Haindavam Logo - Lord Ganesha

हैंदवम्

📍
Font Size:

हनुमत्सहस्रनामावलिः

ओं हनुमते नमः ओं श्रीप्रदाय नमः ओं वायुपुत्राय नमः ओं रुद्राय नमः ओं नयाय नमः ओं अजराय नमः ओं अमृत्यवे नमः ओं वीरवीराय नमः ओं ग्रामवासाय नमः ओं जनाश्रयाय नमः ओं धनदाय नमः ओं निर्गुणाकाराय नमः ओं वीराय नमः ओं निधिपतये नमः ओं मुनये नमः ओं पिङ्गाक्षाय नमः ओं वरदाय नमः ओं वाग्मिने नमः ओं सीताशोकविनाशनाय नमः ओं शिवाय नमः 20 ओं शर्वाय नमः ओं पराय नमः ओं अव्यक्ताय नमः ओं व्यक्ताव्यक्ताय नमः ओं धराधराय नमः ओं पिङ्गकेशाय नमः ओं पिङ्गरोमाय नमः ओं श्रुतिगम्याय नमः ओं सनातनाय नमः ओं अनादये नमः ओं भगवते नमः ओं दिव्याय नमः ओं विश्वहेतवे नमः ओं नराश्रयाय नमः ओं आरोग्यकर्त्रे नमः ओं विश्वेशाय नमः ओं विश्वनाथाय नमः ओं हरीश्वराय नमः ओं भर्गाय नमः ओं रामाय नमः 40 ओं रामभक्ताय नमः ओं कल्याणप्रकृतीश्वराय नमः ओं विश्वम्भराय नमः ओं विश्वमूर्तये नमः ओं विश्वाकाराय नमः ओं विश्वपाय नमः ओं विश्वात्मने नमः ओं विश्वसेव्याय नमः ओं विश्वाय नमः ओं विश्वधराय नमः ओं रवये नमः ओं विश्वचेष्टाय नमः ओं विश्वगम्याय नमः ओं विश्वध्येयाय नमः ओं कलाधराय नमः ओं प्लवङ्गमाय नमः ओं कपिश्रेष्ठाय नमः ओं ज्येष्ठाय नमः ओं वेद्याय नमः ओं वनेचराय नमः 60 ओं बालाय नमः ओं वृद्धाय नमः ओं यूने नमः ओं तत्त्वाय नमः ओं तत्त्वगम्याय नमः ओं सखिने नमः ओं अजाय नमः ओं अञ्जनासूनवे नमः ओं अव्यग्राय नमः ओं ग्रामस्यान्ताय नमः ओं धराधराय नमः ओं भूर्लोकाय नमः ओं भुवर्लोकाय नमः ओं स्वर्लोकाय नमः ओं महर्लोकाय नमः ओं जनोलोकाय नमः ओं तपोलोकाय नमः ओं अव्ययाय नमः ओं सत्याय नमः ओं ओङ्कारगम्याय नमः 80 ओं प्रणवाय नमः ओं व्यापकाय नमः ओं अमलाय नमः ओं शिवधर्मप्रतिष्ठात्रे नमः ओं रामेष्टाय नमः ओं फल्गुनप्रियाय नमः ओं गोष्पदीकृतवारीशाय नमः ओं पूर्णकामाय नमः ओं धरापतये नमः ओं रक्षोघ्नाय नमः ओं पुण्डरीकाक्षाय नमः ओं शरणागतवत्सलाय नमः ओं जानकीप्राणदात्रे नमः ओं रक्षःप्राणापहारकाय नमः ओं पूर्णाय नमः ओं सत्याय नमः ओं पीतवाससे नमः ओं दिवाकरसमप्रभाय नमः ओं द्रोणहर्त्रे नमः ओं शक्तिनेत्रे नमः 100 ओं शक्तिराक्षसमारकाय नमः ओं अक्षघ्नाय नमः ओं रामदूताय नमः ओं शाकिनीजीविताहराय नमः ओं बुभूकारहतारातये नमः ओं गर्वपर्वतमर्दनाय नमः ओं हेतवे नमः ओं अहेतवे नमः ओं प्रांशवे नमः ओं विश्वकर्त्रे नमः ओं जगद्गुरवे नमः ओं जगन्नाथाय नमः ओं जगन्नेत्रे नमः ओं जगदीशाय नमः ओं जनेश्वराय नमः ओं जगत्श्रिताय नमः ओं हरये नमः ओं श्रीशाय नमः ओं गरुडस्मयभञ्जकाय नमः ओं पार्थध्वजाय नमः 120 ओं वायुपुत्राय नमः ओं सितपुच्छाय नमः ओं अमितप्रभाय नमः ओं ब्रह्मपुच्छाय नमः ओं परब्रह्मपुच्छाय नमः ओं