Haindavam Logo - Lord Ganesha

हैंदवम्

📍
Font Size:

शनि स्तोत्रं दशरथ कृतम्

नमः कृष्णाय नीलाय शिखिखण्डनिभाय नमो नीलमधूकाय नीलोत्पलनिभाय 1 नमो निर्मांसदेहाय दीर्घश्रुतिजटाय नमो विशालनेत्राय शुष्कोदर भयानक 2 नमः पौरुषगात्राय स्थूलरोमाय ते नमः नमो नित्यं क्षुधार्ताय नित्यतृप्ताय ते नमः 3 नमो घोराय रौद्राय भीषणाय करालिने नमो दीर्घाय शुष्काय कालदंष्ट्र नमोऽस्तु ते 4 नमस्ते घोररूपाय दुर्निरीक्ष्याय ते नमः नमस्ते सर्वभक्षाय वलीमुख नमोऽस्तु ते 5 सूर्यपुत्त्र नमस्तेऽस्तु भास्वरोभयदायिने अधोदृष्टे नमस्तेऽस्तु संवर्तक नमोऽस्तु ते 6 नमो मन्दगते तुभ्यं निष्प्रभाय नमोनमः तपसा ज्ञानदेहाय नित्ययोगरताय 7 ज्ञानचक्षुर्नमस्तेऽस्तु काश्यपात्मजसूनवे तुष्टो ददासि राज्यं त्वं क्रुद्धो हरसि तत्‍ क्षणात् 8 देवासुरमनुष्याश्च सिद्धविद्याधरोरगाः त्वयावलोकितास्सौरे दैन्यमाशुव्रजन्तिते 9 ब्रह्मा शक्रोयमश्चैव मुनयः सप्ततारकाः राज्यभ्रष्टाः पतन्तीह तव दृष्ट्याऽवलोकितः 10 त्वयाऽवलोकितास्तेऽपि नाशं यान्ति समूलतः प्रसादं कुरु मे सौरे प्रणत्वाहित्वमर्थितः 11

Recite with devotion and pure heart

Regular practice brings spiritual benefits