हैंदवम्
हैं
హై
हैंदवम्
ஹி
હિં
English
हिंदी
മലയാളം
తెలుగు
தமிழ்
ಕನ್ನಡ
📍
𖦏
Auto Detect Location
Font Size:
a
a
a
महाकाली स्तोत्रं
ध्यानम्
शवारूढां
महाभीमां
घोरदंष्ट्रां
वरप्रदां
हास्ययुक्तां
त्रिणेत्राञ्च
कपाल
कर्त्रिका
कराम्
।
मुक्तकेशीं
ललज्जिह्वां
पिबन्तीं
रुधिरं
मुहुः
चतुर्बाहुयुतां
देवीं
वराभयकरां
स्मरेत्
॥
शवारूढां
महाभीमां
घोरदंष्ट्रां
हसन्मुखीं
चतुर्भुजां
खड्गमुण्डवराभयकरां
शिवाम्
।
मुण्डमालाधरां
देवीं
ललज्जिह्वां
दिगम्बरां
एवं
सञ्चिन्तयेत्कालीं
श्मशनालयवासिनीम्
॥
स्तोत्रम्
विश्वेश्वरीं
जगद्धात्रीं
स्थितिसंहारकारिणीम्
।
निद्रां
भगवतीं
विष्णोरतुलां
तेजसः
प्रभाम्
॥
1
॥
त्वं
स्वाहा
त्वं
स्वधा
त्वं
हि
वषट्कारः
स्वरात्मिका
।
सुधा
त्वमक्षरे
नित्ये
त्रिधा
मात्रात्मिका
स्थिता
॥
2
॥
अर्थमात्रास्थिता
नित्या
यानुच्चार्या
विशेषतः
।
त्वमेव
सन्ध्या
सावित्री
त्वं
देवी
जननी
परा
॥
3
॥
त्वयैतद्धार्यते
विश्वं
त्वयैतद्सृज्यते
जगत्
।
त्वयैतत्पाल्यते
देवि
त्वमत्स्यन्ते
च
सर्वदा
॥
4
॥
विसृष्टौ
सृष्टिरूपा
त्वं
स्थितिरूपा
च
पालने
।
तथा
संहृतिरूपान्ते
जगतोऽस्य
जगन्मये
॥
5
॥
महाविद्या
महामाया
महामेधा
महास्मृतिः
।
महामोहा
च
भवती
महादेवी
महेश्वरी
॥
6
॥
प्रकृतिस्त्वं
च
सर्वस्य
गुणत्रयविभाविनी
।
कालरात्रिर्महारात्रिर्मोहरात्रिश्च
दारुणा
॥
7
॥
त्वं
श्रीस्त्वमीश्वरी
त्वं
ह्रीस्त्वं
बुद्धिर्बोधलक्षणा
।
लज्जा
पुष्टिस्तथा
तुष्टिस्त्वं
शान्तिः
क्षान्तिरेव
च
॥
8
॥
खड्गिनी
शूलिनी
घोरा
गदिनी
चक्रिणी
तथा
।
शङ्खिनी
चापिनी
बाणभुशुण्डीपरिघायुधा
॥
9
॥
सौम्या
सौम्यतराशेषा
सौम्येभ्यस्त्वतिसुन्दरी
।
परापराणां
परमा
त्वमेव
परमेश्वरी
॥
10
॥
यच्च
किञ्चित्
क्वचिद्वस्तु
सदसद्वाखिलात्मिके
।
तस्य
सर्वस्य
या
शक्तिः
सा
त्वं
किं
स्तूयसे
तदा
॥
11
॥
यया
त्वया
जगत्स्रष्टा
जगत्पात्यत्ति
यो
जगत्
।
सोऽपि
निद्रावशं
नीतः
कस्त्वां
स्तोतुमिहेश्वरः
॥
12
॥
विष्णुः
शरीरग्रहणमहमीशान
एव
च
।
कारितास्ते
यतोऽतस्त्वां
कः
स्तोतुं
शक्तिमान्
भवेत्
॥
13
॥
सा
त्वमित्थं
प्रभावैः
स्वैरुदारैर्देवि
संस्तुता
।
मोहयैतौ
दुराधर्षावसुरौ
मधुकैटभौ
॥
14
॥
प्रबोधं
च
जगत्स्वामी
नीयतामच्युतो
लघु
।
बोधश्च
क्रियतामस्य
हन्तुमेतौ
महासुरौ
॥
15
॥
इति
श्री
महा
काली
स्तोत्रम्
।
Recite with devotion and pure heart
Regular practice brings spiritual benefits