रामेष्टकारकाय नमः ओं सुग्रीवादियुताय नमः ओं ज्ञानिने नमः ओं वानराय नमः ओं वानरेश्वराय नमः ओं कल्पस्थायिने नमः ओं चिरञ्जीविने नमः ओं प्रसन्नाय नमः ओं सदाशिवाय नमः ओं सन्मतये नमः ओं सद्गतये नमः ओं भुक्तिमुक्तिदाय नमः ओं कीर्तिदायकाय नमः ओं कीर्तये नमः ओं कीर्तिप्रदाय नमः 140 ओं समुद्राय नमः ओं श्रीप्रदाय नमः ओं शिवाय नमः ओं उदधिक्रमणाय नमः ओं देवाय नमः ओं संसारभयनाशनाय नमः ओं वालिबन्धनकृते नमः ओं विश्वजेत्रे नमः ओं विश्वप्रतिष्ठिताय नमः ओं लङ्कारये नमः ओं कालपुरुषाय नमः ओं लङ्केशगृहभञ्जनाय नमः ओं भूतावासाय नमः ओं वासुदेवाय नमः ओं वसवे नमः ओं त्रिभुवनेश्वराय नमः ओं श्रीरामरूपाय नमः ओं कृष्णरूपाय नमः ओं लङ्काप्रासादभञ्जनाय नमः ओं कृष्णाय नमः 160 ओं कृष्णस्तुताय नमः ओं शान्ताय नमः ओं शान्तिदाय नमः ओं विश्वभावनाय नमः ओं विश्वभोक्त्रे नमः ओं मारघ्नाय नमः ओं ब्रह्मचारिणे नमः ओं जितेन्द्रियाय नमः ओं ऊर्ध्वगाय नमः ओं लाङ्गुलिने नमः ओं मालिने नमः ओं लाङ्गूलाहतराक्षसाय नमः ओं समीरतनुजाय नमः ओं वीराय नमः ओं वीरमाराय नमः ओं जयप्रदाय नमः ओं जगन्मङ्गलदाय नमः ओं पुण्याय नमः ओं पुण्यश्रवणकीर्तनाय नमः ओं पुण्यकीर्तये नमः 180 ओं पुण्यगीतये नमः ओं जगत्पावनपावनाय नमः ओं देवेशाय नमः ओं अमितरोम्णे नमः ओं रामभक्तविधायकाय नमः ओं ध्यात्रे नमः ओं ध्येयाय नमः ओं जगत्साक्षिणे नमः ओं चेतसे नमः ओं चैतन्यविग्रहाय नमः ओं ज्ञानदाय नमः ओं प्राणदाय नमः ओं प्राणाय नमः ओं जगत्प्राणाय नमः ओं समीरणाय नमः ओं विभीषणप्रियाय नमः ओं शूराय नमः ओं पिप्पलाश्रयसिद्धिदाय नमः ओं सिद्धाय नमः ओं सिद्धाश्रयाय नमः 200 ओं कालाय नमः ओं कालभक्षकपूजिताय नमः ओं लङ्केशनिधनस्थायिने नमः ओं लङ्कादाहकाय नमः ओं ईश्वराय नमः ओं चन्द्रसूर्याग्निनेत्राय नमः ओं कालाग्नये नमः ओं प्रलयान्तकाय नमः ओं कपिलाय नमः ओं कपिशाय नमः ओं पुण्यरातये नमः ओं द्वादशराशिगाय नमः ओं सर्वाश्रयाय नमः ओं अप्रमेयात्मने नमः ओं रेवत्यादिनिवारकाय नमः ओं लक्ष्मणप्राणदात्रे नमः ओं सीताजीवनहेतुकाय नमः ओं रामध्यायिने नमः ओं हृषीकेशाय नमः ओं विष्णुभक्ताय नमः 220 ओं जटिने नमः ओं बलिने नमः ओं देवारिदर्पघ्ने नमः ओं होत्रे नमः ओं धात्रे नमः ओं कर्त्रे नमः ओं जगत्प्रभवे नमः ओं नगरग्रामपालाय नमः ओं शुद्धाय नमः ओं बुद्धाय नमः ओं निरन्तराय नमः ओं निरञ्जनाय नमः ओं निर्विकल्पाय नमः ओं गुणातीताय नमः ओं भयङ्कराय नमः ओं हनुमते नमः ओं दुराराध्याय नमः ओं तपःसाध्याय नमः ओं महेश्वराय नमः ओं जानकीघनशोकोत्थतापहर्त्रे नमः 240 ओं पराशराय नमः ओं वाङ्मयाय नमः ओं सदसद्रूपाय नमः ओं कारणाय नमः ओं प्रकृतेः पराय नमः ओं भाग्यदाय नमः ओं निर्मलाय नमः ओं नेत्रे नमः ओं पुच्छलङ्काविदाहकाय