हैंदवम्
हैं
హై
हैंदवम्
ஹி
હિં
English
हिंदी
മലയാളം
తెలుగు
தமிழ்
ಕನ್ನಡ
📍
𖦏
Auto Detect Location
Font Size:
a
a
a
महागणपति मन्त्रविग्रह कवचम्
ओं
अस्य
श्रीमहागणपति
मन्त्रविग्रह
कवचस्य
।
श्रीशिव
ऋषिः
।
देवीगायत्री
छन्दः
।
श्री
महागणपतिर्देवता
।
ओं
श्रीं
ह्रीं
क्लीं
ग्लौं
गं
बीजानि
।
गणपतये
वरवरदेति
शक्तिः
।
सर्वजनं
मे
वशमानय
स्वाहा
कीलकम्
।
श्री
महागणपतिप्रसादसिद्ध्यर्थे
जपे
विनियोगः
।
करन्यासः
–
ओं
श्रीं
ह्रीं
क्लीं
–
अङ्गुष्ठाभ्यां
नमः
।
ग्लौं
गं
गणपतये
–
तर्जनीभ्यां
नमः
।
वरवरद
–
मध्यमाभ्यां
नमः
।
सर्वजनं
मे
–
अनामिकाभ्यां
नमः
।
वशमानय
–
कनिष्ठिकाभ्यां
नमः
।
स्वाहा
–
करतल
करपृष्ठाभ्यां
नमः
।
न्यासः
–
ओं
श्रीं
ह्रीं
क्लीं
–
हृदयाय
नमः
।
ग्लौं
गं
गणपतये
–
शिरसे
स्वाहा
।
वरवरद
–
शिखायै
वषट्
।
सर्वजनं
मे
–
कवचाय
हुम्
।
वशमानय
–
नेत्रत्रयाय
वौषट्
।
स्वाहा
–
अस्त्राय
फट्
।
ध्यानम्
–
बीजापूरगदेक्षुकार्मुक
ऋजा
चक्राब्जपाशोत्पल
व्रीह्यग्रस्वविषाणरत्नकलशप्रोद्यत्कराम्भोरुहः
।
ध्येयो
वल्लभया
सपद्मकरया
श्लिष्टोज्वलद्भूषया
विश्वोत्पत्तिविपत्तिसंस्थितिकरो
विघ्नेश
इष्टार्थदः
।
इति
ध्यात्वा
।
लं
इत्यादि
मानसोपचारैः
सम्पूज्य
कवचं
पठेत्
।
ओङ्कारो
मे
शिरः
पातु
श्रीङ्कारः
पातु
फालकम्
।
ह्रीं
बीजं
मे
ललाटेऽव्यात्
क्लीं
बीजं
भ्रूयुगं
मम
॥
1
॥
ग्लौं
बीजं
नेत्रयोः
पातु
गं
बीजं
पातु
नासिकाम्
।
गं
बीजं
मुखपद्मेऽव्याद्महासिद्धिफलप्रदम्
॥
2
॥
णकारो
दन्तयोः
पातु
पकारो
लम्बिकां
मम
।
तकारः
पातु
मे
ताल्वोर्येकार
ओष्ठयोर्मम
॥
3
॥
वकारः
कण्ठदेशेऽव्याद्रकारश्चोपकण्ठके
।
द्वितीयस्तु
वकारो
मे
हृदयं
पातु
सर्वदा
॥
4
॥
रकारस्तु
द्वितीयो
वै
उभौ
पार्श्वौ
सदा
मम
।
दकार
उदरे
पातु
सकारो
नाभिमण्डले
॥
5
॥
र्वकारः
पातु
मे
लिङ्गं
जकारः
पातु
गुह्यके
।
नकारः
पातु
मे
जङ्घे
मेकारो
जानुनोर्द्वयोः
॥
6
॥
वकारः
पातु
मे
गुल्फौ
शकारः
पादयोर्द्वयोः
।
माकारस्तु
सदा
पातु
दक्षपादाङ्गुलीषु
च
॥
7
॥
नकारस्तु
सदा
पातु
वामपादाङ्गुलीषु
च
।
यकारो
मे
सदा
पातु
दक्षपादतले
तथा
॥
8
॥
स्वाकारो
ब्रह्मरूपाख्यो
वामपादतले
तथा
।
हाकारः
सर्वदा
पातु
सर्वाङ्गे
गणपः
प्रभुः
॥
9
॥
पूर्वे
मां
पातु
श्रीरुद्रः
श्रीं
ह्रीं
क्लीं
फट्
कलाधरः
।
आग्नेय्यां
मे
सदा
पातु
ह्रीं
श्रीं
क्लीं
लोकमोहनः
॥
10
॥
दक्षिणे
श्रीयमः
पातु
क्रीं
ह्रं
ऐं
ह्रीं
ह्स्रौं
नमः
।
नैरृत्ये
निरृतिः
पातु
आं
ह्रीं
क्रों
क्रों
नमो
नमः
॥
11
॥
पश्चिमे
वरुणः
पातु
श्रीं
ह्रीं
क्लीं
फट्
ह्स्रौं
नमः
।
वायुर्मे
पातु
वायव्ये
ह्रूं
ह्रीं
श्रीं
ह्स्फ्रें
नमो
नमः
॥
12
॥
उत्तरे
धनदः
पातु
श्रीं
ह्रीं
श्रीं
ह्रीं
धनेश्वरः
।
ईशान्ये
पातु
मां
देवो
ह्रौं
ह्रीं
जूं
सः
सदाशिवः
॥
13
॥
