हैंदवम्
हैं
హై
हैंदवम्
ஹி
હિં
English
हिंदी
മലയാളം
తెలుగు
தமிழ்
ಕನ್ನಡ
📍
𖦏
Auto Detect Location
Font Size:
a
a
a
गणपति स्तवं
ब्रह्मविष्णुमहेशा
ऊचुः
–
अजं
निर्विकल्पं
निराकारमेकं
निरानंदमद्वैतमानंदपूर्णम्
।
परं
निर्गुणं
निर्विशेषं
निरीहं
परब्रह्मरूपं
गणेशं
भजेम
॥
1
॥
गुणातीतमाद्यं
चिदानंदरूपं
चिदाभासकं
सर्वगं
ज्ञानगम्यम्
।
मुनिध्येयमाकाशरूपं
परेशं
परब्रह्मरूपं
गणेशं
भजेम
॥
2
॥
जगत्कारणं
कारणज्ञानरूपं
सुरादिं
सुखादिं
युगादिं
गणेशम्
।
जगद्व्यापिनं
विश्ववंद्यं
सुरेशं
परब्रह्मरूपं
गणेशं
भजेम
॥
3
॥
रजोयोगतो
ब्रह्मरूपं
श्रुतिज्ञं
सदा
कार्यसक्तं
हृदाचिंत्यरूपम्
।
जगत्कारकं
सर्वविद्यानिधानं
परब्रह्मरूपं
गणेशं
नतास्मः
॥
4
॥
सदा
सत्त्वयोगं
मुदा
क्रीडमानं
सुरारीन्हरंतं
जगत्पालयंतम्
।
अनेकावतारं
निजज्ञानहारं
सदा
विष्णुरूपं
गणेशं
नमामः
॥
5
॥
तमोयोगिनं
रुद्ररूपं
त्रिनेत्रं
जगद्धारकं
तारकं
ज्ञानहेतुम्
।
अनेकागमैः
स्वं
जनं
बोधयंतं
सदा
शर्वरूपं
गणेशं
नमामः
॥
6
॥
तमस्तोमहारं
जनाज्ञानहारं
त्रयीवेदसारं
परब्रह्मपारम्
।
मुनिज्ञानकारं
विदूरेविकारं
सदा
ब्रह्मरूपं
गणेशं
नमामः
॥
7
॥
निजैरोषधीस्तर्पयंतं
करोद्यैः
सरौघान्कलाभिः
सुधास्राविणीभिः
।
दिनेशांशु
संतापहारं
द्विजेशं
शशांकस्वरूपं
गणेशं
नमामः
॥
8
॥
प्रकाशस्वरूपं
नभोवायुरूपं
विकारादिहेतुं
कलाकालभूतम्
।
अनेकक्रियानेकशक्तिस्वरूपं
सदा
शक्तिरूपं
गणेशं
नमामः
॥
9
॥
प्रधानस्वरूपं
महत्तत्त्वरूपं
धरावारिरूपं
दिगीशादिरूपम्
।
असत्सत्स्वरूपं
जगद्धेतुभूतं
सदा
विश्वरूपं
गणेशं
नतास्मः
॥
10
॥
त्वदीये
मनः
स्थापयेदंघ्रियुग्मे
जनो
विघ्नसंघान्न
पीडां
लभेत
।
लसत्सूर्यबिंबे
विशाले
स्थितोऽयं
जनोध्वांत
पीडां
कथं
वा
लभेत
॥
11
॥
वयं
भ्रामिताः
सर्वथाऽज्ञानयोगा-
-दलब्धा
तवांघ्रिं
बहून्वर्षपूगान्
।
इदानीमवाप्तास्तवैव
प्रसादा-
-त्प्रपन्नान्सदा
पाहि
विश्वंभराद्य
॥
12
॥
गणेश
उवाच
–
इदं
यः
पठेत्प्रातरुत्थाय
धीमान्
त्रिसंध्यं
सदा
भक्तियुक्तो
विशुद्धः
।
सपुत्रान्
श्रियं
सर्वकामान्
लभेत
परब्रह्मरूपो
भवेदंतकाले
॥
13
॥
इति
गणेशपुराणे
उपासनाखंडे
त्रयोदशोऽध्याये
श्रीगणपतिस्तवः
।
Recite with devotion and pure heart
Regular practice brings spiritual benefits