नमः ओं पुच्छबद्धाय नमः ओं यातुधानाय नमः ओं यातुधानरिपुप्रियाय नमः ओं छायापहारिणे नमः ओं भूतेशाय नमः ओं लोकेशाय नमः ओं सद्गतिप्रदाय नमः ओं प्लवङ्गमेश्वराय नमः ओं क्रोधाय नमः ओं क्रोधसंरक्तलोचनाय नमः ओं क्रोधहर्त्रे नमः 260 ओं तापहर्त्रे नमः ओं भक्ताभयवरप्रदाय नमः ओं भक्तानुकम्पिने नमः ओं विश्वेशाय नमः ओं पुरुहूताय नमः ओं पुरन्दराय नमः ओं अग्नये नमः ओं विभावसवे नमः ओं भास्वते नमः ओं यमाय नमः ओं निरृतये नमः ओं वरुणाय नमः ओं वायुगतिमते नमः ओं वायवे नमः ओं कुबेराय नमः ओं ईश्वराय नमः ओं रवये नमः ओं चन्द्राय नमः ओं कुजाय नमः ओं सौम्याय नमः 280 ओं गुरवे नमः ओं काव्याय नमः ओं शनैश्चराय नमः ओं राहवे नमः ओं केतवे नमः ओं मरुते नमः ओं दात्रे नमः ओं धात्रे नमः ओं हर्त्रे नमः ओं समीरजाय नमः ओं मशकीकृतदेवारये नमः ओं दैत्यारये नमः ओं मधुसूदनाय नमः ओं कामाय नमः ओं कपये नमः ओं कामपालाय नमः ओं कपिलाय नमः ओं विश्वजीवनाय नमः ओं भागीरथीपदाम्भोजाय नमः ओं सेतुबन्धविशारदाय नमः 300 ओं स्वाहायै नमः ओं स्वधायै नमः ओं हविषे नमः ओं कव्याय नमः ओं हव्यवाहाय नमः ओं प्रकाशकाय नमः ओं स्वप्रकाशाय नमः ओं महावीराय नमः ओं मधुराय नमः ओं अमितविक्रमाय नमः ओं उड्डीनोड्डीनगतिमते नमः ओं सद्गतये नमः ओं पुरुषोत्तमाय नमः ओं जगदात्मने नमः ओं जगद्योनये नमः ओं जगदन्ताय नमः ओं अनन्तराय नमः ओं विपाप्मने नमः ओं निष्कलङ्काय नमः ओं महते नमः 320 ओं महदहङ्कृतये नमः ओं खाय नमः ओं वायवे नमः ओं पृथिव्यै नमः ओं अद्भ्यः नमः ओं वह्नये नमः ओं दिशे नमः ओं कालाय नमः ओं एकलाय नमः ओं क्षेत्रज्ञाय नमः ओं क्षेत्रपालाय नमः ओं पल्वलीकृतसागराय नमः ओं हिरण्मयाय नमः ओं पुराणाय नमः ओं खेचराय नमः ओं भूचराय नमः ओं मनवे नमः ओं हिरण्यगर्भाय नमः ओं सूत्रात्मने नमः ओं राजराजाय नमः 340 ओं विशां पतये नमः ओं वेदान्तवेद्याय नमः ओं उद्गीथाय नमः ओं वेदाङ्गाय नमः ओं वेदपारगाय नमः ओं प्रतिग्रामस्थिताय नमः ओं सद्यः स्फूर्तिदात्रे नमः ओं गुणाकराय नमः ओं नक्षत्रमालिने नमः ओं भूतात्मने नमः ओं सुरभये नमः ओं कल्पपादपाय नमः ओं चिन्तामणये नमः ओं गुणनिधये नमः ओं प्रजाद्वाराय नमः ओं अनुत्तमाय नमः ओं पुण्यश्लोकाय नमः ओं पुरारातये नमः ओं मतिमते नमः ओं शर्वरीपतये नमः 360 ओं किल्किलारावसन्त्रस्तभूतप्रेतपिशाचकाय नमः ओं ऋणत्रयहराय नमः ओं सूक्ष्माय नमः ओं स्थूलाय नमः ओं सर्वगतये नमः ओं पुंसे नमः ओं अपस्मारहराय नमः ओं स्मर्त्रे नमः ओं श्रुतये नमः ओं गाथाय नमः ओं स्मृतये नमः ओं मनवे नमः ओं स्वर्गद्वाराय नमः ओं प्रजाद्वाराय नमः ओं मोक्षद्वाराय नमः ओं यतीश्वराय नमः ओं नादरूपाय नमः ओं परस्मै ब्रह्मणे नमः ओं ब्रह्मणे नमः ओं ब्रह्मपुरातनाय नमः 380 ओं एकाय