्त्राः
प्रभुधियः
॥
18
॥
हरिस्ते
साहस्रं
कमल
बलिमाधाय
पदयोः
यदेकोने
तस्मिन्
निजमुदहरन्नेत्रकमलम्
।
गतो
भक्त्युद्रेकः
परिणतिमसौ
चक्रवपुषः
त्रयाणां
रक्षायै
त्रिपुरहर
जागर्ति
जगताम्
॥
19
॥
क्रतौ
सुप्ते
जाग्रत्
त्वमसि
फलयोगे
क्रतुमतां
क्व
कर्म
प्रध्वस्तं
फलति
पुरुषाराधनमृते
।
अतस्त्वां
सम्प्रेक्ष्य
क्रतुषु
फलदान-प्रतिभुवं
श्रुतौ
श्रद्धां
बध्वा
दृढपरिकरः
कर्मसु
जनः
॥
20
॥
क्रियादक्षो
दक्षः
क्रतुपतिरधीशस्तनुभृतां
ऋषीणामार्त्विज्यं
शरणद
सदस्याः
सुर-गणाः
।
क्रतुभ्रंशस्त्वत्तः
क्रतुफल-विधान-व्यसनिनः
ध्रुवं
कर्तुः
श्रद्धा-विधुरमभिचाराय
हि
मखाः
॥
21
॥
प्रजानाथं
नाथ
प्रसभमभिकं
स्वां
दुहितरं
गतं
रोहिद्
भूतां
रिरमयिषुमृष्यस्य
वपुषा
।
धनुष्पाणेर्यातं
दिवमपि
सपत्राकृतममुं
त्रसन्तं
तेऽद्यापि
त्यजति
न
मृगव्याधरभसः
॥
22
॥
स्वलावण्याशंसा
धृतधनुषमह्नाय
तृणवत्
पुरः
प्लुष्टं
दृष्ट्वा
पुरमथन
पुष्पायुधमपि
।
यदि
स्त्रैणं
देवी
यमनिरत-देहार्ध-घटनात्
अवैति
त्वामद्धा
बत
वरद
मुग्धा
युवतयः
॥
23
॥
श्मशानेष्वाक्रीडा
स्मरहर
पिशाचाः
सहचराः
चिता-भस्मालेपः
स्रगपि
नृकरोटी-परिकरः
।
अमङ्गल्यं
शीलं
तव
भवतु
नामैवमखिलं
तथापि
स्मर्तॄणां
वरद
परमं
मङ्गलमसि
॥
24
॥
मनः
प्रत्यक्चित्ते
सविधमविधायात्त-मरुतः
प्रहृष्यद्रोमाणः
प्रमद-सलिलोत्सङ्गति-दृशः
।
यदालोक्याह्लादं
ह्रद
इव
निमज्यामृतमये
दधत्यन्तस्तत्त्वं
किमपि
यमिनस्तत्
किल
भवान्
॥
25
॥
त्वमर्कस्त्वं
सोमस्त्वमसि
पवनस्त्वं
हुतवहः
त्वमापस्त्वं
व्योम
त्वमु
धरणिरात्मा
त्वमिति
च
।
परिच्छिन्नामेवं
त्वयि
परिणता
बिभ्रति
गिरं
न
विद्मस्तत्तत्त्वं
वयमिह
तु
यत्
त्वं
न
भवसि
॥
26
॥
त्रयीं
तिस्रो
वृत्तीस्त्रिभुवनमथो
त्रीनपि
सुरान्
अकाराद्यैर्वर्णैस्त्रिभिरभिदधत्
तीर्णविकृति
।
तुरीयं
ते
धाम
ध्वनिभिरवरुन्धानमणुभिः
समस्तं
व्यस्तं
त्वां
शरणद
गृणात्योमिति
पदम्
॥
27
॥
भवः
शर्वो
रुद्रः
पशुपतिरथोग्रः
सहमहान्
तथा
भीमेशानाविति
यदभिधानाष्टकमिदम्
।
अमुष्मिन्
प्रत्येकं
प्रविचरति
देव
श्रुतिरपि
प्रियायास्मैधाम्ने
प्रणिहित-नमस्योऽस्मि
भवते
॥
28
॥
नमो
नेदिष्ठाय
प्रियदव
दविष्ठाय
च
नमः
नमः
क्षोदिष्ठाय
स्मरहर
महिष्ठाय
च
नमः
।
नमो
वर्षिष्ठाय
त्रिनयन
यविष्ठाय
च
नमः
नमः
सर्वस्मै
ते
तदिदमतिसर्वाय
च
