हैंदवम्
हैं
హై
हैंदवम्
ஹி
હિં
English
हिंदी
മലയാളം
తెలుగు
தமிழ்
ಕನ್ನಡ
📍
𖦏
Auto Detect Location
Font Size:
a
a
a
कालि सहस्रनाम स्तोत्रम्
श्री
शिव
उवाच
।
कथितोऽयं
महामन्त्रः
सर्वमन्त्रोत्तमोत्तमः
।
यामासाद्य
मया
प्राप्तमैश्वर्यपदमुत्तमम्
॥
1
॥
संयुक्तः
परया
भक्त्या
यथोक्त
विधिना
भवान्
।
कुरुतामर्चनं
देव्यास्त्रैलोक्यविजिगीषया
॥
2
॥
श्रीपरशुराम
उवाच
।
प्रसन्नो
यदि
मे
देव
परमेश
पुरातन
।
रहस्यं
परमं
देव्याः
कृपया
कथय
प्रभो
॥
3
॥
विनार्चनं
विना
होमं
विना
न्यासं
विना
बलिम्
।
विना
गन्धं
विना
पुष्पं
विना
नित्योदितां
क्रियाम्
॥
4
॥
प्राणायामं
विना
ध्यानं
विना
भूतविशोधनम्
।
विना
दानं
विना
जापं
येन
काली
प्रसीदति
॥
5
॥
श्री
शिव
उवाच
।
पृष्टं
त्वयोत्तमं
प्राज्ञ
भृगुवंश
समुद्भव
।
भक्तानामपि
भक्तोऽसि
त्वमेव
साधयिष्यसि
॥
6
॥
देवीं
दानवकोटिघ्नीं
लीलया
रुधिरप्रियाम्
।
सदा
स्तोत्रप्रियामुग्रां
कामकौतुकलालसाम्
॥
7
॥
सर्वदाऽऽनन्दहृदयामासवोत्सव
मानसाम्
।
माध्वीक
मत्स्यमांसानुरागिणीं
वैष्णवीं
पराम्
॥
8
॥
श्मशानवासिनीं
प्रेतगणनृत्यमहोत्सवाम्
।
योगप्रभावां
योगेशीं
योगीन्द्रहृदयस्थिताम्
॥
9
॥
तामुग्रकालिकां
राम
प्रसीदयितुमर्हसि
।
तस्याः
स्तोत्रं
परं
पुण्यं
स्वयं
काल्या
प्रकाशितम्
॥
10
॥
तव
तत्
कथयिष्यामि
श्रुत्वा
वत्सावधारय
।
गोपनीयं
प्रयत्नेन
पठनीयं
परात्परम्
॥
11
॥
यस्यैककालपठनात्
सर्वे
विघ्नाः
समाकुलाः
।
नश्यन्ति
दहने
दीप्ते
पतङ्गा
इव
सर्वतः
॥
12
॥
गद्यपद्यमयी
वाणी
तस्य
गङ्गाप्रवाहवत्
।
तस्य
दर्शनमात्रेण
वादिनो
निष्प्रभां
गताः
॥
13
॥
तस्य
हस्ते
सदैवास्ति
सर्वसिद्धिर्न
संशयः
।
राजानोऽपि
च
दासत्वं
भजन्ते
किं
परे
जनाः
॥
14
॥
निशीथे
मुक्तकेशस्तु
नग्नः
शक्तिसमाहितः
।
मनसा
चिन्तयेत्
कालीं
महाकालेन
चालिताम्
॥
15
॥
पठेत्
सहस्रनामाख्यं
स्तोत्रं
मोक्षस्य
साधनम्
।
प्रसन्ना
कालिका
तस्य
पुत्रत्वेनानुकम्पते
॥
16
॥
यथा
ब्रह्ममृतैर्ब्रह्मकुसुमैः
पूजिता
परा
।
प्रसीदति
तथानेन
स्तुता
काली
प्रसीदति
॥
17
॥
विनियोगः
–
अस्य
श्री
दक्षिणकालिका
सहस्रनाम
स्तोत्रस्य
महाकालभैरव
ऋषिः
अनुष्टुप्
छन्दः
श्मशानकाली
देवता
धर्मार्थकाममोक्षार्थे
पाठे
विनियोगः
।
ध्यानम्
–
शवारूढां
महाभीमां
घोरदंष्ट्रां
हसन्मुखीं
चतुर्भुजां
खड्गमुण्डवराभयकरां
शिवाम्
।
मुण्डमालाधरां
देवीं