नमः ओं अनेकाय नमः ओं जनाय नमः ओं शुक्लाय नमः ओं स्वयञ्ज्योतिषे नमः ओं अनाकुलाय नमः ओं ज्योतिर्ज्योतिषे नमः ओं अनादये नमः ओं सात्त्विकाय नमः ओं राजसाय नमः ओं तमसे नमः ओं तमोहर्त्रे नमः ओं निरालम्बाय नमः ओं निराकाराय नमः ओं गुणाकराय नमः ओं गुणाश्रयाय नमः ओं गुणमयाय नमः ओं बृहत्कायाय नमः ओं बृहद्यशसे नमः ओं बृहद्धनुषे नमः 400 ओं बृहत्पादाय नमः ओं बृहन्मूर्ध्ने नमः ओं बृहत्स्वनाय नमः ओं बृहत्कर्णाय नमः ओं बृहन्नासाय नमः ओं बृहद्बाहवे नमः ओं बृहत्तनवे नमः ओं बृहद्गलाय नमः ओं बृहत्कायाय नमः ओं बृहत्पुच्छाय नमः ओं बृहत्कराय नमः ओं बृहद्गतये नमः ओं बृहत्सेवाय नमः ओं बृहल्लोकफलप्रदाय नमः ओं बृहद्भक्तये नमः ओं बृहद्वाञ्छाफलदाय नमः ओं बृहदीश्वराय नमः ओं बृहल्लोकनुताय नमः ओं द्रष्ट्रे नमः ओं विद्यादात्रे नमः 420 ओं जगद्गुरवे नमः ओं देवाचार्याय नमः ओं सत्यवादिने नमः ओं ब्रह्मवादिने नमः ओं कलाधराय नमः ओं सप्तपातालगामिने नमः ओं मलयाचलसंश्रयाय नमः ओं उत्तराशास्थिताय नमः ओं श्रीशाय नमः ओं दिव्यौषधिवशाय नमः ओं खगाय नमः ओं शाखामृगाय नमः ओं कपीन्द्राय नमः ओं पुराणाय नमः ओं प्राणचञ्चुराय नमः ओं चतुराय नमः ओं ब्राह्मणाय नमः ओं योगिने नमः ओं योगिगम्याय नमः ओं पराय नमः 440 ओं अवराय नमः ओं अनादिनिधनाय नमः ओं व्यासाय नमः ओं वैकुण्ठाय नमः ओं पृथिवीपतये नमः ओं अपराजिताय नमः ओं जितारातये नमः ओं सदानन्ददाय नमः ओं ईशित्रे नमः ओं गोपालाय नमः ओं गोपतये नमः ओं योद्धाय नमः ओं कलये नमः ओं स्फालाय नमः ओं परात्पराय नमः ओं मनोवेगिने नमः ओं सदायोगिने नमः ओं संसारभयनाशनाय नमः ओं तत्त्वदात्रे नमः ओं तत्त्वज्ञाय नमः 460 ओं तत्त्वाय नमः ओं तत्त्वप्रकाशकाय नमः ओं शुद्धाय नमः ओं बुद्धाय नमः ओं नित्ययुक्ताय नमः ओं भक्ताकाराय नमः ओं जगद्रथाय नमः ओं प्रलयाय नमः ओं अमितमायाय नमः ओं मायातीताय नमः ओं विमत्सराय नमः ओं मायानिर्जितरक्षसे नमः ओं मायानिर्मितविष्टपाय नमः ओं मायाश्रयाय नमः ओं निर्लेपाय नमः ओं मायानिर्वर्तकाय नमः ओं सुखिने नमः ओं सुखाय नमः ओं सुखप्रदाय नमः ओं नागाय नमः 480 ओं महेशकृतसंस्तवाय नमः ओं महेश्वराय नमः ओं सत्यसन्धाय नमः ओं शरभाय नमः ओं कलिपावनाय नमः ओं रसाय नमः ओं रसज्ञाय नमः ओं सते नमः ओं मानाय नमः ओं रूपाय नमः ओं चक्षुषे नमः ओं श्रुतये नमः ओं रवाय नमः ओं घ्राणाय नमः ओं गन्धाय नमः ओं स्पर्शनाय नमः ओं स्पर्शाय नमः ओं हिङ्कारमानगाय नमः ओं नेतिनेतीतिगम्याय नमः ओं वैकुण्ठभजनप्रियाय नमः 500 ओं गिरिशाय नमः ओं गिरिजाकान्ताय नमः ओं दुर्वाससे नमः ओं कवये नमः ओं अङ्गिरसे नमः ओं भृगवे नमः ओं वसिष्ठाय नमः ओं च्यवनाय नमः ओं नारदाय नमः ओं तुम्बुरवे नमः ओं हराय नमः ओं विश्वक्षेत्राय नमः