हैंदवम्
हैं
హై
हैंदवम्
ஹி
હિં
English
हिंदी
മലയാളം
తెలుగు
தமிழ்
ಕನ್ನಡ
📍
𖦏
Auto Detect Location
Font Size:
a
a
a
कामकला काली सञ्जीवन गद्य स्तोत्रम्
महाकाल
उवाच
।
अथ
वक्ष्ये
महेशानि
महापातकनाशनम्
।
गद्यं
सहस्रनाम्नस्तु
सञ्जीवनतया
स्थितम्
॥
1
॥
पठन्
यत्सफलं
कुर्यात्
प्राक्तनं
सकलं
प्रिये
।
अपठन्
विफलं
तत्तत्तद्वस्तु
कथयामि
ते
॥
2
॥
ओं
फ्रें
जय
जय
कामकलाकालि
कपालिनि
सिद्धिकरालि
सिद्धिविकरालि
महावलिनि
त्रिशुलिनि
नरमुण्डमालिनि
शववाहिनि
कात्यायनि
महाट्टहासिनि
सृष्टिस्थितिप्रलयकारिणि
दितिदनुजमारिणि
श्मशानचारिणि
।
महाघोररावे
अध्यासितदावे
अपरिमितबलप्रभावे
।
भैरवीयोगिनीडाकिनीसहवासिनि
जगद्धासिनि
स्वपदप्रकाशिनि
।
पापौघहारिणि
आपदुद्धारिणि
अपमृत्युवारिणि
।
बृहन्मद्यमानोदरि
सकलसिद्धिकरि
चतुर्दशभुवनेश्वरि
।
गुणातीतपरमसदाशिवमोहिनि
अपवर्गरसदोहिनि
रक्तार्णवलोहिनि
।
अष्टनागराजभूषितभुजदण्डे
आकृष्टकोदण्डे
परमप्रचण्डे
।
मनोवागगोचरे
मखकोटिमन्त्रमयकलेवरे
महाभीषणतरे
प्रचलजटाभारभास्वरे
सजलजलदमेदुरे
जन्ममृत्युपाशभिदुरे
सकलदैवतमयसिंहासनाधिरूढे
गुह्यातिगुह्य
परापरशक्तितत्त्वरूढे
वाङ्मयीकृतमूढे
।
प्रकृत्यपरशिवनिर्वाणसाक्षिणि
त्रिलोकीरक्षणि
दैत्यदानवभक्षिणि
।
विकटदीर्घदंष्ट्र
सञ्चूर्णितकोटिब्रह्मकपाले
चन्द्रखण्डाङ्कितभाले
देहप्रभाजितमेघजाले
।
नवपञ्चचक्रनयिनि
महाभीमषोडशशयिनि
सकलकुलाकुलचक्रप्रवर्तिनि
निखिलरिपुदलकर्तिनि
महामारीभयनिवर्तिनि
लेलिहानरसनाकरालिनि
त्रिलोकीपालिनि
त्रयस्त्रिंशत्कोटिशस्त्रास्त्रशालिनि
।
प्रज्वलप्रज्वलनलोचने
भवभयमोचने
निखिलागमादेशितष्ठुसुरोचने
।
प्रपञ्चातीतनिष्कलतुरीयाकारे
अखण्डानन्दाधारे
निगमागमसारे
।
महाखेचरीसिद्धिविधायिनि
निजपदप्रदायिनि
महामायिनि
घोराट्टहाससन्त्रासितत्रिभुवने
चरणकमलद्वयविन्यासखर्वीकृतावने
विहितभक्तावने
।
ओं
क्लीं
क्रों
स्फ्रों
हूं
ह्रीं
छ्रीं
स्त्रीं
फ्रें
भगवति
प्रसीद
प्रसीद
जय
जय
जीव
जीव
ज्वल
ज्वल
प्रज्वल
प्रज्वल
हस
हस
नृत्य
नृत्य
क
छ
भगमालिनि
भगप्रिये
भगातुरे
भगाङ्किते
भगरूपिणि
भगप्रदे
भगलिङ्गद्राविणि
।
संहारभैरवसुरतरसलोलुपे
व्योमकेशि
पिङ्गकेशि
महाशङ्खसमाकुले
खर्परविहस्तहस्ते
रक्तार्णवद्वीपप्रिये
मदनोन्मादिनि
।
शुष्कनरकपालमालाभरणे
विद्युत्कोटिसमप्रभे
नरमांसखण्डकवलिनि
।
वमदग्निमुखि
फेरुकोटिपरिवृते
करतालिकात्रासितत्रिविष्टपे
।
नृत्य
प्रसारितपादाघातपरिवर्तितभूवलये
।
पदभारावनम्रीकृतकमठशेषाभोगे
।
कुरुकुल्ले
कुञ्चतुण्डि
रक्तमुखि
यमघण्टे
चर्चिके
।
दैत्यासुर
दैत्यराक्षस
दानव
कुष्माण्ड
प्रेत
भूत
डाकिनी
विनायक
स्कन्द
घोणक
क्षेत्रपाल
पिशाच
ब्रह्मराक्षस
वेताल
गुह्यक
सर्पनाग
ग्रहनक्षत्रोत्पात
चौराग्नि
स्वापदयुद्धवज्रोपलाशनि
वर्षविद्युन्मेघविषोपविष
कपटकृत्याभिचार
द्वेषवशीकरणोच्चाटनोन्मादापस्मार
भूतप्रेतपिशाचावेश
नदनदी
समुद्रावर्तकान्तार
घोरान्धकार
महामारी
बालग्रह
हिंस्र
सर्वस्वापहारि
