हैंदवम्
हैं
హై
हैंदवम्
ஹி
હિં
English
हिंदी
മലയാളം
తెలుగు
தமிழ்
ಕನ್ನಡ
📍
𖦏
Auto Detect Location
Font Size:
a
a
a
दक्षिण कालि त्रिशती नामावली
॥
ह्रीं
क्रीं
हूं
ह्रीम्
॥
क्रीङ्कार्यै
नमः
।
क्रीम्पदाकारायै
नमः
।
क्रीङ्कारमन्त्रपूरणायै
नमः
।
क्रींमत्यै
नमः
।
क्रीम्पदावासायै
नमः
।
क्रीम्बीजजपतोषिण्यै
नमः
।
क्रीङ्कारसत्त्वायै
नमः
।
क्रीमात्मने
नमः
।
क्रीम्भूषायै
नमः
।
क्रींमनुस्वराजे
नमः
।
क्रीङ्कारगर्भायै
नमः
।
क्रींसञ्ज्ञायै
नमः
।
क्रीङ्कारध्येयरूपिण्यै
नमः
।
क्रीङ्कारात्तमनुप्रौढायै
नमः
।
क्रीङ्कारचक्रपूजितायै
नमः
।
क्रीङ्कारललनानन्दायै
नमः
।
क्रीङ्कारालापतोषिण्यै
नमः
।
क्रीङ्कलानादबिन्दुस्थायै
नमः
।
क्रीङ्कारचक्रवासिन्यै
नमः
।
क्रीङ्कारलक्ष्म्यै
नमः
।
20
क्रींशक्त्यै
नमः
।
क्रीङ्कारमनुमण्डितायै
नमः
।
क्रीङ्कारानन्दसर्वस्वायै
नमः
।
क्रीञ्ज्ञेयलक्ष्यमात्रगायै
नमः
।
क्रीङ्कारबिन्दुपीठस्थायै
नमः
।
क्रीङ्कारनादमोदिन्यै
नमः
।
क्रीन्तत्त्वज्ञानविज्ञेयायै
नमः
।
क्रीङ्कारयज्ञपालिन्यै
नमः
।
क्रीङ्कारलक्षणानन्दायै
नमः
।
क्रीङ्कारलयलालसायै
नमः
।
क्रींमेरुमध्यगास्थानायै
नमः
।
क्रीङ्काराद्यवरार्णभुवे
नमः
।
क्रीङ्कारवरिवस्याढ्यायै
नमः
।
क्रीङ्कारगानलोलुपायै
नमः
।
क्रीङ्कारनादसम्पन्नायै
नमः
।
क्रीङ्कारैकाक्षरात्मिकायै
नमः
।
क्रीमादिगुणवर्गात्तत्रितयाद्याहुतिप्रियायै
नमः
।
क्रीङ्क्लिन्नरमणानन्दमहाकालवराङ्गनायै
नमः
।
क्रींलास्यताण्डवानन्दायै
नमः
।
क्रीङ्कारभोगमोक्षदायै
नमः
।
40
क्रीङ्कारयोगिनीसाध्योपास्तिसर्वस्वगोचरायै
नमः
।
क्रीङ्कारमातृकासिद्धविद्याराज्ञीकलेवरायै
नमः
।
हूङ्कारमन्त्रायै
नमः
।
हूङ्गर्भायै
नमः
।
हूङ्कारनादगोचरायै
नमः
।
हूङ्काररूपायै
नमः
।
हूङ्कारज्ञेयायै
नमः
।
हूङ्कारमातृकायै
नमः
।
हूम्फट्कारमहानादमय्यै
नमः
।
हूङ्कारशालिन्यै
नमः
।
हूङ्कारजपसम्मोदायै
नमः
।
हूङ्कारजापवाक्प्रदायै
नमः
।
हूङ्कारहोमसम्प्रीतायै
नमः
।
हूङ्कारतन्त्रवाहिन्यै
नमः
।
हूङ्कारतत्त्वविज्ञानज्ञातृज्ञेयस्वरूपिण्यै