ओं विश्वबीजाय नमः ओं विश्वनेत्राय नमः ओं विश्वपाय नमः ओं याजकाय नमः ओं यजमानाय नमः ओं पावकाय नमः ओं पितृभ्यः नमः ओं श्रद्धये नमः 520 ओं बुद्धये नमः ओं क्षमाय नमः ओं तन्द्राय नमः ओं मन्त्राय नमः ओं मन्त्रयित्रे नमः ओं सुराय नमः ओं राजेन्द्राय नमः ओं भूपतये नमः ओं रूढाय नमः ओं मालिने नमः ओं संसारसारथये नमः ओं नित्याय नमः ओं सम्पूर्णकामाय नमः ओं भक्तकामदुहे नमः ओं उत्तमाय नमः ओं गणपाय नमः ओं केशवाय नमः ओं भ्रात्रे नमः ओं पित्रे नमः ओं मात्रे नमः 540 ओं मारुतये नमः ओं सहस्रमूर्ध्ने नमः ओं सहस्रास्याय नमः ओं सहस्राक्षाय नमः ओं सहस्रपदे नमः ओं कामजिते नमः ओं कामदहनाय नमः ओं कामाय नमः ओं काम्यफलप्रदाय नमः ओं मुद्रोपहारिणे नमः ओं रक्षोघ्नाय नमः ओं क्षितिभारहराय नमः ओं बलाय नमः ओं नखदंष्ट्रायुधाय नमः ओं विष्णुभक्ताय नमः ओं भक्ताभयप्रदाय नमः ओं दर्पघ्ने नमः ओं दर्पदाय नमः ओं दंष्ट्राशतमूर्तये नमः ओं अमूर्तिमते नमः 560 ओं महानिधये नमः ओं महाभागाय नमः ओं महाभर्गाय नमः ओं महर्धिदाय नमः ओं महाकाराय नमः ओं महायोगिने नमः ओं महातेजाय नमः ओं महाद्युतये नमः ओं महाकर्मणे नमः ओं महानादाय नमः ओं महामन्त्राय नमः ओं महामतये नमः ओं महाशमाय नमः ओं महोदाराय नमः ओं महादेवात्मकाय नमः ओं विभवे नमः ओं रुद्रकर्मणे नमः ओं क्रूरकर्मणे नमः ओं रत्ननाभाय नमः ओं कृतागमाय नमः 580 ओं अम्भोधिलङ्घनाय नमः ओं सिद्धाय नमः ओं सत्यधर्मणे नमः ओं प्रमोदनाय नमः ओं जितामित्राय नमः ओं जयाय नमः ओं सोमाय नमः ओं विजयाय नमः ओं वायुवाहनाय नमः ओं जीवाय नमः ओं धात्रे नमः ओं सहस्रांशवे नमः ओं मुकुन्दाय नमः ओं भूरिदक्षिणाय नमः ओं सिद्धार्थाय नमः ओं सिद्धिदाय नमः ओं सिद्धाय नमः ओं सङ्कल्पाय नमः ओं सिद्धिहेतुकाय नमः ओं सप्तपातालचरणाय नमः 600 ओं सप्तर्षिगणवन्दिताय नमः ओं सप्ताब्धिलङ्घनाय नमः ओं वीराय नमः ओं सप्तद्वीपोरुमण्डलाय नमः ओं सप्ताङ्गराज्यसुखदाय नमः ओं सप्तमातृनिषेविताय नमः ओं सप्तलोकैकमकुटाय नमः ओं सप्तहोत्राय नमः ओं स्वराश्रयाय नमः ओं सप्तसामोपगीताय नमः ओं सप्तपातालसंश्रयाय नमः ओं सप्तच्छन्दोनिधये नमः ओं सप्तच्छन्दाय नमः ओं सप्तजनाश्रयाय नमः ओं मेधादाय नमः ओं कीर्तिदाय नमः ओं शोकहारिणे नमः ओं दौर्भाग्यनाशनाय नमः ओं सर्ववश्यकराय नमः ओं गर्भदोषघ्ने नमः 620 ओं पुत्रपौत्रदाय नमः ओं प्रतिवादिमुखस्तम्भाय नमः ओं रुष्टचित्तप्रसादनाय नमः ओं पराभिचारशमनाय नमः ओं दुःखघ्ने नमः ओं बन्धमोक्षदाय नमः ओं नवद्वारपुराधाराय नमः ओं नवद्वारनिकेतनाय नमः ओं नरनारायणस्तुत्याय नमः ओं नवनाथमहेश्वराय नमः ओं मेखलिने नमः ओं कवचिने नमः ओं खड्गिने नमः ओं भ्राजिष्णवे नमः ओं जिष्णुसारथये नमः ओं बहुयोजनविस्तीर्णपुच्छाय नमः ओं