नमः
॥
29
॥
बहुल-रजसे
विश्वोत्पत्तौ
भवाय
नमो
नमः
प्रबल-तमसे
तत्
संहारे
हराय
नमो
नमः
।
जन-सुखकृते
सत्त्वोद्रिक्तौ
मृडाय
नमो
नमः
प्रमहसि
पदे
निस्त्रैगुण्ये
शिवाय
नमो
नमः
॥
30
॥
कृश-परिणति-चेतः
क्लेशवश्यं
क्व
चेदं
क्व
च
तव
गुण-सीमोल्लङ्घिनी
शश्वदृद्धिः
।
इति
चकितममन्दीकृत्य
मां
भक्तिराधाद्
वरद
चरणयोस्ते
वाक्य-पुष्पोपहारम्
॥
31
॥
असित-गिरि-समं
स्यात्
कज्जलं
सिन्धु-पात्रे
सुर-तरुवर-शाखा
लेखनी
पत्रमुर्वी
।
लिखति
यदि
गृहीत्वा
शारदा
सर्वकालं
तदपि
तव
गुणानामीश
पारं
न
याति
॥
32
॥
असुर-सुर-मुनीन्द्रैरर्चितस्येन्दु-मौलेः
ग्रथित-गुणमहिम्नो
निर्गुणस्येश्वरस्य
।
सकल-गण-वरिष्ठः
पुष्पदन्ताभिधानः
रुचिरमलघुवृत्तैः
स्तोत्रमेतच्चकार
॥
33
॥
अहरहरनवद्यं
धूर्जटेः
स्तोत्रमेतत्
पठति
परमभक्त्या
शुद्ध-चित्तः
पुमान्
यः
।
स
भवति
शिवलोके
रुद्रतुल्यस्तथाऽत्र
प्रचुरतर-धनायुः
पुत्रवान्
कीर्तिमांश्च
॥
34
॥
महेशान्नापरो
देवो
महिम्नो
नापरा
स्तुतिः
।
अघोरान्नापरो
मन्त्रो
नास्ति
तत्त्वं
गुरोः
परम्
॥
35
॥
दीक्षा
दानं
तपस्तीर्थं
ज्ञानं
यागादिकाः
क्रियाः
।
महिम्नस्तव
पाठस्य
कलां
नार्हन्ति
षोडशीम्
॥
36
॥
कुसुमदशन-नामा
सर्व-गन्धर्व-राजः
शशिधरवर-मौलेर्देवदेवस्य
दासः
।
स
खलु
निज-महिम्नो
भ्रष्ट
एवास्य
रोषात्
स्तवनमिदमकार्षीद्
दिव्य-दिव्यं
महिम्नः
॥
37
॥
सुरगुरुमभिपूज्य
स्वर्ग-मोक्षैक-हेतुं
पठति
यदि
मनुष्यः
प्राञ्जलिर्नान्य-चेताः
।
व्रजति
शिव-समीपं
किन्नरैः
स्तूयमानः
स्तवनमिदममोघं
पुष्पदन्तप्रणीतम्
॥
38
॥
आसमाप्तमिदं
स्तोत्रं
पुण्यं
गन्धर्व-भाषितम्
।
अनौपम्यं
मनोहारि
सर्वमीश्वरवर्णनम्
॥
39
॥
इत्येषा
वाङ्मयी
पूजा
श्रीमच्छङ्कर-पादयोः
।
अर्पिता
तेन
देवेशः
प्रीयतां
मे
सदाशिवः
॥
40
॥
तव
तत्त्वं
न
जानामि
कीदृशोऽसि
महेश्वर
।
यादृशोऽसि
महादेव
तादृशाय
नमो
नमः
॥
41
॥
एककालं
द्विकालं
वा
त्रिकालं
यः
पठेन्नरः
।
सर्वपाप-विनिर्मुक्तः
शिव
लोके
महीयते
॥
42
॥
श्री
पुष्पदन्त-मुख-पङ्कज-निर्गतेन
स्तोत्रेण
किल्बिष-हरेण
हर-प्रियेण
।
कण्ठस्थितेन
पठितेन
समाहितेन
सुप्रीणितो
भवति
भूतपतिर्महेशः
॥
43
॥ ॥
इति
श्री
पुष्पदन्त
विरचितं
शिवमहिम्नः
स्तोत्रं
समाप्तम्
॥
Recite with devotion and pure heart
Regular practice brings spiritual benefits