नमः
।
हूङ्कारजापजाड्यघ्न्यै
नमः
।
हूङ्कारजीवनाडिकायै
नमः
।
हूङ्कारमूलमन्त्रात्मने
नमः
।
हूङ्कारपारमार्थिकायै
नमः
।
हूङ्कारघोषणाह्लादायै
नमः
।
60
हूङ्कारैकपरायणायै
नमः
।
हूङ्कारबीजसङ्क्लुप्तायै
नमः
।
हूङ्कारवरदायिन्यै
नमः
।
हूङ्कारद्योतनज्योतिषे
नमः
।
हूङ्कारनीलभारत्यै
नमः
।
हूङ्कारालम्बनाधारायै
नमः
।
हूङ्कारयोगसौख्यदायै
नमः
।
हूङ्कारझङ्कृताकारायै
नमः
।
हूङ्काराञ्चितवाग्झर्यै
नमः
।
हूङ्कारचण्डीपारीणानन्दझिल्लीस्वरूपिण्यै
नमः
।
ह्रीङ्कारमन्त्रगायत्र्यै
नमः
।
ह्रीङ्कारसार्वकामिक्यै
नमः
।
ह्रीङ्कारसामसर्वस्वायै
नमः
।
ह्रीङ्कारराजयोगिन्यै
नमः
।
ह्रीङ्कारज्योतिरुद्दामायै
नमः
।
ह्रीङ्कारमूलकारणायै
नमः
।
ह्रीङ्कारोत्तसपर्याढ्यायै
नमः
।
ह्रीङ्कारतन्त्रमातृकायै
नमः
।
ह्रीञ्जहल्लक्षणाभृङ्ग्यै
नमः
।
ह्रीङ्कारहंसनादिन्यै
नमः
।
80
ह्रीङ्कारतारिणीविद्यायै
नमः
।
ह्रीङ्कारभुवनेश्वर्यै
नमः
।
ह्रीङ्कारकालिकामूर्त्यै
नमः
।
ह्रीङ्कारनादसुन्दर्यै
नमः
।
ह्रीङ्कारज्ञानविज्ञानायै
नमः
।
ह्रीङ्कारकालमोहिन्यै
नमः
।
ह्रीङ्कारकामपीठस्थायै
नमः
।
ह्रीङ्कारसंस्कृताखिलायै
नमः
।
ह्रीङ्कारविश्वसम्भारायै
नमः
।
ह्रीङ्कारामृतसागरायै
नमः
।
ह्रीङ्कारमन्त्रसन्नद्धायै
नमः
।
ह्रीङ्काररसपूर्णगायै
नमः
।
ह्रीङ्कारमायाविर्भावायै
नमः
।
ह्रीङ्कारसरसीरुहायै
नमः
।
ह्रीङ्कारकलनाधारायै
नमः
।
ह्रीङ्कारवेदमातृकायै
नमः
।
ह्रीङ्कारज्ञानमन्दारायै
नमः
।
ह्रीङ्कारराजहंसिन्यै
नमः
।
दन्तुरायै
नमः
।
दक्षयज्ञघ्न्यै
नमः
।
100
दयायै
नमः
।
दक्षिणकालिकायै
नमः
।
दक्षिणाचारसुप्रीतायै
नमः
।
दंशभीरुबलिप्रियायै
नमः
।
दक्षिणाभिमुख्यै
नमः
।
दक्षायै
नमः
।
दत्रोत्सेकप्रदायिकायै
नमः
।
दर्पघ्न्यै
नमः
।
दर्शकुह्वष्टमीयाम्याराधनप्रियायै
नमः
।
दर्शनप्रतिभुवे
नमः
।
दम्भहन्त्र्यै
नमः
।
दक्षिणतल्लजायै
नमः
।
क्षित्यादितत्त्वसम्भाव्यायै
नमः
।
क्षित्युत्तमगतिप्रदायै
नमः
।
क्षिप्रप्रसादितायै
नमः
।
क्षिप्रायै
नमः
।
क्षितिवर्धनसंस्थितायै
नमः
।