पुच्छहतासुराय नमः ओं दुष्टहन्त्रे नमः ओं नियमित्रे नमः ओं पिशाचग्रहशातनाय नमः 640 ओं बालग्रहविनाशिने नमः ओं धर्मनेत्रे नमः ओं कृपाकराय नमः ओं उग्रकृत्याय नमः ओं उग्रवेगाय नमः ओं उग्रनेत्राय नमः ओं शतक्रतवे नमः ओं शतमन्युस्तुताय नमः ओं स्तुत्याय नमः ओं स्तुतये नमः ओं स्तोत्रे नमः ओं महाबलाय नमः ओं समग्रगुणशालिने नमः ओं व्यग्राय नमः ओं रक्षोविनाशनाय नमः ओं रक्षोग्निदावाय नमः ओं ब्रह्मेशाय नमः ओं श्रीधराय नमः ओं भक्तवत्सलाय नमः ओं मेघनादाय नमः 660 ओं मेघरूपाय नमः ओं मेघवृष्टिनिवारणाय नमः ओं मेघजीवनहेतवे नमः ओं मेघश्यामाय नमः ओं परात्मकाय नमः ओं समीरतनयाय नमः ओं धात्रे नमः ओं तत्त्वविद्याविशारदाय नमः ओं अमोघाय नमः ओं अमोघवृष्टये नमः ओं अभीष्टदाय नमः ओं अनिष्टनाशनाय नमः ओं अर्थाय नमः ओं अनर्थापहारिणे नमः ओं समर्थाय नमः ओं रामसेवकाय नमः ओं अर्थिने नमः ओं धन्याय नमः ओं असुरारातये नमः ओं पुण्डरीकाक्षाय नमः 680 ओं आत्मभुवे नमः ओं सङ्कर्षणाय नमः ओं विशुद्धात्मने नमः ओं विद्याराशये नमः ओं सुरेश्वराय नमः ओं अचलोद्धारकाय नमः ओं नित्याय नमः ओं सेतुकृते नमः ओं रामसारथये नमः ओं आनन्दाय नमः ओं परमानन्दाय नमः ओं मत्स्याय नमः ओं कूर्माय नमः ओं निधये नमः ओं शयाय नमः ओं वराहाय नमः ओं नारसिंहाय नमः ओं वामनाय नमः ओं जमदग्निजाय नमः ओं रामाय नमः 700 ओं कृष्णाय नमः ओं शिवाय नमः ओं बुद्धाय नमः ओं कल्किने नमः ओं रामाश्रयाय नमः ओं हरये नमः ओं नन्दिने नमः ओं भृङ्गिणे नमः ओं चण्डिने नमः ओं गणेशाय नमः ओं गणसेविताय नमः ओं कर्माध्यक्षाय नमः ओं सुरारामाय नमः ओं विश्रामाय नमः ओं जगतीपतये नमः ओं जगन्नाथाय नमः ओं कपीशाय नमः ओं सर्वावासाय नमः ओं सदाश्रयाय नमः ओं सुग्रीवादिस्तुताय नमः 720 ओं दान्ताय नमः ओं सर्वकर्मणे नमः ओं प्लवङ्गमाय नमः ओं नखदारितरक्षसे नमः ओं नखयुद्धविशारदाय नमः ओं कुशलाय नमः ओं सुधनाय नमः ओं शेषाय नमः ओं वासुकये नमः ओं तक्षकाय नमः ओं स्वर्णवर्णाय नमः ओं बलाढ्याय नमः ओं पुरुजेत्रे नमः ओं अघनाशनाय नमः ओं कैवल्यदीपाय नमः ओं कैवल्याय नमः ओं गरुडाय नमः ओं पन्नगाय नमः ओं गुरवे नमः ओं क्लीक्लीरावहतारातिगर्वाय नमः 740 ओं पर्वतभेदनाय नमः ओं वज्राङ्गाय नमः ओं वज्रवक्त्राय नमः ओं भक्तवज्रनिवारकाय नमः ओं नखायुधाय नमः ओं मणिग्रीवाय नमः ओं ज्वालामालिने नमः ओं भास्कराय नमः ओं प्रौढप्रतापाय नमः ओं तपनाय नमः ओं भक्ततापनिवारकाय नमः ओं शरणाय नमः ओं जीवनाय नमः ओं भोक्त्रे नमः ओं नानाचेष्टाय नमः ओं चञ्चलाय नमः ओं स्वस्थाय नमः ओं अस्वास्थ्यघ्ने नमः ओं दुःखशातनाय नमः ओं पवनात्मजाय नमः 760 ओं पवनाय नमः ओं पावनाय नमः ओं कान्ताय नमः ओं भक्ताङ्गाय नमः ओं सहनाय नमः ओं बलाय नमः ओं मेघनादरिपवे नमः