Haindavam Logo - Lord Ganesha

हैंदवम्

📍
Font Size:

अच्युताष्टकम्

अच्युतं केशवं रामनारायणं कृष्णदामोदरं वासुदेवं हरिम् । श्रीधरं माधवं गोपिका वल्लभं जानकीनायकं रामचन्द्रं भजे ॥ 1 ॥ अच्युतं केशवं सत्यभामाधवं माधवं श्रीधरं राधिका राधितम् । इन्दिरामन्दिरं चेतसा सुन्दरं देवकीनन्दनं नन्दजं सन्दधे ॥ 2 ॥ विष्णवे जिष्णवे शङ्कने चक्रिणे रुक्मिणी रागिणे जानकी जानये । वल्लवी वल्लभायार्चिता यात्मने कंस विध्वंसिने वंशिने ते नमः ॥ 3 ॥ कृष्ण गोविन्द हे राम नारायण श्रीपते वासुदेवाजित श्रीनिधे । अच्युतानन्त हे माधवाधोक्षज द्वारकानायक द्रौपदीरक्षक ॥ 4 ॥ राक्षस क्षोभितः सीतया शोभितो दण्डकारण्यभू पुण्यताकारणः । लक्ष्मणोनान्वितो वानरैः सेवितो अगस्त्य सम्पूजितो राघवः पातु माम् ॥ 5 ॥ धेनुकारिष्टकोऽनिष्टकृद्द्वेषिणां केशिहा कंसहृद्वण्शिकावादकः । पूतनाकोपकः सूरजाखेलनो बालगोपालकः पातु मां सर्वदा ॥ 6 ॥ विद्युदुद्योतवत्प्रस्फुरद्वाससं प्रावृडम्भोदवत्प्रोल्लसद्विग्रहम् । वन्यया मालया शोभितोरःस्थलं लोहिताङ्घ्रिद्वयं वारिजाक्षं भजे ॥ 7॥ कुञ्चितैः कुन्तलै भ्राजमानाननं रत्नमौलिं लसत्-कुण्डलं गण्डयोः । हारकेयूरकं कङ्कण प्रोज्ज्वलं किङ्किणी मञ्जुलं श्यामलं तं भजे ॥ 8 ॥ अच्युतस्याष्टकं यः पठेदिष्टदं प्रेमतः प्रत्यहं पूरुषः सस्पृहम् । वृत्ततः सुन्दरं कर्तृ विश्वम्भरः तस्य वश्यो हरि र्जायते सत्वरम् ॥ अच्युतं केशवं रामनारायणं कृष्णदामोदरं वासुदेवं हरिम् । श्रीधरं माधवं गोपिका वल्लभं जानकीनायकं रामचन्द्रं भजे ॥ 1 । ॥ इति श्रीशङ्कराचार्यविरचितमच्युताष्टकं सम्पूर्णम् ॥

Recite with devotion and pure heart

Regular practice brings spiritual benefits