ललाज्जिह्वां
दिगम्बरां
एवं
सञ्चिन्तयेत्कालीं
श्मशानालयवासिनीम्
॥
स्तोत्रम्
–
श्मशानकालिका
काली
भद्रकाली
कपालिनी
।
गुह्यकाली
महाकाली
कुरुकुल्ला
विरोधिनी
॥
1
॥
कालिका
कालरात्रिश्च
महाकालनितम्बिनी
।
कालभैरवभार्या
च
कुलवर्त्मप्रकाशिनी
॥
2
॥
कामदा
कामिनी
कन्या
कमनीयस्वरूपिणी
।
कस्तूरीरसलिप्ताङ्गी
कुञ्जरेश्वरगामिनी
॥
3
॥
ककारवर्णसर्वाङ्गी
कामिनी
कामसुन्दरी
।
कामार्ता
कामरूपा
च
कामधेनुः
कलावती
॥
4
॥
कान्ता
कामस्वरूपा
च
कामाख्या
कुलकामिनी
।
कुलीना
कुलवत्यम्बा
दुर्गा
दुर्गतिनाशिनी
॥
5
॥
कौमारी
कलजा
कृष्णा
कृष्णदेहा
कृशोदरी
।
कृशाङ्गी
कुलिशाङ्गी
च
क्रीङ्कारी
कमला
कला
॥
6
॥
करालास्या
कराली
च
कुलकान्ताऽपराजिता
।
उग्रा
उग्रप्रभा
दीप्ता
विप्रचित्ता
महाबला
॥
7
॥
नीला
घना
मेघनादा
मात्रा
मुद्रा
मितामिता
।
ब्राह्मी
नारायणी
भद्रा
सुभद्रा
भक्तवत्सला
॥
8
॥
माहेश्वरी
च
चामुण्डा
वाराही
नारसिंहिका
।
वज्राङ्गी
वज्रकङ्काली
नृमुण्डस्रग्विणी
शिवा
॥
9
॥
मालिनी
नरमुण्डाली
गलद्रक्तविभूषणा
।
रक्तचन्दनसिक्ताङ्गी
सिन्दूरारुणमस्तका
॥
10
॥
घोररूपा
घोरदंष्ट्रा
घोराघोरतरा
शुभा
।
महादंष्ट्रा
महामाया
सुदती
युगदन्तुरा
॥
11
॥
सुलोचना
विरूपाक्षी
विशालाक्षी
त्रिलोचना
।
शारदेन्दुप्रसन्नास्या
स्फुरत्स्मेराम्बुजेक्षणा
॥
12
॥
अट्टहासप्रफुल्लास्या
स्मेरवक्त्रा
सुभाषिणी
।
प्रफुल्लपद्मवदना
स्मितास्या
प्रियभाषिणी
॥
13
॥
कोटराक्षी
कुलश्रेष्ठा
महती
बहुभाषिणी
।
सुमतिः
कुमतिश्चण्डा
चण्डमुण्डातिवेगिनी
॥
14
॥
सुकेशी
मुक्तकेशी
च
दीर्घकेशी
महाकचा
।
प्रेतदेहाकर्णपूरा
प्रेतपाणिसुमेखला
॥
15
॥
प्रेतासना
प्रियप्रेता
पुण्यदा
कुलपण्डिता
।
पुण्यालया
पुण्यदेहा
पुण्यश्लोका
च
पावनी
॥
16
॥
पूता
पवित्रा
परमा
परा
पुण्यविभूषणा
।
पुण्यनाम्नी
भीतिहरा
वरदा
खड्गपाणिनी
॥
17
॥
नृमुण्डहस्ता
शान्ता
च
छिन्नमस्ता
सुनासिका
।
दक्षिणा
श्यामला
श्यामा
शान्ता
पीनोन्नतस्तनी
॥
18
॥
दिगम्बरा
घोररावा
सृक्कान्तरक्तवाहिनी
।
घोररावा
शिवासङ्गा
निःसङ्गा
मदनातुरा
॥
19
॥
मत्ता
प्रमत्ता
मदना
सुधासिन्धुनिवासिनी
।
अतिमत्ता
महामत्ता
सर्वाकर्षणकारिणी
॥
20
॥
गीतप्रिया
वाद्यरता
प्रेतनृत्यपरायणा
।
चतुर्भुजा
दशभुजा
अष्टादशभुजा
तथा
॥
21
॥
कात्यायनी
जगन्माता
जगती
परमेश्वरी
।
जगद्बन्धुर्जगद्धात्री
जगदानन्दकारिणी
॥
22
॥
जगज्जीववती