ओं मेघनादसंहृतराक्षसाय नमः ओं क्षराय नमः ओं अक्षराय नमः ओं विनीतात्मने नमः ओं वानरेशाय नमः ओं सताङ्गतये नमः ओं श्रीकण्ठाय नमः ओं शितिकण्ठाय नमः ओं सहायाय नमः ओं सहनायकाय नमः ओं अस्थूलाय नमः ओं अनणवे नमः ओं भर्गाय नमः 780 ओं देवसंसृतिनाशनाय नमः ओं अध्यात्मविद्यासाराय नमः ओं अध्यात्मकुशलाय नमः ओं सुधिये नमः ओं अकल्मषाय नमः ओं सत्यहेतवे नमः ओं सत्यदाय नमः ओं सत्यगोचराय नमः ओं सत्यगर्भाय नमः ओं सत्यरूपाय नमः ओं सत्याय नमः ओं सत्यपराक्रमाय नमः ओं अञ्जनाप्राणलिङ्गाय नमः ओं वायुवंशोद्भवाय नमः ओं श्रुतये नमः ओं भद्ररूपाय नमः ओं रुद्ररूपाय नमः ओं सुरूपाय नमः ओं चित्ररूपधृशे नमः ओं मैनाकवन्दिताय नमः 800 ओं सूक्ष्मदर्शनाय नमः ओं विजयाय नमः ओं जयाय नमः ओं क्रान्तदिङ्मण्डलाय नमः ओं रुद्राय नमः ओं प्रकटीकृतविक्रमाय नमः ओं कम्बुकण्ठाय नमः ओं प्रसन्नात्मने नमः ओं ह्रस्वनासाय नमः ओं वृकोदराय नमः ओं लम्बोष्ठाय नमः ओं कुण्डलिने नमः ओं चित्रमालिने नमः ओं योगविदां वराय नमः ओं विपश्चिते नमः ओं कवये नमः ओं आनन्दविग्रहाय नमः ओं अनल्पनाशनाय नमः ओं फाल्गुनीसूनवे नमः ओं अव्यग्राय नमः 820 ओं योगात्मने नमः ओं योगतत्पराय नमः ओं योगविदे नमः ओं योगकर्त्रे नमः ओं योगयोनये नमः ओं दिगम्बराय नमः ओं अकारादिक्षकारान्तवर्णनिर्मितविग्रहाय नमः ओं उलूखलमुखाय नमः ओं सिद्धसंस्तुताय नमः ओं परमेश्वराय नमः ओं श्लिष्टजङ्घाय नमः ओं श्लिष्टजानवे नमः ओं श्लिष्टपाणये नमः ओं शिखाधराय नमः ओं सुशर्मणे नमः ओं अमितधर्मणे नमः ओं नारायणपरायणाय नमः ओं जिष्णवे नमः ओं भविष्णवे नमः ओं रोचिष्णवे नमः 840 ओं ग्रसिष्णवे नमः ओं स्थाणवे नमः ओं हरये नमः ओं रुद्रानुकृते नमः ओं वृक्षकम्पनाय नमः ओं भूमिकम्पनाय नमः ओं गुणप्रवाहाय नमः ओं सूत्रात्मने नमः ओं वीतरागाय नमः ओं स्तुतिप्रियाय नमः ओं नागकन्याभयध्वंसिने नमः ओं कृतपूर्णाय नमः ओं कपालभृते नमः ओं अनुकूलाय नमः ओं अक्षयाय नमः ओं अपायाय नमः ओं अनपायाय नमः ओं वेदपारगाय नमः ओं अक्षराय नमः ओं पुरुषाय नमः 860 ओं लोकनाथाय नमः ओं त्र्यक्षाय नमः ओं प्रभवे नमः ओं दृढाय नमः ओं अष्टाङ्गयोगफलभुवे नमः ओं सत्यसन्धाय नमः ओं पुरुष्टुताय नमः ओं श्मशानस्थाननिलयाय नमः ओं प्रेतविद्रावणक्षमाय नमः ओं पञ्चाक्षरपराय नमः ओं पञ्चमातृकाय नमः ओं रञ्जनाय नमः ओं ध्वजाय नमः ओं योगिनीवृन्दवन्द्यश्रिये नमः ओं शत्रुघ्नाय नमः ओं अनन्तविक्रमाय नमः ओं ब्रह्मचारिणे नमः ओं इन्द्रियवपुषे नमः ओं धृतदण्डाय नमः ओं दशात्मकाय नमः 880 ओं अप्रपञ्चाय नमः ओं सदाचाराय नमः ओं शूरसेनाय नमः ओं विदारकाय नमः ओं बुद्धाय नमः ओं प्रमोदाय नमः ओं आनन्दाय नमः ओं सप्तजिह्वपतये नमः ओं धराय नमः ओं नवद्वारपुराधाराय नमः ओं प्रत्यग्राय