क्षिप्रागङ्गादिनद्यम्भःप्रवाहवासतोषिण्यै
नमः
।
क्षितिजाहर्निशोपासाजपपारायणप्रियायै
नमः
।
क्षिद्रादिग्रहनक्षत्रज्योतीरूपप्रकाशिकायै
नमः
।
120
क्षितीशादिजनाराध्यायै
नमः
।
क्षिप्रताण्डवकारिण्यै
नमः
।
क्षिपाप्रणयनुन्नात्मप्रेरिताखिलयोगिन्यै
नमः
।
क्षितिप्रतिष्ठिताराध्यायै
नमः
।
क्षितिदेवादिपूजितायै
नमः
।
क्षितिवृत्तिसुसम्पन्नोपासकप्रियदेवतायै
नमः
।
णेकाररूपिण्यै
नमः
।
नेत्र्यै
नमः
।
नेत्रान्तानुग्रहप्रदायै
नमः
।
नेत्रसारस्वतोन्मेषायै
नमः
।
नेजिताखिलसेवकायै
नमः
।
णेकारज्योतिराभासायै
नमः
।
नेत्रत्रयविराजितायै
नमः
।
नेत्राञ्जनसवर्णाङ्ग्यै
नमः
।
नेत्रबिन्दूज्ज्वलत्प्रभायै
नमः
।
णेकारपर्वतेन्द्राग्रसमुद्यदमृतद्युतये
नमः
।
नेत्रातीतप्रकाशार्चिरशेषजनमोहिन्यै
नमः
।
णेकारमूलमन्त्रार्थरहस्यज्ञानदायिन्यै
नमः
।
णेकारजपसुप्रीतायै
नमः
।
नेत्रानन्दस्वरूपिण्यै
नमः
।
140
काल्यै
नमः
।
कालशवारूढायै
नमः
।
कारुण्यामृतसागरायै
नमः
।
कान्तारपीठसंस्थानायै
नमः
।
कालभैरवपूजितायै
नमः
।
काशीकाश्मीरकाम्पिल्यकाञ्चीकैलासवासिन्यै
नमः
।
कामाक्ष्यै
नमः
।
कालिकायै
नमः
।
कान्तायै
नमः
।
काष्ठाम्बरसुशोभनायै
नमः
।
कालहृन्नटनानन्दायै
नमः
।
कामाख्यादिस्वरूपिण्यै
नमः
।
काव्यामृतरसानन्दायै
नमः
।
कामकोटिविलासिन्यै
नमः
।
लिङ्गमूर्तिसुसम्पृक्तायै
नमः
।
लिष्टाङ्गचन्द्रशेखरायै
नमः
।
लिम्पाकनादसन्तुष्टायै
नमः
।
लिङ्गिताष्टकलेवरायै
नमः
।
लिकारमन्त्रसंसिद्धायै
नमः
।
लिगुलालनशालिन्यै
नमः
।
160
लिक्षामात्राणुसूक्ष्माभायै
नमः
।
लिङ्गिलिङ्गप्रदीपिन्यै
नमः
।
लिखिताक्षरविन्यासायै
नमः
।
लिप्तकालाङ्गशोभनायै
नमः
।
लिङ्गोपहितसूक्ष्मार्थद्योतनज्ञानदायिन्यै
नमः
।
लिपिलेख्यप्रमाणादिलक्षितात्मस्वरूपिण्यै
नमः
।
लिकाराञ्चितमन्त्रप्रजापजीवनवर्धन्यै
नमः
।
लिङ्गकेष्टाशषड्वक्त्रप्रियसूनुमतल्लिकायै
नमः
।
केलिहासप्रियस्वान्तायै
नमः
।
केवलानन्दरूपिण्यै
नमः
।
केदारादिस्थलावासायै
नमः
।
केकिनर्तनलोलुपायै
नमः
।
केनाद्युपनिषत्सारायै
नमः
।
केतुमालादिवर्षपायै
नमः
।
केरलीयमतान्तस्थायै