हैमवती
माया
महालया
।
नागयज्ञोपवीताङ्गी
नागिनी
नागशायिनी
॥
23
॥
नागकन्या
देवकन्या
गान्धारी
किन्नरी
सुरी
।
मोहरात्री
महारात्री
दारुणामासुरासुरी
॥
24
॥
विद्याधरी
वसुमती
यक्षिणी
योगिनी
जरा
।
राक्षसी
डाकिनी
वेदमयी
वेदविभूषणा
॥
25
॥
श्रुतिस्मृतिमहाविद्या
गुह्यविद्या
पुरातनी
।
चिन्त्याऽचिन्त्या
स्वधा
स्वाहा
निद्रा
तन्द्रा
च
पार्वती
॥
26
॥
अपर्णा
निश्चला
लोला
सर्वविद्या
तपस्विनी
।
गङ्गा
काशी
शची
सीता
सती
सत्यपरायणा
॥
27
॥
नीतिः
सुनीतिः
सुरुचिस्तुष्टिः
पुष्टिर्धृतिः
क्षमा
।
वाणी
बुद्धिर्महालक्ष्मी
लक्ष्मीर्नीलसरस्वती
॥
28
॥
स्रोतस्वती
स्रोतवती
मातङ्गी
विजया
जया
।
नदी
सिन्धुः
सर्वमयी
तारा
शून्यनिवासिनी
॥
29
॥
शुद्धा
तरङ्गिणी
मेधा
लाकिनी
बहुरूपिणी
।
सदानन्दमयी
सत्या
सर्वानन्दस्वरूपिणी
॥
30
॥
सुनन्दा
नन्दिनी
स्तुत्या
स्तवनीया
स्वभाविनी
।
रङ्किणी
टङ्किणी
चित्रा
विचित्रा
चित्ररूपिणी
॥
31
॥
पद्मा
पद्मालया
पद्मसुखी
पद्मविभूषणा
।
शाकिनी
हाकिनी
क्षान्ता
राकिणी
रुधिरप्रिया
॥
32
॥
भ्रान्तिर्भवानी
रुद्राणी
मृडानी
शत्रुमर्दिनी
।
उपेन्द्राणी
महेशानी
ज्योत्स्ना
चेन्द्रस्वरूपिणी
॥
33
॥
सूर्यात्मिका
रुद्रपत्नी
रौद्री
स्त्री
प्रकृतिः
पुमान्
।
शक्तिः
सूक्तिर्मतिमती
भुक्तिर्मुक्तिः
पतिव्रता
॥
34
॥
सर्वेश्वरी
सर्वमाता
शर्वाणी
हरवल्लभा
।
सर्वज्ञा
सिद्धिदा
सिद्धा
भाव्या
भव्या
भयापहा
॥
35
॥
कर्त्री
हर्त्री
पालयित्री
शर्वरी
तामसी
दया
।
तमिस्रा
यामिनीस्था
च
स्थिरा
धीरा
तपस्विनी
॥
36
॥
चार्वङ्गी
चञ्चला
लोलजिह्वा
चारुचरित्रिणी
।
त्रपा
त्रपावती
लज्जा
निर्लज्जा
ह्रीं
रजोवती
॥
37
॥
सत्त्ववती
धर्मनिष्ठा
श्रेष्ठा
निष्ठुरवादिनी
।
गरिष्ठा
दुष्टसंहर्त्री
विशिष्टा
श्रेयसी
घृणा
॥
38
॥
भीमा
भयानका
भीमनादिनी
भीः
प्रभावती
।
वागीश्वरी
श्रीर्यमुना
यज्ञकर्त्री
यजुःप्रिया
॥
39
॥
ऋक्सामाथर्वनिलया
रागिणी
शोभनस्वरा
।
कलकण्ठी
कम्बुकण्ठी
वेणुवीणापरायणा
॥
40
॥
वंशिनी
वैष्णवी
स्वच्छा
धात्री
त्रिजगदीश्वरी
।
मधुमती
कुण्डलिनी
ऋद्धिः
सिद्धिः
शुचिस्मिता
॥
41
॥
रम्भोर्वशी
रती
रामा
रोहिणी
रेवती
रमा
।
शङ्खिनी
चक्रिणी
कृष्णा
गदिनी
पद्मिनी
तथा
॥
42
॥
शूलिनी
परिघास्त्रा
च
पाशिनी
शार्ङ्गपाणिनी
।
पिनाकधारिणी
धूम्रा
शरभी
वनमालिनी
॥
43
॥
वज्रिणी
समरप्रीता
वेगिनी
रणपण्डिता
।
जटिनी
