हैंदवम्
हैं
హై
हैंदवम्
ஹி
હિં
English
हिंदी
മലയാളം
తెలుగు
தமிழ்
ಕನ್ನಡ
📍
𖦏
Auto Detect Location
Font Size:
a
a
a
काली स्तुतिः
नमामि
कृष्णरूपिणीं
कृष्णाङ्गयष्टिधारिणीम्
।
समग्रतत्त्वसागरं
अपारपारगह्वराम्
॥
1
॥
शिवाप्रभां
समुज्ज्वलां
स्फुरच्छशाङ्कशेखराम्
।
ललाटरत्नभास्करां
जगत्प्रदीप्तिभास्कराम्
॥
2
॥
महेन्द्रकश्यपार्चितां
सनत्कुमारसंस्तुताम्
।
सुरासुरेन्द्रवन्दितां
यथार्थनिर्मलाद्भुताम्
॥
3
॥
अतर्क्यरोचिरूर्जितां
विकारदोषवर्जिताम्
।
मुमुक्षुभिर्विचिन्तितां
विशेषतत्त्वसूचिताम्
॥
4
॥
मृतास्थिनिर्मितस्रजां
मृगेन्द्रवाहनाग्रजाम्
।
सुशुद्धतत्त्वतोषणां
त्रिवेदपारभूषणाम्
॥
5
॥
भुजङ्गहारहारिणीं
कपालखण्डधारिणीम्
।
सुधार्मिकौपकारिणीं
सुरेन्द्रवैरिघातिनीम्
॥
6
॥
कुठारपाशचापिनीं
कृतान्तकामभेदिनीम्
।
शुभां
कपालमालिनीं
सुवर्णकल्पशाखिनीम्
॥
7
॥
श्मशानभूमिवासिनीं
द्विजेन्द्रमौलिभाविनीम्
।
तमोऽन्धकारयामिनीं
शिवस्वभावकामिनीम्
॥
8
॥
सहस्रसूर्यराजिकां
धनञ्जयोग्रकारिकाम्
।
सुशुद्धकालकन्दलां
सुभृङ्गबृन्दमञ्जुलाम्
॥
9
॥
प्रजायिनीं
प्रजावतीं
नमामि
मातरं
सतीम्
।
स्वकर्मकारणे
गतिं
हरप्रियां
च
पार्वतीम्
॥
10
॥
अनन्तशक्तिकान्तिदां
यशोऽर्थभुक्तिमुक्तिदाम्
।
पुनः
पुनर्जगद्धितां
नमाम्यहं
सुरार्चिताम्
॥
11
॥
जयेश्वरि
त्रिलोचने
प्रसीद
देवि
पाहि
माम्
।
जयन्ति
ते
स्तुवन्ति
ये
शुभं
लभन्त्यमोक्षतः
॥
12
॥
सदैव
ते
हतद्विषः
परं
भवन्ति
सज्जुषः
।
जराः
परे
शिवेऽधुना
प्रसाधि
मां
करोमि
किम्
॥
13
॥
अतीव
मोहितात्मनो
वृथा
विचेष्टितस्य
मे
।
कुरु
प्रसादितं
मनो
यथास्मि
जन्मभञ्जनः
॥
14
॥
तथा
भवन्तु
तावका
यथैव
घोषितालकाः
।
इमां
स्तुतिं
ममेरितां
पठन्ति
कालिसाधकाः
।
न
ते
पुनः
सुदुस्तरे
पतन्ति
मोहगह्वरे
॥
15
॥
इति
कालीरहस्ये
ब्रह्म
कृत
श्री
काली
स्तुतिः
॥
Recite with devotion and pure heart
Regular practice brings spiritual benefits