नमः
।
केन्द्रबिन्दुत्वगोचरायै
नमः
।
केनात्याद्युज्ज्वलक्रीडारसभावज्ञलालसायै
नमः
।
केयूरनूपुरस्थानमणिबन्धाहिभूषितायै
नमः
।
केनारमालिकाभूषायै
नमः
।
केशवादिसमर्चितायै
नमः
।
180
केशकालाभ्रसौन्दर्यायै
नमः
।
केवलात्मविलासिन्यै
नमः
।
क्रीङ्कारभवनोद्युक्तायै
नमः
।
क्रीङ्कारैकपरायणायै
नमः
।
क्रींमुक्तिदानमन्दारायै
नमः
।
क्रीम्योगिनीविलासिन्यै
नमः
।
क्रीङ्कारसमयाचारतत्परप्राणधारिण्यै
नमः
।
क्रीञ्जपासक्तहृद्देशवासिन्यै
नमः
।
क्रींमनोहरायै
नमः
।
क्रीङ्कारमन्त्रालङ्कारायै
नमः
।
क्रीञ्चतुर्वर्गदायिकायै
नमः
।
क्रीङ्कौलमार्गसम्पन्नपुरश्चरणदोहदायै
नमः
।
क्रीङ्कारमन्त्रकूपारोत्पन्नपीयूषशेवध्यै
नमः
।
क्रीङ्काराद्यन्तहूंह्रीम्फट्स्वाहादिपरिवर्तन्यै
नमः
।
क्रीङ्कारामृतमाधुर्यरसज्ञारसनाग्रगायै
नमः
।
क्रीञ्जापदिव्यराजीवभ्रमर्यै
नमः
।
क्रींहुताशन्यै
नमः
।
क्रीङ्कारहोमकुण्डाग्निजिह्वाप्रत्यक्षरूपिण्यै
नमः
।
क्रींसम्पुटार्चनाधारणानन्दस्वान्तलासिन्यै
नमः
।
क्रीङ्कारसुमनोग्रन्थमालिकाप्रियधारिण्यै
नमः
।
200
क्रीङ्कारैकाक्षरीमन्त्रस्वाधीनप्राणवल्लभायै
नमः
।
क्रीङ्कारबीजसन्धानजपध्यानवशंवदायै
नमः
।
क्रीङ्कारोज्जृम्भनादान्तमन्त्रमात्रस्वतन्त्रगायै
नमः
।
क्रीङ्कारोन्नतविद्याङ्गशाक्ताचाराभिनन्दिन्यै
नमः
।
क्रींरन्ध्रगुह्यभावज्ञयोगिनीपरतन्त्रगायै
नमः
।
क्रीङ्कालीतारिणीसुन्दर्यादिविद्यास्वरूपिण्यै
नमः
।
क्रीङ्कारपञ्चभूतात्मप्रापञ्चिककुटुम्बिन्यै
नमः
।
क्रीङ्कारोर्व्यादिनिश्शेषतत्त्वकूटविजृम्भिण्यै
नमः
।
क्रीङ्कारमन्त्रशक्तिप्रविन्यस्तकृत्यपञ्चकायै
नमः
।
क्रींनिर्वर्तितविश्वाण्डकल्पप्रलयसाक्षिण्यै
नमः
।
क्रीङ्कारविद्युच्छक्तिप्रणुन्नसर्वजगत्क्रियायै
नमः
।
क्रीङ्कारमात्रसत्यादिसर्वलोकप्रचालिन्यै
नमः
।
क्रीङ्कारयोगसंलीनदहराकाशभासिन्यै
नमः
।
क्रींसंलग्नपरःकोटिसङ्ख्यामन्त्रजपप्रियायै
नमः
।
क्रीङ्कारबिन्दुषट्कोणनवकोणप्रतिष्ठितायै
नमः
।
क्रीङ्कारवृत्तपद्माष्टदलभूपुरनिष्ठितायै
नमः
।
क्रीङ्कारजापभक्तौघनित्यनिस्सीमहर्षदायै