बिम्बिनी
नीला
लावण्याम्बुधिचन्द्रिका
॥
44
॥
बलिप्रिया
सदापूज्या
पूर्णा
दैत्येन्द्रमाथिनी
।
महिषासुरसंहन्त्री
वासिनी
रक्तदन्तिका
॥
45
॥
रक्तपा
रुधिराक्ताङ्गी
रक्तखर्परहस्तिनी
।
रक्तप्रिया
मांसरुचिर्वासवासक्तमानसा
॥
46
॥
गलच्छोणितमुण्डालिकण्ठमालाविभूषणा
।
शवासना
चितान्तस्था
माहेशी
वृषवाहिनी
॥
47
॥
व्याघ्रत्वगम्बरा
चीनचेलिनी
सिंहवाहिनी
।
वामदेवी
महादेवी
गौरी
सर्वज्ञभाविनी
॥
48
॥
बालिका
तरुणी
वृद्धा
वृद्धमाता
जरातुरा
।
सुभ्रुर्विलासिनी
ब्रह्मवादिनी
ब्राह्मणी
मही
॥
49
॥
स्वप्नवती
चित्रलेखा
लोपामुद्रा
सुरेश्वरी
।
अमोघाऽरुन्धती
तीक्ष्णा
भोगवत्यनुवादिनी
॥
50
॥
मन्दाकिनी
मन्दहासा
ज्वालामुख्यसुरान्तका
।
मानदा
मानिनी
मान्या
माननीया
मदोद्धता
॥
51
॥
मदिरा
मदिरान्मादा
मेध्या
नव्या
प्रसादिनी
।
सुमध्याऽनन्तगुणिनी
सर्वलोकोत्तमोत्तमा
॥
52
॥
जयदा
जित्वरा
जैत्री
जयश्रीर्जयशालिनी
।
सुखदा
शुभदा
सत्या
सभासङ्क्षोभकारिणी
॥
53
॥
शिवदूती
भूतिमती
विभूतिर्भीषणानना
।
कौमारी
कुलजा
कुन्ती
कुलस्त्री
कुलपालिका
॥
54
॥
कीर्तिर्यशस्विनी
भूषा
भूष्या
भूतपतिप्रिया
।
सगुणा
निर्गुणा
धृष्टा
निष्ठा
काष्ठा
प्रतिष्ठिता
॥
55
॥
धनिष्ठा
धनदा
धन्या
वसुधा
स्वप्रकाशिनी
।
उर्वी
गुर्वी
गुरुश्रेष्ठा
सगुणा
त्रिगुणात्मिका
॥
56
॥
महाकुलीना
निष्कामा
सकामा
कामजीवना
।
कामदेवकला
रामाऽभिरामा
शिवनर्तकी
॥
57
॥
चिन्तामणिः
कल्पलता
जाग्रती
दीनवत्सला
।
कार्तिकी
कीर्तिका
कृत्या
अयोध्या
विषमा
समा
॥
58
॥
सुमन्त्रा
मन्त्रिणी
घूर्णा
ह्लादिनी
क्लेशनाशिनी
।
त्रैलोक्यजननी
हृष्टा
निर्मांसा
मनोरूपिणी
॥
59
॥
तडागनिम्नजठरा
शुष्कमांसास्थिमालिनी
।
अवन्ती
मथुरा
माया
त्रैलोक्यपावनीश्वरी
॥
60
॥
व्यक्ताऽव्यक्ताऽनेकमूर्तिः
शर्वरी
भीमनादिनी
।
क्षेमङ्करी
शङ्करी
च
सर्वसम्मोहकारिणी
॥
61
॥
ऊर्ध्वतेजस्विनी
क्लिन्ना
महातेजस्विनी
तथा
।
अद्वैता
भोगिनी
पूज्या
युवती
सर्वमङ्गला
॥
62
॥
सर्वप्रियङ्करी
भोग्या
धरणी
पिशिताशना
।
भयङ्करी
पापहरा
निष्कलङ्का
वशङ्करी
॥
63
॥
आशा
तृष्णा
चन्द्रकला
निद्रान्या
वायुवेगिनी
।
सहस्रसूर्यसङ्काशा
चन्द्रकोटिसमप्रभा
॥
64
॥
वह्निमण्डलसंस्था
च
सर्वतत्त्वप्रतिष्ठिता
।
सर्वाचारवती
सर्वदेवकन्याधिदेवता
॥
65
॥
दक्षकन्या
दक्षयज्ञनाशिनी
दुर्गतारिका
।
इज्या
पूज्या
विभा
भूतिः
सत्कीर्तिर्ब्रह्मरूपिणी