मायाविद्युद्दस्युवञ्चक
दिवाचर
रात्रिञ्चर
सन्ध्याचर
शृङ्गिनखि
दंष्ट्रि
विद्युदुल्कारण्यदरप्रान्तरादि
नानाविधमहोपद्रवभञ्जनि
।
सर्वमन्त्रतन्त्रयन्त्र
कुप्रयोगप्रमर्दिनि
।
षडाम्नाय
समय
विद्याप्रकाशिनि
श्मशानाध्यासिनि
।
निजबल
प्रभाव
पराक्रम
गुणवशीकृत
कोटिब्रह्माण्डवर्ति
भूतसङ्घे
।
विराड्रूपिणि
सर्वदेवमहेश्वरि
सर्वजनमनोरञ्जनि
सर्वपापप्रणाशिनि
अध्यात्मिकाधिदैविकाधिभौतिकादि
विविधहृदयाधिनिर्दलिनि
कैवल्यनिर्वाणवलिनि
दक्षिणकालि
भद्रकालि
चण्डकालि
कामकलाकालि
कौलाचारव्रतिनि
कौलाचारकूजिनि
कुलधर्मसाधनि
जगत्कारणकारिणि
महारौद्रि
रौद्रावतारे
अबीजे
नानाबीजे
जगद्बीजे
कालेश्वरि
कालातीते
त्रिकालस्थायिनि
महाभैरवे
भैरवगृहिणि
जननि
जनजनननिवर्तिनि
प्रलयानलज्वालाजालजिह्वे
विखर्वोरु
फेरुपोतलालिनि
मृत्युञ्जयहृदयानन्दकरि
विलोलव्यालकुण्डल
उलूकपक्षच्छत्रमहाडामरि
नियुतवक्त्रबाहुचरणे
सर्वभूतदमनि
नीलाञ्जनसमप्रभे
योगीन्द्र
हृदयाम्बुजासनस्थित
नीलकण्ठ
देहार्धहारिणि
षोडश
कलान्तवासिनि
हकारार्धचारिणि
कालसङ्कर्षिणि
कपालहस्ते
मदघूर्णितलोचने
निर्वाणदीक्षाप्रसादप्रदे
निन्दानन्दाधिकारिणि
मातृगणमध्यचारिणि
त्रयस्त्रिंशत्कोटित्रिदश
तेजोमयविग्रहे
प्रलयाग्निरोचिनि
विश्वकर्त्रि
विश्वाराध्ये
विश्वजननि
विश्वसंहारिणि
विश्वव्यापिके
विश्वेश्वरि
निरुपमे
निर्विकारे
निरञ्जने
निरीहे
निस्तरङ्गे
निराकारे
परमेश्वरि
परमानन्दे
परापरे
प्रकृतिपुरुषात्मिके
प्रत्ययगोचरे
प्रमाणभूते
प्रणवस्वरूपे
संसारसारे
सच्चिदानन्दे
सनातनि
सकले
सकलकलातीते
सामरस्यसमयिनि
केवले
कैवल्यरूपे
कल्पनातिगे
काललोपिनि
कामरहिते
कामकलाकालि
भगवति
॥
ओं
ख्फ्रें
ह्सौः
सौः
श्रीं
ऐं
ह्रौं
क्रों
स्फ्रों
सर्वसिद्धिं
देहि
देहि
मनोरथान्
पूरय
पूरय
मुक्तिं
नियोजय
नियोजय
भवपाशं
समुन्मूलय
समुन्मूलय
जन्ममृत्यू
तारय
तारय
परविद्यां
प्रकाशय
प्रकाशय
अपवर्गं
निर्माहि
निर्माहि
संसारदुःखं
यातनां
विच्छेदय
विच्छेदय
पापानि
संशमय
संशमय
चतुर्वर्गं
साधय
साधय
ह्रां
ह्रीं
ह्रूं
ह्रैं
ह्रौं
यान्
वयं
द्विष्मो
ये
चास्मान्
विद्विषन्ति
तान्
सर्वान्
विनाशय
विनाशय
मारय
मारय
शोषय
शोषय
क्षोभय
क्षोभय
मयि
कृपां
निवेशय
निवेशय
फ्रें
ख्फ्रें
हस्फ्रें
ह्स्ख्फ्रें
हूं
स्फ्रों
क्लीं
ह्रीं
जय
जय
चराचरात्मक
ब्रह्माण्डोदरवर्ति
भूतसङ्घाराधिते
प्रसीद
प्रसीद
तुभ्यं
देवि
नमस्ते
नमस्ते
नमस्ते
॥
इतीदं
गद्यमुदितं
मन्त्ररूपं
वरानने
।
सहस्रनामस्तोत्रस्य
आदावन्ते
च
योजयेत्
॥
3
॥
अशक्नुवानौ
द्वौ
वारौ
पठेच्छेष
इमं
स्तवम्
।
सहस्रनामस्तोत्रस्य
तदैव
प्राप्यते
फलम्
॥
4
॥
अपठन्
गद्यमेतत्तु
तत्फलं
न
समाप्नुयात्
।
यत्फलं
स्तोत्रराजस्य
पाठेनाप्नोति
साधकः
।
तत्फलं
गद्यपाठेन
लभते
नात्र
संशयः
॥
5
॥
इति
महाकालसंहितायां
द्वादशतमः
पटले
श्री
कामकला
काली
सञ्जीवन
गद्य
स्तोत्रम्
॥
Recite with devotion and pure heart
Regular practice brings spiritual benefits