नमः
।
क्रीन्त्रिपञ्चारचक्रस्थायै
नमः
।
क्रीङ्काल्युग्रादिसेवितायै
नमः
।
क्रीङ्कारजापहृद्व्योमचन्द्रिकायै
नमः
।
220
क्रीङ्करालिकायै
नमः
।
क्रीङ्कारब्रह्मरन्ध्रस्थब्रह्मज्ञेयस्वरूपिण्यै
नमः
।
क्रीम्ब्राह्मीनारसिंह्यादियोगिन्यावृतसुन्दर्यै
नमः
।
क्रीङ्कारसाधकौन्नत्यसामोदसिद्धिदायिन्यै
नमः
।
हूङ्कारतारायै
नमः
।
हूम्बीजजपतत्परमोक्षदायै
नमः
।
हून्त्रैविद्यधराम्नायान्वीक्षिक्यादिप्रदायिकायै
नमः
।
हूंविद्यासाधनामात्रचतुर्वर्गफलप्रदायै
नमः
।
हूञ्जापकत्रयस्त्रिंशत्कोटिदेवप्रपूजितायै
नमः
।
हूङ्कारबीजसम्पन्नायै
नमः
।
हूङ्कारोत्तारणाम्बिकायै
नमः
।
हूम्फट्कारसुधामूर्त्यै
नमः
।
हूम्फट्स्वाहास्वरूपिण्यै
नमः
।
हूङ्कारबीजगूढात्मविज्ञानवैभवाम्बिकायै
नमः
।
हूङ्कारश्रुतिशीर्षोक्तवेदान्ततत्त्वरूपिण्यै
नमः
।
हूङ्कारबिन्दुनादान्तचन्द्रार्धव्यापिकोन्मन्यै
नमः
।
हूङ्काराज्ञासहस्रारजाग्रत्स्वप्नसुषुप्तिगायै
नमः
।
हूम्प्राग्दक्षिणपाश्चात्योत्तरान्वयचतुष्कगायै
नमः
।
हूंवह्निसूर्यसोमाख्यकुण्डलिन्यात्तशक्तिकायै
नमः
।
हूङ्कारेच्छाक्रियाज्ञानशक्तित्रितयरूपिण्यै
नमः
।
240
हूंरसास्थिवसामांसासृङ्मज्जाशुक्रनिष्ठितायै
नमः
।
हूङ्कारवननीलांशुमेघनादानुलासिन्यै
नमः
।
हूङ्कारजपसानन्दपुरश्चरणकामदायै
नमः
।
हूङ्कारकलनाकालनैर्गुण्यनिष्क्रियात्मिकायै
नमः
।
हूङ्कारब्रह्मविद्यादिगुरूत्तमस्वरूपिण्यै
नमः
।
हूङ्कारस्फोटनानन्दशब्दब्रह्मस्वरूपिण्यै
नमः
।
हूङ्कारशाक्ततन्त्रादिपरमेष्ठिगुरूत्तमायै
नमः
।
हूङ्कारवेदमन्त्रोक्तमहाविद्याप्रबोधिन्यै
नमः
।
हूङ्कारस्थूलसूक्ष्मात्परब्रह्मस्वरूपिण्यै
नमः
।
हूङ्कारनिर्गुणब्रह्मचित्स्वरूपप्रकाशिकायै
नमः
।
हूंनिर्विकारकालात्मने
नमः
।
हूंशुद्धसत्त्वभूमिकायै
नमः
।
ह्रीमष्टभैरवाराध्यायै
नमः
।
ह्रीम्बीजादिमनुप्रियायै
नमः
।
ह्रीञ्जयाद्यङ्कपीठाख्यशक्त्याराध्यपदाम्बुजायै
नमः
।
ह्रींमहत्सिंहधूम्रादिभैरव्यर्चितपादुकायै
नमः
।
ह्रीञ्जपाकरवीरार्कपुष्पहोमार्चनप्रियायै
नमः
।
ह्रीङ्कारनैगमाकारायै
नमः
