Haindavam Logo - Lord Ganesha

हैंदवम्

📍
Font Size:

कालिकाष्टकम्

ध्यानम् गलद्रक्तमुण्डावलीकण्ठमाला महाघोररावा सुदंष्ट्रा कराला विवस्त्रा श्मशानालया मुक्तकेशी महाकालकामाकुला कालिकेयम् 1 भुजेवामयुग्मे शिरोऽसिं दधाना वरं दक्षयुग्मेऽभयं वै तथैव सुमध्याऽपि तुङ्गस्तना भारनम्रा लसद्रक्तसृक्कद्वया सुस्मितास्या 2 शवद्वन्द्वकर्णावतंसा सुकेशी लसत्प्रेतपाणिं प्रयुक्तैककाञ्ची शवाकारमञ्चाधिरूढा शिवाभि- -श्चतुर्दिक्षुशब्दायमानाऽभिरेजे 3 स्तुतिः विरञ्च्यादिदेवास्त्रयस्ते गुणास्त्रीन् समाराध्य कालीं प्रधाना बभूवुः अनादिं सुरादिं मखादिं भवादिं स्वरूपं त्वदीयं विन्दन्ति देवाः 1 जगन्मोहिनीयं तु वाग्वादिनीयं सुहृत्पोषिणी शत्रुसंहारणीयम् वचस्तम्भनीयं किमुच्चाटनीयं स्वरूपं त्वदीयं विन्दन्ति देवाः 2 इयं स्वर्गदात्री पुनः कल्पवल्ली मनोजास्तु कामान् यथार्थं प्रकुर्यात् तथा ते कृतार्था भवन्तीति नित्यं स्वरूपं त्वदीयं विन्दन्ति देवाः 3 सुरापानमत्ता सुभक्तानुरक्ता लसत्पूतचित्ते सदाविर्भवत्ते जपध्यानपूजासुधाधौतपङ्का स्वरूपं त्वदीयं विन्दन्ति देवाः 4 चिदानन्दकन्दं हसन्मन्दमन्दं शरच्चन्द्रकोटिप्रभापुञ्जबिम्बम् मुनीनां कवीनां हृदि द्योतयन्तं स्वरूपं त्वदीयं विन्दन्ति देवाः 5 महामेघकाली सुरक्तापि शुभ्रा कदाचिद्विचित्राकृतिर्योगमाया बाला वृद्धा कामातुरापि स्वरूपं त्वदीयं विन्दन्ति देवाः 6 क्षमस्वापराधं महागुप्तभावं मया लोकमध्ये प्रकाशीकृतं यत् तव ध्यानपूतेन चापल्यभावात् स्वरूपं त्वदीयं विन्दन्ति देवाः 7 यदि ध्यानयुक्तं पठेद्यो मनुष्य- -स्तदा सर्वलोके विशालो भवेच्च गृहे चाष्टसिद्धिर्मृते चापि मुक्तिः स्वरूपं त्वदीयं विन्दन्ति देवाः 8 इति श्री मच्छङ्कराचार्य विरचितं श्री कालिकाष्टकम्

Recite with devotion and pure heart

Regular practice brings spiritual benefits