Haindavam Logo - Lord Ganesha

हैंदवम्

📍
Font Size:

शिव अष्टोत्तर शत नाम स्तोत्रम्

शिवो महेश्वर-श्शम्भुः पिनाकी शशिशेखरः वामदेवो विरूपाक्षः कपर्दी नीललोहितः 1 शङ्कर-श्शूलपाणिश्च खट्वाङ्गी विष्णुवल्लभः शिपिविष्टोऽम्बिकानाथः श्रीकण्ठो भक्तवत्सलः 2 भव-श्शर्व-स्त्रिलोकेशः शितिकण्ठः शिवाप्रियः उग्रः कपाली कामारि रन्धकासुरसूदनः 3 गङ्गाधरो ललाटाक्षः कालकालः कृपानिधिः भीमः परशुहस्तश्च मृगपाणि-र्जटाधरः 4 कैलासवासी कवची कठोर-स्त्रिपुरान्तकः वृषाङ्को वृषभारूढो भस्मोद्धूलितविग्रहः 5 सामप्रिय-स्स्वरमय-स्त्रयीमूर्ति-रनीश्वरः सर्वज्ञः परमात्मा सोमसूर्याग्निलोचनः 6 हवि-र्यज्ञमय-स्सोमः पञ्चवक्त्र-स्सदाशिवः विश्वेश्वरो वीरभद्रो गणनाथः प्रजापतिः 7 हिरण्यरेता दुर्धर्षो गिरीशो गिरिशोऽनघः भुजङ्गभूषणो भर्गो गिरिधन्वा गिरिप्रियः 8 कृत्तिवासाः पुराराति-र्भगवान् प्रमथाधिपः मृत्युञ्जय-स्सूक्ष्मतनु-र्जगद्व्यापी जगद्गुरुः 9 व्योमकेशो महासेनजनक-श्चारुविक्रमः रुद्रो भूतपतिः स्थाणु-रहिर्भुध्न्यो दिगम्बरः 10 अष्टमूर्ति-रनेकात्मा सात्त्विक-श्शुद्धविग्रहः शाश्वतः खण्डपरशु-रजः पाशविमोचकः 11 मृडः पशुपति-र्देवो महादेवोऽव्ययो हरिः पूषदन्तभि-दव्यग्रो दक्षाध्वरहरो हरः 12 भगनेत्रभि-दव्यक्तो सहस्राक्ष-स्सहस्रपात् अपवर्गप्रदोऽनन्त-स्तारकः परमेश्वरः 13 एवं श्री शम्भुदेवस्य नाम्नामष्टोत्तरं शतम् इति श्री शिवाष्टोत्तरशतनामस्तोत्ररत्नं समाप्तम्

Recite with devotion and pure heart

Regular practice brings spiritual benefits