नमः ओं सामगायनाय नमः ओं षट्चक्रधाम्ने नमः ओं स्वर्लोकभयहृते नमः ओं मानदाय नमः ओं मदाय नमः ओं सर्ववश्यकराय नमः ओं शक्तये नमः ओं अनन्ताय नमः ओं अनन्तमङ्गलाय नमः 900 ओं अष्टमूर्तिधराय नमः ओं नेत्रे नमः ओं विरूपाय नमः ओं स्वरसुन्दराय नमः ओं धूमकेतवे नमः ओं महाकेतवे नमः ओं सत्यकेतवे नमः ओं महारथाय नमः ओं नन्दिने नमः ओं प्रियाय नमः ओं स्वतन्त्राय नमः ओं मेखलिने नमः ओं डमरुप्रियाय नमः ओं लोहिताङ्गाय नमः ओं समिधे नमः ओं वह्नये नमः ओं षडृतवे नमः ओं शर्वाय नमः ओं ईश्वराय नमः ओं फलभुजे नमः 920 ओं फलहस्ताय नमः ओं सर्वकर्मफलप्रदाय नमः ओं धर्माध्यक्षाय नमः ओं धर्मफलाय नमः ओं धर्माय नमः ओं धर्मप्रदाय नमः ओं अर्थदाय नमः ओं पञ्चविंशतितत्त्वज्ञाय नमः ओं तारकाय नमः ओं ब्रह्मतत्पराय नमः ओं त्रिमार्गवसतये नमः ओं भीमाय नमः ओं सर्वदुष्टनिबर्हणाय नमः ओं ऊर्जःस्वामिने नमः ओं जलस्वामिने नमः ओं शूलिने नमः ओं मालिने नमः ओं निशाकराय नमः ओं रक्ताम्बरधराय नमः ओं रक्ताय नमः 940 ओं रक्तमाल्यविभूषणाय नमः ओं वनमालिने नमः ओं शुभाङ्गाय नमः ओं श्वेताय नमः ओं श्वेताम्बराय नमः ओं युवाय नमः ओं जयाय नमः ओं अजेयपरीवाराय नमः ओं सहस्रवदनाय नमः ओं कवये नमः ओं शाकिनीडाकिनीयक्षरक्षोभूतप्रभञ्जनाय नमः ओं सद्योजाताय नमः ओं कामगतये नमः ओं ज्ञानमूर्तये नमः ओं यशस्कराय नमः ओं शम्भुतेजसे नमः ओं सार्वभौमाय नमः ओं विष्णुभक्ताय नमः ओं प्लवङ्गमाय नमः ओं चतुर्णवतिमन्त्रज्ञाय नमः 960 ओं पौलस्त्यबलदर्पघ्ने नमः ओं सर्वलक्ष्मीप्रदाय नमः ओं श्रीमते नमः ओं अङ्गदप्रियवर्धनाय नमः ओं स्मृतिबीजाय नमः ओं सुरेशानाय नमः ओं संसारभयनाशनाय नमः ओं उत्तमाय नमः ओं श्रीपरीवाराय नमः ओं श्रीभुवे नमः ओं उग्राय नमः ओं कामदुहे नमः ओं सदागतये नमः ओं मातरिश्वने नमः ओं रामपादाब्जषट्पदाय नमः ओं नीलप्रियाय नमः ओं नीलवर्णाय नमः ओं नीलवर्णप्रियाय नमः ओं सुहृदे नमः ओं रामदूताय नमः 980 ओं लोकबन्धवे नमः ओं अन्तरात्मने नमः ओं मनोरमाय नमः ओं श्रीरामध्यानकृते नमः ओं वीराय नमः ओं सदा किम्पुरुषस्तुताय नमः ओं रामकार्यान्तरङ्गाय नमः ओं शुद्धये नमः ओं गत्यै नमः ओं अनामयाय नमः ओं पुण्यश्लोकाय नमः ओं परानन्दाय नमः ओं परेशप्रियसारथये नमः ओं लोकस्वामिने नमः ओं मुक्तिदात्रे नमः ओं सर्वकारणकारणाय नमः ओं महाबलाय नमः ओं महावीराय नमः ओं पारावारगतये नमः ओं गुरवे नमः 1000 ओं तारकाय नमः ओं भगवते नमः ओं त्रात्रे नमः ओं स्वस्तिदात्रे नमः ओं सुमङ्गलाय नमः ओं समस्तलोकसाक्षिणे नमः ओं समस्तसुरवन्दिताय नमः ओं सीतासमेत श्रीरामपादसेवा धुरन्धराय नमः 1008 इति श्री हनुमत्सहस्रनामावलिः

Recite with devotion and pure heart

Regular practice brings spiritual benefits