॥
66
॥
रम्भोरुश्चतुरा
राका
जयन्ती
करुणा
कुहुः
।
मनस्विनी
देवमाता
यशस्या
ब्रह्मचारिणी
॥
67
॥
ऋद्धिदा
वृद्धिदा
वृद्धिः
सर्वाद्या
सर्वदायिनी
।
आधाररूपिणी
ध्येया
मूलाधारनिवासिनी
॥
68
॥
अज्ञा
प्रज्ञा
पूर्णमनाश्चन्द्रमुख्यनुकूलिनी
।
वावदूका
निम्ननाभिः
सत्या
सन्ध्या
दृढव्रता
॥
69
॥
आन्वीक्षिकी
दण्डनीतिस्त्रयी
त्रिदिवसुन्दरी
।
ज्वलिनी
ज्वालिनी
शैलतनया
विन्ध्यवासिनी
॥
70
॥
अमेया
खेचरी
धैर्या
तुरीया
विमलाऽऽतुरा
।
प्रगल्भा
वारुणी
छाया
शशिनी
विस्फुलिङ्गिनी
॥
71
॥
भुक्तिः
सिद्धिः
सदाप्राप्तिः
प्राकाम्या
महिमाऽणिमा
।
इच्छासिद्धिर्विसिद्धा
च
वशित्वोर्ध्वनिवासिनी
॥
72
॥
लघिमा
चैव
गायत्री
सावित्री
भुवनेश्वरी
।
मनोहरा
चिता
दिव्या
देव्युदारा
मनोरमा
॥
73
॥
पिङ्गला
कपिला
जिह्वारसज्ञा
रसिका
रसा
।
सुषुम्नेडा
भोगवती
गान्धारी
नरकान्तका
॥
74
॥
पाञ्चाली
रुक्मिणी
राधाराध्या
भीमाधिराधिका
।
अमृता
तुलसी
वृन्दा
कैटभी
कपटेश्वरी
॥
75
॥
उग्रचण्डेश्वरी
वीरा
जननी
वीरसुन्दरी
।
उग्रतारा
यशोदाख्या
दैवकी
देवमानिता
॥
76
॥
निरञ्जना
चित्रदेवी
क्रोधिनी
कुलदीपिका
।
कुलवागीश्वरी
वाणी
मातृका
द्राविणी
द्रवा
॥
77
॥
योगेश्वरी
महामारी
भ्रामरी
बिन्दुरूपिणी
।
दूती
प्राणेश्वरी
गुप्ता
बहुला
चमरी
प्रभा
॥
78
॥
कुब्जिका
ज्ञानिनी
ज्येष्ठा
भुशुण्डी
प्रकटा
तिथिः
।
द्रविणी
गोपनी
माया
कामबीजेश्वरी
क्रिया
॥
79
॥
शाम्भवी
केकरा
मेना
मूषलास्त्रा
तिलोत्तमा
।
अमेयविक्रमा
क्रूरा
सम्पत्शाला
त्रिलोचना
॥
80
॥
स्वस्तिर्हव्यवहा
प्रीतिरुष्मा
धूम्रार्चिरङ्गदा
।
तपिनी
तापिनी
विश्वा
भोगदा
धारिणी
धरा
॥
81
॥
त्रिखण्डा
बोधिनी
वश्या
सकला
शब्दरूपिणी
।
बीजरूपा
महामुद्रा
योगिनी
योनिरूपिणी
॥
82
॥
अनङ्गकुसुमाऽनङ्गमेखलाऽनङ्गरूपिणी
।
वज्रेश्वरी
च
जयिनी
सर्वद्वन्द्वक्षयङ्करी
॥
83
॥
षडङ्गयुवती
योगयुक्ता
ज्वालांशुमालिनी
।
दुराशया
दुराधारा
दुर्जया
दुर्गरूपिणी
॥
84
॥
दुरन्ता
दुष्कृतिहरा
दुर्ध्येया
दुरतिक्रमा
।
हंसेश्वरी
त्रिकोणस्था
शाकम्भर्यनुकम्पिनी
॥
85
॥
त्रिकोणनिलया
नित्या
परमामृतरञ्जिता
।
महाविद्येश्वरी
श्वेता
भेरुण्डा
कुलसुन्दरी
॥
86
॥
त्वरिता
भक्तिसंसक्ता
भक्तवश्या
सनातनी
।
भक्तानन्दमयी
भक्तभाविका
भक्तशङ्करी
॥
87
॥
सर्वसौन्दर्यनिलया
सर्वसौभाग्यशालिनी
।
सर्वसम्भोगभवना
सर्वसौख्यनिरूपिणी
॥
88
॥