प्रपन्नपारिजाताय
स्वाहा
मां
पातु
ईश्वरः
।
ऊर्ध्वं
मे
सर्वदा
पातु
गं
ग्लौं
क्लीं
ह्स्रौं
नमो
नमः
॥
14
॥
अनन्ताय
नमः
स्वाहा
अधस्ताद्दिशि
रक्षतु
।
पूर्वे
मां
गणपः
पातु
दक्षिणे
क्षेत्रपालकः
॥
15
॥
पश्चिमे
पातु
मां
दुर्गा
ऐं
ह्रीं
क्लीं
चण्डिका
शिवा
।
उत्तरे
वटुकः
पातु
ह्रीं
वं
वं
वटुकः
शिवः
॥
16
॥
स्वाहा
सर्वार्थसिद्धेश्च
दायको
विश्वनायकः
।
पुनः
पूर्वे
च
मां
पातु
श्रीमानसितभैरवः
॥
17
॥
आग्नेय्यां
पातु
नो
ह्रीं
ह्रीं
ह्रुं
क्रों
क्रों
रुरुभैरवः
।
दक्षिणे
पातु
मां
क्रौं
क्रों
ह्रैं
ह्रैं
मे
चण्डभैरवः
॥
18
॥
नैरृत्ये
पातु
मां
ह्रीं
ह्रूं
ह्रौं
ह्रौं
ह्रीं
ह्स्रैं
नमो
नमः
।
स्वाहा
मे
सर्वभूतात्मा
पातु
मां
क्रोधभैरवः
॥
19
॥
पश्चिमे
ईश्वरः
पातु
क्रीं
क्लीं
उन्मत्तभैरवः
।
वायव्ये
पातु
मां
ह्रीं
क्लीं
कपाली
कमलेक्षणः
॥
20
॥
उत्तरे
पातु
मां
देवो
ह्रीं
ह्रीं
भीषणभैरवः
।
ईशान्ये
पातु
मां
देवः
क्लीं
ह्रीं
संहारभैरवः
॥
21
॥
ऊर्ध्वं
मे
पातु
देवेशः
श्रीसम्मोहनभैरवः
।
अधस्ताद्वटुकः
पातु
सर्वतः
कालभैरवः
॥
22
॥
इतीदं
कवचं
दिव्यं
ब्रह्मविद्याकलेवरम्
।
गोपनीयं
प्रयत्नेन
यदीच्छेदात्मनः
सुखम्
॥
23
॥
जननीजारवद्गोप्या
विद्यैषेत्यागमा
जगुः
।
अष्टम्यां
च
चतुर्दश्यां
सङ्क्रान्तौ
ग्रहणेष्वपि
॥
24
॥
भौमेऽवश्यं
पठेद्धीरो
मोहयत्यखिलं
जगत्
।
एकावृत्या
भवेद्विद्या
द्विरावृत्या
धनं
लभेत्
॥
25
॥
त्रिरावृत्या
राजवश्यं
तुर्यावृत्याऽखिलाः
प्रजाः
।
पञ्चावृत्या
ग्रामवश्यं
षडावृत्या
च
मन्त्रिणः
॥
26
॥
सप्तावृत्या
सभावश्या
अष्टावृत्या
भुवः
श्रियम्
।
नवावृत्या
च
नारीणां
सर्वाकर्षणकारकम्
॥
27
॥
दशावृत्तीः
पठेन्नित्यं
षण्मासाभ्यासयोगतः
।
देवता
वशमायाति
किं
पुनर्मानवा
भुवि
॥
28
॥
कवचस्य
च
दिव्यस्य
सहस्रावर्तनान्नरः
।
देवतादर्शनं
सद्यो
नात्रकार्या
विचारणा
॥
29
॥
अर्धरात्रे
समुत्थाय
चतुर्थ्यां
भृगुवासरे
।
रक्तमालाम्बरधरो
रक्तगन्धानुलेपनः
॥
30
॥
सावधानेन
मनसा
पठेदेकोत्तरं
शतम्
।
स्वप्ने
मूर्तिमयं
देवं
पश्यत्येव
न
संशयः
॥
31
॥
इदं
कवचमज्ञात्वा
गणेशं
भजते
नरः
।
कोटिलक्षं
प्रजप्त्वापि
न
मन्त्रं
सिद्धिदो
भवेत्
॥
32
॥
पुष्पाञ्जल्यष्टकं
दत्वा
मूलेनैव
सकृत्
पठेत्
।
अपिवर्षसहस्राणां
पूजायाः
फलमाप्नुयात्
॥
33
॥
भूर्जे
लिखित्वा
स्वर्णस्तां
गुटिकां
धारयेद्यदि
।
कण्ठे
वा
दक्षिणे
बाहौ
सकुर्याद्दासवज्जगत्
॥
34
॥
न
देयं
परशिष्येभ्यो
देयं
शिष्येभ्य
एव
च
।
अभक्तेभ्योपि
पुत्रेभ्यो
दत्वा
नरकमाप्नुयात्
॥
35
॥
गणेशभक्तियुक्ताय
साधवे
च
प्रयत्नतः
।
दातव्यं
तेन
विघ्नेशः
सुप्रसन्नो
भविष्यति
॥
36
॥
इति
श्रीदेवीरहस्ये
श्रीमहागणपति
मन्त्रविग्रहकवचं
सम्पूर्णम्
।
Recite with devotion and pure heart
Regular practice brings spiritual benefits