हैंदवम्
हैं
హై
हैंदवम्
ஹி
હિં
English
हिंदी
മലയാളം
తెలుగు
தமிழ்
ಕನ್ನಡ
📍
𖦏
Auto Detect Location
Font Size:
a
a
a
त्रैलोक्यमोहन गणपति कवचम्
नमस्तस्मै
गणेशाय
सर्वविघ्नविनाशिने
।
कार्यारम्भेषु
सर्वेषु
पूज्यते
यः
सुरैरपि
॥
1
॥
श्रीमन्महागणपतेः
कवचस्य
ऋषिः
शिवः
।
गणपतिर्देवता
च
गायत्री
छन्दः
एव
च
।
धर्मार्थकाममोक्षेषु
विनियोगः
प्रकीर्तितः
।
शक्तिः
स्वाहा
ग्लैं
बीजं
विनियोगस्य
कीर्तितः
॥
अथ
न्यासः
–
ओं
श्रीं
ह्रीं
क्लीं
अङ्गुष्ठाभ्यां
नमः
।
ग्लौं
गं
गणपतये
तर्जनीभ्यां
नमः
।
वरवरद
मध्यमाभ्यां
नमः
।
सर्वजनं
मे
अनामिकाभ्यां
नमः
।
वशमानय
कनिष्ठिकाभ्यां
नमः
।
स्वाहा
करतलकरपृष्ठाभ्यां
नमः
।
एवं
हृदयादि
न्यासः
॥
ध्यानम्
–
हस्तीन्द्राननमिन्दुचूडमरुणच्छायं
त्रिनेत्रं
रसा-
-दाश्लिष्टं
प्रियया
सपद्मकरया
स्वाङ्कस्थया
सन्ततम्
।
बीजापूरगदाधनुस्त्रिशिखयुक्
चक्राब्जपाशोत्पल
व्रीह्यग्रस्वविषाणरत्नकलशान्
हस्तैर्वहन्तं
भजे
।
कवचं
–
ओं
ब्रह्मबीजं
शिरः
पातु
केवलं
मुक्तिदायकम्
।
श्रीं
बीजमक्षिणी
पातु
सर्वसिद्धिसमर्पकम्
॥
1
॥
हृल्लेखा
श्रोत्रयोः
पातु
सर्वशत्रुविनाशिनी
।
कामबीजं
कपोलौ
च
सर्वदुष्टनिवारणम्
॥
2
॥
ग्लौं
गं
च
गणपतये
वाचं
पातु
विनायकः
।
वरबीजं
तथा
जिह्वां
वरदं
हस्तयोस्तथा
॥
3
॥
सर्वजनं
मे
च
बाहुद्वयं
कण्ठं
गणेश्वरः
।
वशं
मे
पातु
हृदयं
पातु
सिद्धीश्वरस्तथा
॥
4
॥
नाभिं
आनय
मे
पातु
सर्वसिद्धिविनायकः
।
जङ्घयोर्गुल्फयोः
स्वाहा
सर्वाङ्गं
विघ्ननायकः
॥
5
॥
गणपतिस्त्वग्रतः
पातु
गणेशः
पृष्ठतस्तथा
।
दक्षिणे
सिद्धिदः
पातु
वामे
विश्वार्तिहारकः
॥
6
॥
दुर्जयो
रक्षतु
प्राच्यामाग्नेय्यां
गणपस्तथा
।
दक्षिणस्यां
गिरिजजो
नैरृत्यां
शम्भुनन्दनः
॥
7
॥
प्रतीच्यां
स्थाणुजः
पातु
वायव्यामाखुवाहनः
।
कौबेर्यामीश्वरः
पातु
ईशान्यामीश्वरात्मजः
॥
8
॥
अधो
गणपतिः
पातु
ऊर्धं
पातु
विनायकः
।
एताभ्यो
दशदिग्भ्यस्तु
पातु
नित्यं
गणेश्वरः
॥
9
॥
इतीदं
कथितं
देवि
ब्रह्मविद्याकलेवरम्
।
त्रैलोक्यमोहनं
नाम
कवचं
ब्रह्मरूपकम्
॥
10
॥
इति
श्रीमहागणपति
त्रैलोक्यमोहनकवचं
सम्पूर्णम्
।
Recite with devotion and pure heart
Regular practice brings spiritual benefits