कुमारीपूजनरता
कुमारीव्रतचारिणी
।
कुमारीभक्तिसुखिनी
कुमारीरूपधारिणी
॥
89
॥
कुमारीपूजकप्रीता
कुमारीप्रीतिदा
प्रिया
।
कुमारीसेवकासङ्गा
कुमारीसेवकालया
॥
90
॥
आनन्दभैरवी
बालभैरवी
बटुभैरवी
।
श्मशानभैरवी
कालभैरवी
पुरभैरवी
॥
91
॥
महाभैरवपत्नी
च
परमानन्दभैरवी
।
सुधानन्दभैरवी
च
उन्मादानन्दभैरवी
॥
92
॥
मुक्तानन्दभैरवी
च
तथा
तरुणभैरवी
।
ज्ञानानन्दभैरवी
च
अमृतानन्दभैरवी
॥
93
॥
महाभयङ्करी
तीव्रा
तीव्रवेगा
तपस्विनी
।
त्रिपुरा
परमेशानी
सुन्दरी
पुरसुन्दरी
॥
94
॥
त्रिपुरेशी
पञ्चदशी
पञ्चमी
पुरवासिनी
।
महासप्तदशी
चैव
षोडशी
त्रिपुरेश्वरी
॥
95
॥
महाङ्कुशस्वरूपा
च
महाचक्रेश्वरी
तथा
।
नवचक्रेश्वरी
चक्रेश्वरी
त्रिपुरमालिनी
॥
96
॥
राजराजेश्वरी
धीरा
महात्रिपुरसुन्दरी
।
सिन्दूरपूररुचिरा
श्रीमत्त्रिपुरसुन्दरी
॥
97
॥
सर्वाङ्गसुन्दरी
रक्तारक्तवस्त्रोत्तरीयिणी
।
जवायावकसिन्दूररक्तचन्दनधारिणी
॥
98
॥
जवायावकसिन्दूररक्तचन्दनरूपधृक्
।
चामरी
बालकुटिलनिर्मला
श्यामकेशिनी
॥
99
॥
वज्रमौक्तिकरत्नाढ्या
किरीटमुकुटोज्ज्वला
।
रत्नकुण्डलसंयुक्तस्फुरद्गण्डमनोरमा
॥
100
॥
कुञ्जरेश्वरकुम्भोत्थमुक्तारञ्जितनासिका
।
मुक्ताविद्रुममाणिक्यहाराढ्यस्तनमण्डला
॥
101
॥
सूर्यकान्तेन्दुकान्ताढ्यस्पर्शाश्मकण्ठभूषणा
।
बीजपूरस्फुरद्बीजदन्तपङ्क्तिरनुत्तमा
॥
102
॥
कामकोदण्डकाभुग्नभ्रूकटाक्षप्रवर्षिणी
।
मातङ्गकुम्भवक्षोजा
लसत्कोकनदेक्षणा
॥
103
॥
मनोज्ञशष्कुलीकर्णा
हंसीगतिविडम्बिनी
।
पद्मरागाङ्गदज्योतिर्दोश्चतुष्कप्रकाशिनी
॥
104
॥
नानामणिपरिस्फूर्जच्छुद्धकाञ्चनकङ्कणा
।
नागेन्द्रदन्तनिर्माणवलयाङ्कितपाणिनी
॥
105
॥
अङ्गुरीयकचित्राङ्गी
विचित्रक्षुद्रघण्टिका
।
पट्टाम्बरपरीधाना
कलमञ्जीरशिञ्जिनी
॥
106
॥
कर्पूरागरुकस्तूरीकुङ्कुमद्रवलेपिता
।
विचित्ररत्नपृथिवीकल्पशाखितलस्थिता
॥
107
॥
रत्नद्वीपस्फुरद्रत्नसिंहासनविलासिनी
।
षट्चक्रभेदनकरी
परमानन्दरूपिणी
॥
108
॥
सहस्रदलपद्मान्तश्चन्द्रमण्डलवर्तिनी
।
ब्रह्मरूपा
शिवक्रोडा
नानासुखविलासिनी
॥
109
॥
हरविष्णुविरिञ्चीन्द्रग्रहनायकसेविता
।
शिवा
शैवा
च
रुद्राणी
तथैव
शिववादिनी
॥
110
॥
मातङ्गिनी
श्रीमती
च
तथैवानङ्गमेखला
।
डाकिनी
योगिनी
चैव
तथोपयोगिनी
मता
॥
111
॥
माहेश्वरी
वैष्णवी
च
भ्रामरी
शिवरूपिणी
।
अलम्बुषा
वेगवती
क्रोधरूपा
सुमेखला
॥
112
॥
गान्धारी
