Haindavam Logo - Lord Ganesha
Haindavam
📍
Font Size:

महागणेश पंचरत्नम्

मुदाकरात्त मोदकं सदा विमुक्ति साधकम् । कलाधरावतंसकं विलासिलोक रक्षकम् । अनायकैक नायकं विनाशितेभ दैत्यकम् । नताशुभाशु नाशकं नमामि तं विनायकम् ॥ 1 ॥ नतेतराति भीकरं नवोदितार्क भास्वरम् । नमत्सुरारि निर्जरं नताधिकापदुद्ढरम् । सुरेश्वरं निधीश्वरं गजेश्वरं गणेश्वरम् । महेश्वरं तमाश्रये परात्परं निरंतरम् ॥ 2 ॥ समस्त लोक शंकरं निरस्त दैत्य कुंजरम् । दरेतरोदरं वरं वरेभ वक्त्रमक्षरम् । कृपाकरं क्षमाकरं मुदाकरं यशस्करम् । मनस्करं नमस्कृतां नमस्करोमि भास्वरम् ॥ 3 ॥ अकिंचनार्ति मार्जनं चिरंतनोक्ति भाजनम् । पुरारि पूर्व नंदनं सुरारि गर्व चर्वणम् । प्रपंच नाश भीषणं धनंजयादि भूषणम् । कपोल दानवारणं भजे पुराण वारणम् ॥ 4 ॥ नितांत कांति दंत कांति मंत कांति कात्मजम् । अचिंत्य रूपमंत हीन मंतराय कृंतनम् । हृदंतरे निरंतरं वसंतमेव योगिनाम् । तमेकदंतमेव तं विचिंतयामि संततम् ॥ 5 ॥ महागणेश पंचरत्नमादरेण योऽन्वहम् । प्रजल्पति प्रभातके हृदि स्मरन् गणेश्वरम् । अरोगतामदोषतां सुसाहितीं सुपुत्रताम् । समाहितायु रष्टभूति मभ्युपैति सोऽचिरात् ॥

Recite with devotion and pure heart

Regular practice brings spiritual benefits