Haindavam Logo - Lord Ganesha

हैंदवम्

📍
Font Size:

संकट नाशन गणेश स्तोत्रम्

नारद उवाच प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम् भक्तावासं स्मरेन्नित्यमायुष्कामार्थसिद्धये 1 प्रथमं वक्रतुंडं एकदंतं द्वितीयकम् तृतीयं कृष्णपिंगाक्षं गजवक्त्रं चतुर्थकम् 2 लंबोदरं पंचमं षष्ठं विकटमेव सप्तमं विघ्नराजं धूम्रवर्णं तथाष्टमम् 3 नवमं भालचंद्रं दशमं तु विनायकम् एकादशं गणपतिं द्वादशं तु गजाननम् 4 द्वादशैतानि नामानि त्रिसंध्यं यः पठेन्नरः विघ्नभयं तस्य सर्वसिद्धिकरं परम् 5 विद्यार्थी लभते विद्यां धनार्थी लभते धनम् पुत्रार्थी लभते पुत्रान्मोक्षार्थी लभते गतिम् 6 जपेद्गणपतिस्तोत्रं षड्भिर्मासैः फलं लभेत् संवत्सरेण सिद्धिं लभते नात्र संशयः 7 अष्टभ्यो ब्राह्मणेभ्यश्च लिखित्वा यः समर्पयेत् तस्य विद्या भवेत्सर्वा गणेशस्य प्रसादतः 8

Recite with devotion and pure heart

Regular practice brings spiritual benefits