हस्तजिह्वा
च
इडा
चैव
शुभङ्करी
।
पिङ्गला
ब्रह्मदूती
च
सुषुम्ना
चैव
गन्धिनी
॥
113
॥
आत्मयोनिर्ब्रह्मयोनिर्जगद्योनिरयोनिजा
।
भगरूपा
भगस्थात्री
भगिनी
भगरूपिणी
॥
114
॥
भगात्मिका
भगाधाररूपिणी
भगमालिनी
।
लिङ्गाख्या
चैव
लिङ्गेशी
त्रिपुरा
भैरवी
तथा
॥
115
॥
लिङ्गगीतिः
सुगीतिश्च
लिङ्गस्था
लिङ्गरूपधृक्
।
लिङ्गमाना
लिङ्गभवा
लिङ्गलिङ्गा
च
पार्वती
॥
116
॥
भगवती
कौशिकी
च
प्रेमा
चैव
प्रियंवदा
।
गृध्ररूपा
शिवारूपा
चक्रिणी
चक्ररूपधृक्
॥
117
॥
लिङ्गाभिधायिनी
लिङ्गप्रिया
लिङ्गनिवासिनी
।
लिङ्गस्था
लिङ्गनी
लिङ्गरूपिणी
लिङ्गसुन्दरी
॥
118
॥
लिङ्गगीतिर्महाप्रीता
भगगीतिर्महासुखा
।
लिङ्गनामसदानन्दा
भगनामसदागतिः
॥
119
॥
लिङ्गमालाकण्ठभूषा
भगमालाविभूषणा
।
भगलिङ्गामृतप्रीता
भगलिङ्गस्वरूपिणी
॥
120
॥
भगलिङ्गस्य
रूपा
च
भगलिङ्गसुखावहा
।
स्वयम्भूकुसुमप्रीता
स्वयम्भूकुसुमार्चिता
॥
121
॥
स्वयम्भूकुसुमप्राणा
स्वयम्भूपुष्पतर्पिता
।
स्वयम्भूपुष्पघटिता
स्वयम्भूपुष्पधारिणी
॥
122
॥
स्वयम्भूपुष्पतिलका
स्वयम्भूपुष्पचर्चिता
।
स्वयम्भूपुष्पनिरता
स्वयम्भूकुसुमग्रहा
॥
123
॥
स्वयम्भूपुष्पयज्ञांशा
स्वयम्भूकुसुमात्मिका
।
स्वयम्भूपुष्पनिचिता
स्वयम्भूकुसुमप्रिया
॥
124
॥
स्वयम्भूकुसुमादानलालसोन्मत्तमानसा
।
स्वयम्भूकुसुमानन्दलहरीस्निग्धदेहिनी
॥
125
॥
स्वयम्भूकुसुमाधारा
स्वयम्भूकुसुमाकुला
।
स्वयम्भूपुष्पनिलया
स्वयम्भूपुष्पवासिनी
॥
126
॥
स्वयम्भूकुसुमस्निग्धा
स्वयम्भूकुसुमात्मिका
।
स्वयम्भूपुष्पकरिणी
स्वयम्भूपुष्पवाणिका
॥
127
॥
स्वयम्भूकुसुमध्याना
स्वयम्भूकुसुमप्रभा
।
स्वयम्भूकुसुमज्ञाना
स्वयम्भूपुष्पभागिनी
॥
128
॥
स्वयम्भूकुसुमोल्लासा
स्वयम्भूपुष्पवर्षिणी
।
स्वयम्भूकुसुमोत्साहा
स्वयम्भूपुष्परूपिणी
॥
129
॥
स्वयम्भूकुसुमोन्मादा
स्वयम्भूपुष्पसुन्दरी
।
स्वयम्भूकुसुमाराध्या
स्वयम्भूकुसुमोद्भवा
॥
130
॥
स्वयम्भूकुसुमाव्यग्रा
स्वयम्भूपुष्पपूर्णिता
।
स्वयम्भूपूजकप्राज्ञा
स्वयम्भूहोतृमातृका
॥
131
॥
स्वयम्भूदातृरक्षित्री
स्वयम्भूरक्ततारिका
।
स्वयम्भूपूजकग्रस्ता
स्वयम्भूपूजकप्रिया
॥
132
॥
स्वयम्भूवन्दकाधारा
स्वयम्भूनिन्दकान्तका
।
स्वयम्भूप्रदसर्वस्वा
स्वयम्भूप्रदपुत्रिणी
॥
133
॥
स्वयम्भूप्रदसस्मेरा
स्वयम्भूतशरीरिणी
।
सर्वकालोद्भवप्रीता
सर्वकालोद्भवात्मिका
॥
134
॥
सर्वकालोद्भवोद्भावा