।
ह्रींसर्वदेवरूपिण्यै
नमः
।
ह्रीङ्कूर्चकालिकाकूटवाक्प्रसिद्धिप्रदायिकायै
नमः
।
260
ह्रीङ्कारबीजसम्पन्नविद्याराज्ञीसमाधिगायै
नमः
।
ह्रीङ्कारसच्चिदानन्दपरब्रह्मस्वरूपिण्यै
नमः
।
ह्रींहृल्लेखाख्यमन्त्रात्मने
नमः
।
ह्रीङ्कृष्णरक्तमानिन्यै
नमः
।
ह्रीम्पिण्डकर्तरीबीजमालादिमन्त्ररूपिण्यै
नमः
।
ह्रींनिर्वाणमय्यै
नमः
।
ह्रीङ्कारमहाकालमोहिन्यै
नमः
।
ह्रींमत्यै
नमः
।
ह्रीम्पराह्लादायै
नमः
।
ह्रीं
नमः
।
ह्रीङ्कारगुणावृतायै
नमः
।
ह्रीमादिसर्वमन्त्रस्थायै
नमः
।
ह्रीङ्कारज्वलितप्रभायै
नमः
।
ह्रीङ्कारोर्जितपूजेष्टायै
नमः
।
ह्रीङ्कारमातृकाम्बिकायै
नमः
।
ह्रीङ्कारध्यानयोगेष्टायै
नमः
।
ह्रीङ्कारमन्त्रवेगिन्यै
नमः
।
ह्रीमाद्यन्तविहीनस्वरूपिण्यै
नमः
।
ह्रीम्परात्परायै
नमः
।
ह्रीम्भद्रात्मजरोचिष्णुहस्ताब्जवरवर्णिन्यै
नमः
।
280
स्वाहाकारात्तहोमेष्टायै
नमः
।
स्वाहायै
नमः
।
स्वाधीनवल्लभायै
नमः
।
स्वान्तप्रसादनैर्मल्यवरदानाभिवर्षिण्यै
नमः
।
स्वाधिष्ठानादिपद्मस्थायै
नमः
।
स्वाराज्यसिद्धिदायिकायै
नमः
।
स्वाध्यायतत्परप्रीतायै
नमः
।
स्वामिन्यै
नमः
।
स्वादलोलुपायै
नमः
।
स्वाच्छन्द्यरमणक्लिन्नायै
नमः
।
स्वाद्वीफलरसप्रियायै
नमः
।
स्वास्थ्यलीनजपप्रीतायै
नमः
।
स्वातन्त्र्यचरितार्थकायै
नमः
।
स्वादिष्ठचषकास्वादप्रेमोल्लासितमानसायै
नमः
।
हायनाद्यनिबद्धात्मने
नमः
।
हाटकाद्रिप्रदायिन्यै
नमः
।
हारीकृतनृमुण्डाल्यै
नमः
।
हानिवृद्ध्यादिकारणायै
नमः
।
हानदानादिगाम्भीर्यदायिन्यै
नमः
।
हारिरूपिण्यै
नमः
।
300
हारहारादिमाधुर्यमदिरापानलोलुपायै
नमः
।
हाटकेशादितीर्थस्थकालकालप्रियङ्कर्यै
नमः
।
हाहाहूह्वादिगन्धर्वगानश्रवणलालसायै
नमः
।
हारिकण्ठस्वरस्थाय्यालापनादिरसात्मिकायै
नमः
।
हार्दस्यन्दिकटाक्षप्रपालितोपासकावल्यै
नमः
।
हालाहलाशनप्रेमफलिन्यै
नमः
।
हावशालिन्यै
नमः
।
हासप्रकाशवदनाम्भोरुहानन्दिताखिलायै
नमः
।
308
इति
श्री
दक्षिणकालि
त्रिशती
नामावली
।
Recite with devotion and pure heart
Regular practice brings spiritual benefits