सर्वकालोद्भवोद्भवा
।
कुण्डपुष्पसदाप्रीता
कुण्डपुष्पसदारतिः
॥
135
॥
कुण्डगोलोद्भवप्राणा
कुण्डगोलोद्भवात्मिका
।
स्वयम्भूर्वा
शिवा
धात्री
पावनी
लोकपावनी
॥
136
॥
कीर्तिर्यशस्विनी
मेधा
विमेधा
शुक्रसुन्दरी
।
अश्विनी
कृत्तिका
पुष्या
तेजस्का
चन्द्रमण्डला
॥
137
॥
सूक्ष्माऽसूक्ष्मा
बलाका
च
वरदा
भयनाशिनी
।
वरदाऽभयदा
चैव
मुक्तिबन्धविनाशिनी
॥
138
॥
कामुका
कामदा
कान्ता
कामाख्या
कुलसुन्दरी
।
दुःखदा
सुखदा
मोक्षा
मोक्षदार्थप्रकाशिनी
॥
139
॥
दुष्टादुष्टमतिश्चैव
सर्वकार्यविनाशिनी
।
शुक्राधारा
शुक्ररूपा
शुक्रसिन्धुनिवासिनी
॥
140
॥
शुक्रालया
शुक्रभोगा
शुक्रपूजासदारतिः
।
शुक्रपूज्या
शुक्रहोमसन्तुष्टा
शुक्रवत्सला
॥
141
॥
शुक्रमूर्तिः
शुक्रदेहा
शुक्रपूजकपुत्रिणी
।
शुक्रस्था
शुक्रिणी
शुक्रसंस्पृहा
शुक्रसुन्दरी
॥
142
॥
शुक्रस्नाता
शुक्रकरी
शुक्रसेव्याऽतिशुक्रिणी
।
महाशुक्रा
शुक्रभवा
शुक्रवृष्टिविधायिनी
॥
143
॥
शुक्राभिधेया
शुक्रार्हा
शुक्रवन्दकवन्दिता
।
शुक्रानन्दकरी
शुक्रसदानन्दाभिधायिका
॥
144
॥
शुक्रोत्सवा
सदाशुक्रपूर्णा
शुक्रमनोरमा
।
शुक्रपूजकसर्वस्वा
शुक्रनिन्दकनाशिनी
॥
145
॥
शुक्रात्मिका
शुक्रसंवत्
शुक्राकर्षणकारिणी
।
शारदा
साधकप्राणा
साधकासक्तमानसा
॥
146
॥
साधकोत्तमसर्वस्वा
साधकाभक्तरक्तपा
।
साधकानन्दसन्तोषा
साधकानन्दकारिणी
॥
147
॥
आत्मविद्या
ब्रह्मविद्या
परब्रह्मस्वरूपिणी
।
त्रिकूटस्था
पञ्चकूटा
सर्वकूटशरीरिणी
॥
148
॥
सर्ववर्णमयी
वर्णजपमालाविधायिनी
।
इति
श्रीकालिकानामसहस्रं
शिवभाषितम्
॥
149
॥
गुह्याद्गुह्यतरं
साक्षान्महापातकनाशनम्
।
पूजाकाले
निशीथे
च
सन्ध्ययोरुभयोरपि
॥
150
॥
लभते
गाणपत्यं
स
यः
पठेत्
साधकोत्तमः
।
यः
पठेत्
पाठयेद्वापि
शृणोति
श्रावयेदपि
॥
151
॥
सर्वपापविनिर्मुक्तः
स
याति
कालिकापुरम्
।
श्रद्धयाऽश्रद्धया
वापि
यः
कश्चिन्मानवः
स्मरेत्
॥
152
॥
दुर्गं
दुर्गशतं
तीर्त्वा
स
याति
परमाङ्गतिम्
।
वन्ध्या
वा
काकवन्ध्या
वा
मृतवत्सा
च
याङ्गना
॥
153
॥
श्रुत्वा
स्तोत्रमिदं
पुत्रान्
लभते
चिरजीविनः
।
यं
यं
कामयते
कामं
पठन्
स्तोत्रमनुत्तमम्
।
देवीपादप्रसादेन
तत्तदाप्नोति
निश्चितम्
॥
154
॥
इति
श्री
कालिकाकुलसर्वस्वे
हरपरशुरामसंवादे
श्री
कालिका
सहस्रनाम
स्तोत्रम्
।
Recite with devotion and pure heart
Regular practice brings spiritual benefits